संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय ५४

रेवा खण्डम् - अध्याय ५४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


ईश्वर उवाच -
ततश्चानन्तरं राजा जगामोद्वेगमुत्तमम् ।
कथं यामि गृहं त्वद्य वाराणस्यामहं पुनः ॥१॥
ब्रह्महत्यासमाविष्टो जुहोम्यग्नौ कलेवरम् ।
अथवा तस्य वाक्येन तं गच्छाम्याश्रमं प्रति ॥२॥
कथयामि यथावृत्तं गत्वा तस्य महामुनेः ।
एवं संचिन्त्य राजासौ जगामाश्रमसन्निधौ ॥३॥
ऋक्षशृङ्गस्य चास्थीनि गृहीत्वा स नृपोत्तमः ।
दृष्टिमार्गे स्थितस्तस्य महर्षेर्भावितात्मनः ॥४॥

दीर्घतपा उवाच -
आगच्छ स्वागतं तेऽस्तु आसनेऽत्रोपविश्यताम् ।
अर्घं ददाम्यहं येन मधुपर्कं सविष्टरम् ॥५॥

चित्रसेन उवाच -
अर्घस्यास्य न योग्योऽहं महर्षे नास्मि भाषणे ।
मृगमध्यस्थितो विप्रस्तव पुत्रो मया हतः ॥६॥
पुत्रघ्नं विद्धि मां विप्र तीव्रदण्डेन दण्डय ।
मृगभ्रान्त्या हतो विप्र ऋक्षशृङ्गो महातपाः ॥७॥
इति मत्वा मुनिश्रेष्ठ कुरु मे त्वं यथोचितम् ।
माता तद्वचनं श्रुत्वा गृहान्निष्क्रम्य विह्वला ॥८॥
हा हतास्मीत्युवाचेदं पपात धरणीतले ।
विललाप सुदुःखार्ता पुत्रशोकेन पीडिता ॥९॥
हा हता पुत्र पुत्रेति करुणं कुररी यथा ।
विललापातुरा माता क्व गतो मां विहाय वै ।
मुखं दर्शय चात्मीयं मातरं मां हि मानय ॥१०॥
श्रुताध्ययनसम्पन्नं जपहोमपरायणम् ।
आगतं त्वां गृहद्वारे कदा द्रक्ष्यामि पुत्रक ॥११॥
लोकोक्त्या श्रूयते चैतच्चन्दनं किल शीतलम् ।
पुत्रगात्रपरिष्वङ्गश्चन्दनादपि शीतलः ॥१२॥
किं चन्दनेन पीयूपबिन्दुना किं किमिन्दुना ॥१३॥
पुत्रगात्रपरिष्वङ्गपात्रं गात्रं भवेद्यदि ॥१४॥
परिष्वजितुमिच्छामि त्वामहं पुत्र सुप्रिय ।
पञ्चत्वमनुयास्यामि त्वद्विहीनाद्य दुःखिता ॥१५॥
एवं विलपती दीना पुत्रशोकेन पीडिता ।
मूर्छिता विह्वला दीना निपपात महीतले ॥१६॥
भार्यां च पतितां दृष्ट्वा पुत्रशोकेन पीडिताम् ।
चुकोप स मुनिस्तत्र चित्रसेनाय भूभृते ॥१७॥

दीर्घतपा उवाच -
याहि याहि महापाप मा मुखं दर्शयस्व मे ।
किं त्वया घातितो विप्रो ह्यकामाच्च सुतो मम ॥१८॥
ब्रह्महत्या भविष्यन्ति बह्व्यस्ते वसुधाधिप ।
सकुटुम्बस्य मे त्वं हि मृत्युरेष उपस्थितः ॥१९॥
एवमुक्त्वा ततो विप्रो विचिन्त्य च पुनःपुनः ।
परित्यज्य तदा क्रोधं मुनिभावाज्जगाद ह ॥२०॥

दीर्घतपा उवाच -
उद्वेगं त्यज भो वत्स दुरुक्तं गदितो मया ।
पुत्रशोकाभिभूतेन दुःखतप्तेन मानद ॥२१॥
किं करोति नरः प्राज्ञः प्रेर्यमाणः स्वकर्मभिः ।
प्रागेव हि मनुष्याणां बुद्धिः कर्मानुसारिणी ॥२२॥
अनेनैव विधानेन पञ्चत्वं विहितं मम ।
हत्यास्तव भविष्यन्ति पूर्वमुक्ता न संशयः ॥२३॥
ब्रह्मक्षत्रविशां मध्ये शूद्रचण्डालजातिषु ।
कस्त्वं कथय सत्यं मे कस्माच्च निहतो द्विजः ॥२४॥

चित्रसेन उवाच -
विज्ञापयामि विप्रर्षे क्षन्तव्यं ते ममोपरि ।
नाहं विप्रोऽस्मि वै तात न वैश्यो न च शूद्रजः ॥२५॥
न व्याधश्चान्त्यजातो वा क्षत्रियोऽहं महामुने ।
काशीराजो मृगान् हन्तुमागतो वनमुत्तमम् ॥२६॥
भ्रान्त्या निपातितो ह्येष मृगरूपधरो मुनिः ।
इदानीं तव पादान्ते संश्रितः पातकान्वितः ॥२७॥
किं कर्तव्यं मया विप्र उपायं कथयस्व मे ॥२८॥

दीर्घतपा उवाच -
ब्रह्महत्या न शक्येताप्येका निस्तरितुं प्रभो ।
दशैका च कथं शक्यास्ताः शृणुष्व नरेश्वर ॥२९॥
चत्वारो मे सुता राजन् सभार्या मातृपूर्वकाः ।
मया सह न जीवन्ति ऋक्षशृङ्गस्य कारणे ॥३०॥
उपायं शोभनं तात कथयिष्ये शृणुष्व तम् ।
शक्रोऽपि यदि तं कर्तुं सुखोपायं नरेश्वर ॥३१॥
सकुटुम्बं समस्तं मां दाहयित्वानले नृप ।
अस्थीनि नर्मदातोये शूलभेदे विनिक्षिप ॥३२॥
नर्मदादक्षिणे कूले शूलभेदं हि विश्रुतम् ।
सर्वपापहरं तीर्थं सर्वदुःखघ्नमुत्तमम् ॥३३॥
शुचिर्भूत्वा ममास्थीनि तत्र तीर्थे विनिक्षिप ।
मोक्ष्यसे सर्वपापैस्त्वं मम वाक्यान्न संशयः ॥३४॥

राजोवाच -
आदेशो दीयतां तात करिष्यामि न संशयः ।
समस्तं मेऽस्ति यत्किंचिद्राज्यं कोशः सुहृत्सुताः ॥३५॥
तवाधीनं महाविप्र प्रयच्छामि प्रसीद मे ।
परस्परं विवदतोर्विप्र राज्ञोस्तदा नृप ॥३६॥
स्फुटित्वा हृदयं शीघ्रं मुनिभार्या मृता तदा ।
पुत्रशोकसमाविष्टा निर्जीवा पतिता क्षितौ ॥३७॥
पुत्राश्च मातृशोकेन सर्वे पञ्चत्वमागताः ।
स्नुषाश्चैव तदा सर्वा मृताश्च सह भर्तृभिः ॥३८॥
पञ्चत्वं च गताः सर्वे मुनिमुख्या नृपोत्तम ।
विप्रानाह्वापयामास ये तत्राश्रमवासिनः ॥३९॥
तेभ्यो निवेदयामास यथावृत्तं नृपोत्तमः ।
स तैस्तदाभ्यनुज्ञातः काष्ठान्यादाय यत्नतः ॥४०॥
दाहं संचयनं चक्रे चित्रसेनो महीपतिः ।
ऋक्षशृङ्गादिसर्वेषां गृहीत्वास्थीनि यत्नतः ॥४१॥
याम्याशां प्रस्थितो राजा पादचारी महीपते ।
न शक्नोति यदा गन्तुं छायामाश्रित्य तिष्ठति ॥४२॥
विश्रम्य च पुनर्गच्छेद्भाराक्रान्तो महीपतिः ।
सचैलं कुरुते स्नानं मुक्त्वास्थीनि पदे पदे ॥४३॥
पिबेज्जलं निराहारः स गच्छन् दक्षिणामुखः ।
अचिरेणैव कालेन संगतो नर्मदातटम् ॥४४॥
आश्रमस्थान् द्विजान् दृष्ट्वा पप्रच्छ पृथिवीपतिः ॥४५॥

चित्रसेन उवाच -
कथ्यतां शूलभेदस्य मार्गं मे द्विजसत्तमाः ।
येन यामि महाभागाः स्वकार्यार्थस्य सिद्धये ॥४६॥
मुनय ऊचुः ।
इतः क्रोशान्तरादर्वाक्तीर्थं परमशोभनम् ।
नर्मदादक्षिणे कूले ततो द्रक्ष्यसि नान्यथा ॥४७॥
ऋषिवाक्येन राजासौ शीघ्रं गत्वा नरेश्वरः ।
स ददर्श ततः शीघ्रं बहुद्विजसमाकुलम् ॥४८॥
बहुद्रुमलताकीर्णं बहुपुष्पोपशोभितम् ।
ऋक्षसिंहसमाकीर्णं नानाव्रतधरैः शुभैः ॥४९॥
एकपादास्थिताः केचिदपरे सूर्यदृष्टयः ।
एकाङ्गुष्ठ स्थिताः केचिदूर्ध्वबाहुस्थिताः परे ॥५०॥
दिनैकभोजनाः केचित्केचित्कन्दफलाशनाः ।
त्रिरात्रभोजनाः केचित्पराकव्रतिनोऽपरे ॥५१॥
चान्द्रायणरताः केचित्केचित्पक्षोपवासिनः ।
मासोपवासिनः केचित्केचिदृत्वन्तपारणाः ॥५२॥
योगाभ्यासरताः केचित्केचिद्ध्यायन्ति तत्पदम् ।
शीर्णपर्णाशिनः केचित्केचिच्च कटुकाशनाः ॥५३॥
शैवालभोजनाः केचित्केचिन्मारुतभोजनाः ।
गार्हस्थ्ये च स्थिताः केचित्केचिच्चैवाग्निहोत्रिणः ॥५४॥
एवंविधान् द्विजान् दृष्ट्वा जानुभ्यामवनिं गतः ।
प्रणम्य शिरसा राजन्राजा वचनमब्रवीत् ॥५५॥

चित्रसेन उवाच -
कस्मिन्देशे च तत्तीर्थं सत्यं कथयत द्विजाः ।
येनाभिवाञ्छिता सिद्धिः सफला मे भविष्यति ॥५६॥
ऋषय ऊचुः ।
धन्वन्तरशतं गच्छ भृगुतुङ्गस्य मूर्धनि ।
कुण्डं द्रक्ष्यसि तत्पूर्णं विस्तीर्णं पयसा शिवम् ॥५७॥
तेषां तद्वचनं श्रुत्वा गतः कुण्डस्य सन्निधौ ।
दृष्ट्वा चैव तु तत्तीर्थं भ्रान्तिर्जाता नृपस्य वै ॥५८॥
ततो विस्मयमापन्नश्चिन्तयन्वै मुहुर्मुहुः ।
आकाशस्थं ददर्शासौ सामिषं कुररं नृपः ॥५९॥
भ्रममाणं गृहीताहिं वध्यमानं निरामिषैः ।
परस्परं च युयुधुः सर्वेऽप्यामिषकाङ्क्षया ॥६०॥
हतश्चञ्चुप्रहारेण स ततः पतितोऽंभसि ।
शूलेन शूलिना यत्र भूभागो भेदितः पुरा ॥६१॥
तत्तीर्थस्य प्रभावेण स सद्यः पुरुषोऽभवत् ।
विमानस्थं ददर्शासौ पुमांसं दिव्यरूपिणम् ॥६२॥
गन्धर्वाप्सरसो यक्षास्तं यान्तं तुष्टुवुर्दिवि ।
अप्सरोगीयमाने तु गते सूर्यस्य मूर्धनि ।
चित्रसेनस्ततस्तस्मिन्नाश्चर्यं परमं गतः ॥६३॥
ऋषिणा कथितं यद्वत्तद्वत्तीर्थं न संशयः ।
हृष्टरोमाभवद्दृष्ट्वा प्रभावं तीर्थसम्भवम् ॥६४॥
ममाद्य दिवसो धन्यो यस्मादत्र समागतः ।
अस्थीनि भूमौ निक्षिप्य स्नानं कृत्वा यथाविधि ॥६५॥
तिलमिश्रेण तोयेनातर्पयत्पितृदेवताः ।
गृह्यास्थीनि ततो राजा चिक्षेपान्तर्जले तदा ॥६६॥
क्षणमेकं ततो वीक्ष्य राजोर्द्ध्ववदनः स्थितः ।
तान् ददर्श पुनः सर्वान् दिव्यरूपधराञ्छुभान् ॥६७॥
दिव्यवस्त्रैश्च संवीतान् दिव्याभरणभूषितान् ।
विमानैर्विविधैर्दिव्यैरप्सरोगणसेवितैः ॥६८॥
पृथग्भूतांश्च तान् सर्वान् विमानेषु व्यवस्थितान् ।
उत्पत्तिवत्समालोक्य राजा संहर्षी सोऽभवत् ॥६९॥
ऋषिर्विमानमारूढश्चित्रसेनमथाब्रवीत् ।
भोभोः साधो महाराज चित्रसेन महीपते ॥७०॥
त्वत्प्रसादान्नृपश्रेष्ठ गतिर्दिव्या ममेदृषी ।
जातेयं यत्त्वया कार्यं कृतं परमशोभनम् ॥७१॥
स्वसुतोऽपि न शक्नोति पित्ःणां कर्तुमीदृशम् ।
मदीयवचनात्तात निष्पापस्त्वं भविष्यसि ॥७२॥
फलं प्राप्स्यसि राजेन्द्र कामिकं मनसेप्सितम् ।
आशीर्वादांस्ततो दत्त्वा चित्रसेनाय धीमते ।
स्वर्गं जगाम ससुतस्ततो दीर्घतपा मुनिः ॥७३॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चमावन्त्यखण्डे रेवाखण्डे दीर्घतपसः स्वर्गारोहणवर्णनं नाम चतुःपञ्चाशत्तमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 09, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP