संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय ५९

रेवा खण्डम् - अध्याय ५९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
ततः पुष्करिणीं गच्छेत्सर्वपापप्रणाशिनीम् ।
श्रुते यस्याः प्रभावे तु सर्वपापैः प्रमुच्यते ॥१॥
रेवाया उत्तरे कूले तीर्थं परमशोभनम् ।
यत्रास्ते सर्वदा देवो वेदमूर्तिर्दिवाकरः ॥२॥
कुरुक्षेत्रं यथा पुण्यं सार्वकामिकमुत्तमम् ।
इदं तीर्थं तथा पुण्यं सर्वकामफलप्रदम् ॥३॥
कुरुक्षेत्रे यथा वृद्धिर्दानस्य जगतीपते ।
पुष्करिण्यां तथा दानं वर्धते नात्र संशयः ॥४॥
यवमेकं तु यो दद्यात्सौवर्णं मस्तके नृप ।
पुष्करिण्यां तथा स्थानं यथा स्थानं नरे स्मृतम् ॥५॥
सूर्यग्रहे तु यः स्नात्वा दद्याद्दानं यथाविधि ।
हस्त्यश्वरथरत्नादि गृहं गाश्च युगंधरान् ॥६॥
सुवर्णं रजतं वापि ब्राह्मणेभ्यो ददाति यः ।
त्रयोदश दिनं यावत्त्रयोदशगुणं भवेत् ॥७॥
तिलमिश्रेण तोयेन तर्पयेत्पितृदेवताः ।
द्वादशाब्दे भवेत्प्रीतिस्तत्र तीर्थे महीपते ॥८॥
यस्तत्र कुरुते श्राद्धं पायसैर्मधुसर्पिषा ।
श्राद्धदो लभते स्वर्गं पित्ःणां दत्तमक्षयम् ॥९॥
अक्षतैर्बदरैर्बिल्वैरिङ्गुदैर्वा तिलैः सह ।
अक्षयं फलमाप्नोति तस्मिंस्तीर्थे न संशयः ॥१०॥
तत्र स्नात्वा तु यो देवं पूजयेच्च दिवाकरम् ।
आदित्यहृदयं जप्त्वा पुनरादित्यमर्चयेत् ।
स गच्छेत्परमं लोकं त्रिदशैरपि वन्दितम् ॥११॥
ऋचमेकां जपेद्यस्तु यजुर्वा साम एव च ।
स समग्रस्य वेदस्य फलमाप्नोति वै नृप ॥१२॥
यस्त्र्यक्षरं जपेन्मन्त्रं ध्यायमानो दिवाकरम् ।
आदित्यहृदयं जप्त्वा मुच्यते सर्वपातकैः ॥१३॥
यस्तत्र विधिवत्प्राणांस्त्यजते नृपसत्तम ।
स गच्छेत्परमं स्थानं यत्र देवो दिवाकरः ॥१४॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पुष्करिण्यामादित्यतीर्थमाहात्म्यवर्णनं नामैकोनषष्टितमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 09, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP