संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय ६६

रेवा खण्डम् - अध्याय ६६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र मातृतीर्थमनुत्तमम् ।
सङ्गमस्य समीपस्थं नर्मदादक्षिणे तटे ॥१॥
मातरस्तत्र राजेन्द्र संजाता नर्मदातटे ।
उमार्धनारिर्देवेशो व्यालयज्ञोपवीतधृक् ॥२॥
उवाच योगिनीवृन्दं कष्टंकष्टमहो हर ।
अजेयाः सर्वदेवानां त्वत्प्रसादान्महेश्वर ॥३॥
तीर्थमत्र विधानेन प्रख्यातं वसुधातले ।
एवं भवतु योगिन्य इत्युक्त्वान्तरधाच्छिवः ॥४॥

श्रीमार्कण्डेय उवाच -
तत्र तीर्थे तु यो भक्त्या नवम्यां नियतः शुचिः ।
उपोष्य परया भक्त्या पूजयेन्मातृगोचरम् ॥५॥
तस्य स्युर्मातरः प्रीताः प्रीतोऽयं वृषवाहनः ।
वन्ध्याया मृतवत्साया अपुत्राया युधिष्ठिर ॥६॥
स्नापनं चारभेत्तत्र मन्त्रशास्त्रविदुत्तमः ।
सहिरण्येन कुम्भेन पञ्चरत्नफलान्वितः ॥७॥
स्नापयेत्पुत्रकामायाः कांस्यपात्रेण देशिकः ।
पुत्रं सा लभते नारी वीर्यवन्तं गुणान्वितम् ॥८॥
यो यं काममभिध्यायेत्ततः स लभते नृप ।
मातृतीर्थात्परं तीर्थं न भूतं न भविष्यति ॥९॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मातृतीर्थमाहात्म्यवर्णनं नाम षट्षष्टितमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 09, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP