रेवा खण्डम् - अध्याय ३८
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
श्रीमार्कण्डेय उवाच -
ततो गच्छेत राजेन्द्र गुहावासीति चोत्तमम् ।
यत्र सिद्धो महादेवो गुहावासी समार्बुदम् ॥१॥
युधिष्ठिर उवाच -
केन कार्येण भो तात महादेवो जगद्गुरुः ।
गुहायामनयत्कालं सुदीर्घं द्विजसत्तम ॥२॥
एतद्विस्तरतः सर्वं कथयस्व ममानघ ।
श्रोतुमिच्छाम्यहं सर्वपरं कौतूहलं हि मे ॥३॥
मार्कण्डेय उवाच -
साधु प्रश्नो महाराज पृष्टो यो वै त्वयोत्तमः ।
पुराणे विस्तरो ह्यस्य न शक्यो हि मयाधुना ॥४॥
कथितुं वृद्धभावत्वादतीतो बहुकालिकः ।
संक्षेपात्तेन ते तात कथयामि निबोध मे ॥५॥
पुरा कृतयुगे राजन्नासीद्दारुवनं महत् ।
नानाद्रुमलताकीर्णं नानावल्ल्युपशोभितम् ॥६॥
सिंहव्याघ्रवराहैश्च गजैः खड्गैर्निषेवितम् ।
बहुपक्षियुतं दिव्यं यथा चैत्ररथं वनम् ॥७॥
तत्र केचिन्महाप्राज्ञा वसन्ति संशितव्रताः ।
वसन्ति परया भक्त्या चतुराश्रमभाविताः ॥८॥
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ।
स्वधर्मनिरताः सर्वे वाञ्छन्तः परमं पदम् ॥९॥
तावद्वसन्तसमये कस्मिंश्चित्कारणान्तरे ।
विमानस्थो महादेवो गच्छन्वै ह्युमया सह ॥१०॥
ददर्श तोय आवासमृक्सामयजुर्नादितम् ।
अलक्ष्यागतनिर्गम्यं सर्वपापक्षयंकरम् ॥११॥
तं दृष्ट्वा मुदिता देवी हर्षगङ्गदया गिरा ।
पप्रच्छ देवदेवेशं शशाङ्ककृतभूषणम् ॥१२॥
देव्युवाच -
कस्यायमाश्रमो देव वेदध्वनिनिनादितः ।
यं दृष्ट्वा क्षुत्पिपासाद्यैः श्रमैश्च परिहीयते ॥१३॥
महेश्वर उवाच -
किं त्वया न श्रुतं देवि महादारुवनं महत् ।
बहुविप्रजनो यत्र गृहधर्मेण वर्तते ॥१४॥
अत्र यः स्त्रीजनः कश्चिद्भर्तृशुश्रूषणे रतः ।
नान्यो देवो न वै धर्मो ज्ञायते शैलनन्दिनि ॥१५॥
एतच्छ्रुत्वा परं वाक्यं देवदेवेन भाषितम् ।
कौतूहलसमाविष्टा शङ्करं पुनरब्रवीत् ॥१६॥
यत्त्वयोक्तं महादेव पतिधर्मरताः स्त्रियः ।
तासां त्वं मदनो भूत्वा चारित्रं क्षोभय प्रभो ॥१७॥
ईश्वर उवाच -
यत्त्वयोक्तं च वचनं न हि मे रोचते प्रिये ।
ब्राह्मणा हि महद्भूतं न चैषां विप्रियं चरेत् ॥१८॥
मन्युप्रहरणा विप्राश्चक्रप्रहरणो हरिः ।
चक्रात्क्रूरतरो मन्युस्तस्माद्विप्रं न कोपयेत् ॥१९॥
न ते देवा न ते लोका न ते नगा न चासुराः ।
दृश्यन्ते त्रिषु लोकेषु ये तैर्दृष्टैर्न नाशिताः ॥२०॥
तेषां मोक्षस्तथा स्वर्गो भूमिर्मर्त्ये फलानि च ।
येषां तुष्टा महाभागा ब्राह्मणाः क्षितिदेवताः ॥२१॥
एवं ज्ञात्वा महाभागे असद्ग्राहं परित्यज ।
तत्र लोके विरुद्धं वै कुप्यन्ते येन वै द्विजाः ॥२२॥
देव्युवाच -
नाहं ते दयिता देव नाहं ते वशवर्तिनी ।
अकृत्वाधश्व वै तासां मानं सुरसुपूजितम् ॥२३॥
लोकलोके महादेव अशक्यं नास्ति ते प्रभो ।
क्रियतां मम चैवैकमेतत्कार्यं सुरोत्तम ॥२४॥
एवमुक्तो महादेवो देव्या वाक्यहिते रतः ।
कृत्वा कापालिकं रूपं ययौ दारुवनं प्रति ॥२५॥
महाहितजटाजूटं नियम्य शशिभूषणम् ।
कण्ठत्राणं परं कृत्वा धारयन् कर्णकुण्डले ॥२६॥
व्याघ्रचर्मपरीधानो मेखलाहारभूषितः ।
नूपुरध्वनिनिघोषैः कम्पयन् वै वसुंधराम् ॥२७॥
महानूर्द्ध्वजटामाली कृत्तिभस्मानुलेपनः ।
कृत्वा हस्ते कपालं तु ब्रह्मणश्च महात्मनः ॥२८॥
महाडमरुघोषेण कम्पयन् वै वसुंधराम् ।
प्रभातसमये प्राप्तो महादारुवनं प्रति ॥२९॥
तावत्पुण्यजनः सर्वपुष्पपत्रफलार्थिकः ।
निर्गतो बहुभिः सार्द्धं पवमानः समन्ततः ॥३०॥
तद्दृष्ट्वा महदाश्चर्यं रूपं देवस्य भारत ।
युवतीनां मनस्तासां कामेन कलुषीकृतम् ॥३१॥
शोभनं पुरुषं दृष्ट्वा सर्वा अपि वराङ्गनाः ।
क्लेदभावं ततो जग्मुर्मुदा दारुवनस्त्रियः ॥३२॥
विकारा बहवस्तासां देवं दृष्ट्वा महाद्भुतम् ।
संजाता विप्रपत्नीनां तदा तासु नरोत्तम ॥३३॥
परिधानं न जानन्ति काश्चिद्दृष्ट्वा वराङ्गनाः ।
उत्तरीयं तथा चान्या महामोहसमन्विताः ॥३४॥
केशभारपरिभ्रष्टा काचिदेवासनोत्थिता ।
दातुकामा तदा भैक्ष्यं चेष्टितुं नैव चाशकत् ॥३५॥
काचिद्दृष्ट्वा महादेवं रूपयौवनगर्विता ।
उत्सङ्गे संस्थितं बालं विस्मृता पायितुं स्तनम् ॥३६॥
कामबाणहता चान्या बाहुभ्यां पीड्य सुस्तनौ ।
निःश्वसन्ती तदा चोष्णं न किंचित्प्रतिजल्पति ॥३७॥
एवं संक्षोभ्य तं सर्वं स्त्रीजनं परमेश्वरः ।
जगाम तत्र वै तासां क्षोभं कृत्वा महाद्भुतम् ॥३८॥
तावत्ते ब्राह्मणाः सर्वे भ्रमित्वा काननं महत् ।
आगताः स्वगृहे दारान् ददृशुश्च हतौजसः ॥३९॥
यासां पूर्वतरा भक्तिः पातिव्रत्ये पतीन्प्रति ।
चलितास्ता विदित्वाशु निर्जग्मुर्द्विजसत्तमाः ॥४०॥
संविदं परमां कृत्वा ज्ञात्वा देवं महेश्वरम् ।
क्षोभयित्वा मनस्तासां ततश्चादर्शनं गतम् ॥४१॥
क्रोधाविष्टो द्विजः कश्चिद्दण्डमुद्यम्य धावति ।
कल्माषयष्टिमन्ये च तथान्ये दर्भमुष्टिकाम् ॥४२॥
इतश्चेतश्च ते सर्वे भ्रमित्वा काननं नृप ।
एकीभूत्वा महात्मानो व्याजह्रुश्च रुषा गिरम् ॥४३॥
यदिदं च हुतं किंचिद्गुरवस्तोषिता यदि ।
तेन सत्येन देवस्य लिङ्गं पततु चोत्तमम् ॥४४॥
आश्रमादाश्रमं सर्वे न त्यजामो विधिक्रमात् ।
तेन सत्येन देवस्य लिङ्गं पततु भूतले ॥४५॥
एवं सत्यप्रभावेन त्रिरुक्तेन द्विजन्मनाम् ।
शिवस्य पश्यतो लिङ्गं पतितं धरणीतले ॥४६॥
हाहाकारो महानासील्लोकालोकेऽपि भारत ।
देवस्य पतिते लिङ्गे जगतश्च महाक्षये ॥४७॥
पतमानस्य लिङ्गस्य शब्दोऽभूच्च सुदारुणः ।
उल्कापाता दिशां हाहा भूमिकम्पाश्च दारुणाः ॥४८॥
पतन्ति पर्वताग्राणि शोषं यान्ति च सागराः ।
देवस्य पतिते लिङ्गे देवा विमनसोऽभवन् ॥४९॥
समेत्य सहिताः सर्वे ब्रह्माणं परमेष्ठिनम् ।
कृताञ्जलिपुटाः सर्वे स्तुवन्ति विविधैः स्तवैः ॥५०॥
ततस्तुष्टो जगन्नाथश्चतुर्वदनपङ्कजः ।
आर्तान्प्राह सुरान्सर्वान्मा विषादं गमिष्यथ ॥५१॥
ब्रह्मशापाभिभूतोऽसौ देवदेवस्त्रिलोचनः ।
तुष्टैस्तैस्तपसा युक्तैः पुनर्मोक्षं गमिष्यति ॥५२॥
एतच्छ्रुत्वा ययुर्देवा यथागतमरिन्दम ।
भावयित्वा ततः सर्वे मुनयश्चैव भारत ॥५३॥
विश्वामित्रवसिष्ठाद्या जाबालिरथ कश्यपः ।
समेत्य सहिताः सर्वे तमूचुस्त्रिपुरान्तकम् ॥५४॥
ब्रह्मतेजो हि बलवद्द्विजानां हि सुरेश्वर ।
क्षान्तियुक्तस्तपस्तप्त्वा भविष्यसि गतक्लमः ॥५५॥
यतः क्षोभादृषीणां च तदेवं लिङ्गमुत्तमम् ।
पतितं ते महादेव न तत्पूज्यं भविष्यति ॥५६॥
न तच्छ्रेयोऽग्निहोत्रेण नाग्निष्टोमेन लभ्यते ।
प्राप्नुवन्ति च यच्छ्रेयो मानवा लिङ्गपूजने ॥५७॥
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।
वचनेन तु विप्राणामेतत्पूज्यं भविष्यति ॥५८॥
ब्रह्मविष्ण्विन्द्रचन्द्राणामेतत्पूज्यं भविष्यति ।
यत्फलं तव लिङ्गस्य इह लोके परत्र च ॥५९॥
एवमुक्तो जगन्नाथः प्रणिपत्य द्विजोत्तमान् ।
मुदा परमया युक्तः कृताञ्जलिरभाषत ॥६०॥
ब्राह्मणा जङ्गमं तीर्थं निर्जलं सार्वकामिकम् ।
येषां वाक्योदकेनैव शुध्यन्ति मलिनो जनाः ॥६१॥
न तत्क्षेत्रं न तत्तीर्थमूषरं पुष्कराणि च ।
ब्राह्मणे मन्युमुत्पाद्य यत्र गत्वा स शुध्यति ॥६२॥
न तच्छास्त्रं यन्न विप्रप्रणीतं न तद्दानं यन्न विप्रप्रदेयम् ।
न तत्सौख्यं यन्नविप्रप्रसादान्न तद्दुःखं यन्न विप्रप्रकोपात् ॥६३॥
पृथिव्यां यानि तीर्थानि गङ्गाद्याः सरितस्तथा ।
एकस्य विप्रवाक्यस्य कलां नार्हन्ति षोडशीम् ॥६४॥
अभिनन्द्य द्विजान्सर्वाननुज्ञातो महर्षिभिः ।
ततोऽगमत्तदा देवो नर्मदातटमुत्तमम् ॥६५॥
परमं व्रतमास्थाय गुहावासी समार्बुदम् ।
तपश्चचार भगवाञ्जपस्नानरतः सदा ॥६६॥
समाप्ते नियमे तात स्थापयित्वा महेश्वरम् ।
वन्द्यमानः सुरैः सार्द्धं कैलासमगमत्प्रभुः ॥६७॥
नर्मदायास्तटे तेन स्थापितः परमेश्वरः ।
तेनैव कारणेनासौ नर्मदेश्वर उच्यते ॥६८॥
योऽर्चयेन्नर्मदेशानं यतिर्वै संजितेन्द्रियः ।
स्नात्वा चैव महादेवमश्वमेधफलं लभेत् ॥६९॥
ददाति यः पितृभ्यस्तु तिलपुष्पकुशोदकम् ।
त्रिःसप्तपूर्वजास्तस्य स्वर्गे मोदन्ति पाण्डव ॥७०॥
यस्तु भोजयते विप्रांस्तस्मिंस्तीर्थे नराधिप ।
पायसं घृतमिश्रं तु स लभेत्कोटिजं फलम् ॥७१॥
सुवर्णं रजतं वापि ब्राह्मणेभ्यो युधिष्ठिर ।
ददाति तोयमध्यस्थः सोऽग्निष्टोमफलं लभेत् ॥७२॥
अष्टम्यांवा चतुर्दश्यां निराहारो वसेत्तु यः ।
नर्मदेश्वरमासाद्य प्राप्नुयाज्जन्मनः फलम् ॥७३॥
अग्निप्रवेशं यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।
तस्य व्याधिभयं न स्यात्सप्तजन्मसु भारत ॥७४॥
अनाशकं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।
अनिवर्तिका गतिस्तस्य रुद्रलोके भविष्यति ॥७५॥
एष ते विधिरुद्दिष्टस्तस्योत्पत्तिर्नरोत्तम ।
पुराणे विहिता तात संज्ञा तस्य तु विस्तरात् ॥७६॥
एतं कीर्तयते यस्तु नर्मदेश्वरसम्भवम् ।
भक्त्या शृणोति च नरः सोऽपि स्नानफलं लभेत् ॥७७॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये नर्मदेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टत्रिंशोऽध्यायः ॥
N/A
References : N/A
Last Updated : December 09, 2024
TOP