संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय १४५

रेवा खण्डम् - अध्याय १४५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


मार्कण्डेय उवाच -
ततो गच्छेद्धरापाल शीवतीर्थमनुत्तमम् ।
दर्शनाद्यस्य देवस्य मुच्यते सर्वकिल्बिषैः ॥१॥
शिवतीर्थे तु यः स्नात्वा जितक्रोधो जितेन्द्रियः ।
पूजयेत महादेवं सोऽग्निष्टोमफलं लभेत् ॥२॥
तत्र तीर्थे तु यो भक्त्या सोपवासोऽर्चयेच्छिवम् ।
अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम् ॥३॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शिवतीर्थमाहात्म्यवर्णनं नाम पञ्चचत्वारिंशदधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 15, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP