संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय ११०

रेवा खण्डम् - अध्याय ११०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
धौतपापं ततो गच्छेन्महापातकनाशनम् ।
समीपे चक्रतीर्थस्य विष्णुना निर्मितं पुरा ॥१॥
निहतैर्दानवैर्घोरैर्देवदेवो जनार्दनः ।
तत्पापस्य विनाशार्थं दानवान्तोद्भवस्य च ॥२॥
तत्र तीर्थे जितक्रोधश्चचार विपुलं तपः ।
दुश्चरं मौनमास्थाय ह्यशक्यं देवदानवैः ॥३॥
स्नात्वा दत्त्वा द्विजातिभ्यो दानानि विविधानि च ।
तत्क्षणात्सुपापस्तु गतस्तद्वैष्णवं पदम् ॥४॥
एवं युक्तस्तु यस्तत्र पापं कृत्वा सुदारुणम् ।
स्नात्वा जप्त्वा विधानेन मुच्यते सर्वपातकैः ॥५॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे धौतपापतीर्थमाहात्म्यवर्णनं नाम दशोत्तरशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 12, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP