रेवा खण्डम् - अध्याय ५७
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
ईश्वर उवाच -
भानुमती द्विजान्भोज्य बुभुजे भुक्तशेषतः ।
भुक्त्वा सुसुखमास्थाय तदन्नं परिणाम्य च ॥१॥
त्रयोदश्यां ततो गत्वा मदनाख्यतिथौ तदा ।
मार्कण्डस्य ह्रदे स्नात्वानर्च्य देवं गुहाशयम् ॥२॥
कृतोपवासनियमा स्नापयित्वा महेश्वरम् ।
पञ्चामृतसुगन्धेन धूपदीपनिवेदनैः ॥३॥
आर्चयद्विविधैः पुष्पैर्नैवेद्यैश्च सुशोभनैः ।
क्षपाजागरणं कृत्वा श्रुत्वा पौराणिकीं कथाम् ॥४॥
नृत्यगीतैस्तथा स्तोत्रैर्दध्यौ देवं महेश्वरम् ।
अन्नं विस्तारितं सर्वं देवस्याग्रे यथाविधि ॥५॥
चातुर्वर्ण्यसुताः सर्वे भोजिताः सपरिच्छदाः ।
चतुर्दश्यां दिनं यावत्सम्पूज्य वृषभध्वजम् ॥६॥
शङ्खवादित्रभेरीभिः पटहध्वनिनादितम् ।
क्षपाजागरणं कृत्वा प्रभूतजनसंकुलम् ॥७॥
नृत्यगीतैस्तथा स्तोत्रैः प्रेरिता सा निशा तदा ।
प्रभाते भोजिता विप्राः पायसैर्मधुसर्पिषा ॥८॥
दत्त्वा दानानि विप्रेभ्यः शक्त्या विप्रानुसारतः ।
अर्चयित्वा महापुष्पैः सुगन्धैर्मदनेन च ॥९॥
विचित्रैः सूक्ष्मवस्त्रैश्च देवः सम्पूज्य वेष्टितः ।
स्रग्दामलम्बमानैश्च बहुदीपसमुज्ज्वलैः ॥१०॥
पक्वान्नैर्विविधैर्भक्ष्यैः सुवृत्तैर्मोदकादिभिः ।
ततस्ते ब्राह्मणाः सर्वे वेदाध्ययनतत्पराः ॥११॥
तत्पर्व कीर्तयांश्चक्रुः पद्मकं नाम नामतः ।
आदित्यस्य दिनं त्वद्य तिथिः पञ्चदशी तथा ॥१२॥
त्वाष्ट्रमेव च नक्षत्रं संक्रान्तिर्विषुवन्तथा ।
व्यतीपातस्तथा योगः करणविष्टिरेव च ॥१३॥
पद्मकं नाम पर्वैतदयनादिचतुर्गुणम् ।
अत्र दत्तं हुतं जप्तं सर्वं भवति चाक्षयम् ॥१४॥
ते द्विजा भानुमत्याथ शूलभेदं गताः सह ।
ददृशुः शबरं कुण्डे भार्यया सह संस्थितम् ॥१५॥
ऐशानीं स दिशं गत्वा पर्वते भृगुमूर्धनि ।
पतितुं च समारूढो भार्यया सह पार्थिव ॥१६॥
भानुमत्युवाच -
तिष्ठ तिष्ठ महासत्त्व शृणुष्व वचनं मम ।
किमर्थं त्यजसि प्राणानद्यापि च युवा भवान् ॥१७॥
कः सन्तापः क उद्वेगः किं दुःखं व्याधिरेव च ।
शिशुः संदृश्यसेऽद्यापि कारणं कथ्यतामिदम् ॥१८॥
शबर उवाच -
कारणं नास्ति मे किंचिन्न दुःखं किंचिदेव तु ।
संसारभयभीतोऽहं नान्या बुद्धिः प्रवर्तते ॥१९॥
दुःखेन लभ्यते यस्मान्मानुष्यं जन्म भाग्यतः ।
मानुष्यं जन्म चासाद्य या न धर्मं समाचरेत् ॥२०॥
स गच्छेन्निरयं घोरमात्मदोषेण सुन्दरि ।
तस्मात्पतितुमिच्छामि तीर्थेऽस्मिन्पापनाशने ॥२१॥
राज्ञ्युवाच -
अद्यापि वर्तते कालो धर्मस्योपार्जने तव ।
कृतापकृतकर्मा वै व्रतदानैर्विशुध्यति ॥२२॥
अहं दास्यामि धान्यं वा वासांसि द्रविणं बहु ।
नित्यमाचर धर्मं त्वं ध्यायन्नित्यं महेश्वरम् ॥२३॥
शबर उवाच -
नैवाहं कामये वित्तं न धान्यं वस्त्रमेव च ।
यो यस्यैवान्नमश्नाति स तस्याश्नाति किल्बिषम् ॥२४॥
राज्ञ्युवाच -
कन्दमूलफलाहारो भ्रमित्वा भैक्ष्यमुत्तमम् ।
अवगाह्य सुतीर्थानि सर्वपापैः प्रमुच्यते ॥२५॥
ततो विमुक्तपापस्तु यत्किंचित्कुरुते शुचिः ।
कर्मणा तेन पूतस्त्वं सद्गतिं प्राप्स्यसि ध्रुवम् ॥२६॥
शबर उवाच -
अन्नमद्य मया त्यक्तं प्राणेभ्योऽपि महत्तरम् ।
सत्यं न लोपयेद्देवि निश्चितात्र मतिर्मम ॥२७॥
प्रसादः क्रियतां देवि क्षमस्वाद्य जनैः सह ।
अर्धोत्तरीयवस्त्रेण संयम्यात्मानमुद्यतः ॥२८॥
भार्यया सहितो व्याधो हरिं ध्यात्वा पपात ह ।
नगार्धात्पतितो यावद्गतजीवो नराधिप ॥२९॥
चूर्णीभूतौ हि तौ दृष्ट्वा कुण्डस्योपरि भूमिप ।
त्रिमुहूर्ते गते काले शबरो भार्यया सह ॥३०॥
दिव्यं विमानमारूढो गतश्चानुत्तमां गतिम् ॥३१॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे व्याधस्वर्गगमनवर्णनं नाम सप्तपञ्चाशत्तमोऽध्यायः ॥
N/A
References : N/A
Last Updated : December 09, 2024
TOP