संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय ३०

रेवा खण्डम् - अध्याय ३०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
नर्मदोत्तरकूले तु दारुतीर्थमनुत्तमम् ।
यत्र सिद्धो महाभाग तपस्तप्त्वा द्विजोत्तमः ॥१॥

युधिष्ठिर उवाच -
कोऽसौ द्विजवरश्रेष्ठः सिद्धस्तत्र महामुने ।
दारुकेति सुतः कस्य एतन्मे वक्तुमर्हसि ॥२॥

श्रीमार्कण्डेय उवाच -
भार्गवे विपुले वंशे धीमतो देवशार्मणः ।
दारुर्नाम महाभागो वेदवेदाङ्गपारगः ॥३॥
ब्रह्मचारी गृहस्थश्च वानप्रस्थो विधिक्रमात् ।
यतिधर्मविधानेन चचार विपुलतपः ॥४॥
ध्यायन्वै स महादेवं निराहारो युधिष्ठिर ।
उवास तीर्थे तस्मिन् वै यावत्प्राणपरिक्षयम् ॥५॥
तस्य नाम्ना तु तत्तीर्थं त्रिषु लोकेषु विश्रुतम् ।
तत्र स्नात्वा विधानेन अर्चयेत्पितृदेवताः ॥६॥
सत्यवादी जितक्रोधः सर्वभूतहिते रतः ।
सर्वान्कामानवाप्नोति राजन्नत्रैव सवर्था ॥७॥
यः कुर्यादुपवासं च सत्यशौचपरायणः ।
सौत्रामणिफलं चास्य सम्भवत्यविचारितम् ॥८॥
ऋग्वेदजापी ऋग्वेदी साम वा सामपारगः ।
यजुर्वेदी यजुर्जप्त्वा लभते फलमुत्तमम् ॥९॥
प्राणांस्त्यजति यो मर्त्यस्तस्मिंस्तीर्थे विधानतः ।
अनिवर्तिका गतिस्तस्य इत्येवं शङ्करोऽब्रवीत् ॥१०॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दारुतीर्थमाहात्म्यवर्णनं नाम त्रिंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 08, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP