रेवा खण्डम् - अध्याय १३५
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
श्रीमार्कण्डेय उवाच -
तस्यैवानन्तरं चान्यत्सिद्धेश्वरमनुत्तमम् ।
तीर्थं सर्वगुणोपेतं सर्वलोकेषु पूजितम् ॥१॥
तत्र तीर्थे तु यः स्नात्वा ह्युमारुद्रं प्रपूजयेत् ।
वाजपेयस्य यज्ञस्य स लभेत्फलमुत्तमम् ॥२॥
तेन पुण्येन महता मृतः स्वर्गमवाप्नुयात् ।
अप्सरोगणसंवीतो जयशब्दादिमङ्गलैः ॥३॥
सहस्रवत्सरांस्तत्र क्रीडयित्वा यथासुखम् ।
धनधान्यसमोपेते कुले महति जायते ॥४॥
पूज्यमानो नरश्रेष्ठ वेदवेदाङ्गपारगः ।
व्याधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम् ॥५॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सिद्धेश्वरमाहात्म्यवर्णनं नाम पञ्चत्रिंशदधिकशततमोऽध्यायः ॥
N/A
References : N/A
Last Updated : December 15, 2024
TOP