रेवा खण्डम् - अध्याय १९१
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
श्रीमार्कण्डेय उवाच -
सिद्धेश्वरं ततो गच्छेत्तस्यैव तु समीपतः ।
अमृतस्रावि तल्लिङ्गमाद्यं स्वायम्भुवं तथा ॥१॥
दृष्टमात्रेण येनेह ह्यनृणो जायते नरः ।
पुरा वर्षशतं साग्रमाराध्य परमेश्वरम् ॥२॥
प्राप्नुयुः परमां सिद्धिमादित्या द्वादशैव तु ।
अतः सिद्धेश्वरः प्रोक्तः सिद्धिदः सिद्धिकाङ्क्षिणाम् ॥३॥
युधिष्ठिर उवाच -
कथं सिद्धेश्वरे प्राप्ताः सिद्धिं देवा द्विजोत्तम ।
आदित्या इति यच्चोक्तं तन्मे विस्मापनं कृतम् ॥४॥
तपस्युग्रे व्यवसिता आदित्याः केन हेतुना ।
सम्प्राप्तास्तु द्विजश्रेष्ठ सिद्धिं चैवाभिलाषिकीम् ॥५॥
संक्षिप्य तु मया पृष्टं विस्तराद्द्विज शंस मे ॥६॥
मार्कण्डेय उवाच -
अदितेर्द्वादशादित्या जाताः शक्रपुरोगमाः ।
इन्द्रो धाता भगस्त्वष्टा मित्रोऽथ वरुणोऽर्यमा ॥७॥
विवस्वान्सविता पूषा ह्यंशुमान्विष्णुरेव च ।
त इमे द्वादशादित्या इच्छन्तो भास्करं पदम् ॥८॥
नर्मदातटमाश्रित्य तपस्युग्रे व्यवस्थिताः ।
सिद्धेश्वरे महाराज काश्यपेयैर्महात्मभिः ॥९॥
परा सिद्धिरनुप्राप्ता द्वादशादित्यसंज्ञितैः ।
स्थापितश्च जगद्धाता तस्मिंस्तीर्थे दिवाकरः ॥१०॥
स्वकीयांशविभागेन द्वादशादित्यसंज्ञितैः ।
तदाप्रभृति तत्तीर्थं राजन्ख्यातिं गतं भुवि ॥११॥
प्रलये समनुप्राप्ते ह्यादित्या द्वादशैव ते ।
द्वादशादित्यतो राजन् सम्भवन्ति युगक्षये ॥१२॥
इन्द्रस्तपति पूर्वेण धाता चैवाग्निगोचरे ।
गभस्तिपतिर्वै याम्ये त्वष्टा नैरृतदिङ्मुखः ॥१३॥
वरुणः पश्चिमे भागे मित्रस्तु वायवे तथा ।
विष्णुश्च सौम्यदिग्भागे विवस्वानीशगोचरे ॥१४॥
ऊर्ध्वतश्चैव सविता ह्यधः पूषा विशोषयन् ।
अंशुमांस्तु तथा विष्णुर्मुखतो निर्गतं जगत् ॥१५॥
प्रदहन्वै नरश्रेष्ठ बभ्रमुश्च इतस्ततः ।
यथैव ते महाराज दहन्ति सकलं जगत् ॥१६॥
तथैव द्वादशादित्या भक्तानां भावसाधनाः ।
प्रातरुत्थाय यः स्नात्वा द्वादशादित्यसंज्ञितम् ॥१७॥
पश्यते देवदेवेशं शृणु तस्यैव यत्फलम् ।
वाचिकं मानसं पापं कर्मजं यत्पुराकृतम् ॥१८॥
नश्यते तत्क्षणादेव द्वादशादित्यदर्शनात् ।
प्रदक्षिणं तु यः कुर्यात्तस्य देवस्य भारत ॥१९॥
प्रदक्षिणीकृता तेन पृथिवी नात्र संशयः ।
तत्र तीर्थे तु सप्तम्यामुपवासेन यत्फलम् ॥२०॥
अन्यत्र सप्तसप्तम्यां लभन्ति न लभन्ति च ।
षष्ठ्यां वारे दैनकरे द्वादशादित्यदर्शनात् ॥२१॥
प्रदक्षिणं तु यः कुर्यात्तस्य पापं तु नश्यति ।
अरोगी सप्तजन्मानि भवेद्वै नात्र संशयः ॥२२॥
यस्तु प्रदक्षिणशतं दद्याद्भक्त्या दिने दिने ।
दद्रूपिटककुष्ठानि मण्डलानि विचर्चिकाः ॥२३॥
नश्यन्ति व्याधयः सर्वे गरुडेनेव पन्नगाः ।
पुत्रप्राप्तिर्भवेत्तस्य षष्ट्या वासरसेवनात् ॥२४॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे द्वादशादित्यतीर्थमाहात्म्यवर्णनं नामैकनवत्युत्तरशततमोऽध्यायः ॥
N/A
References : N/A
Last Updated : December 17, 2024
TOP