रेवा खण्डम् - अध्याय ९९
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल नर्मदादक्षिणे तटे ।
स्थापितं वासुकीशं तु समस्ताघौघनाशनम् ॥१॥
युधिष्ठिर उवाच -
कस्माच्च कारणात्तात रेवाया दक्षिणे तटे ।
वासुकीशस्थापितो वै विस्तराद्वद मे गुरो ॥२॥
श्रीमार्कण्डेय उवाच -
एतत्सर्वं समास्थाय नृत्यं शम्भुश्चकार वै ॥३॥
श्रमादजायत स्वेदो गङ्गातोयविमिश्रितम् ।
पतन्तमुरगोऽश्नाति हरमौलिविनिर्गतम् ॥४॥
मन्दाकिनी ततः क्रुद्धा व्यालस्योपरि भारत ।
प्राप्नुह्यजगरत्त्वं हि भुजङ्ग क्षुद्रजन्तुक ॥५॥
वासुकिरुवाच -
अनुग्राह्योऽस्मि ते पापो दुर्नयोऽहं हरादृते ।
त्रैलोक्यपावनी पुण्या सरित्त्वं शुभलक्षणा ॥६॥
संसारच्छेदनकरी ह्यार्तानामार्तिनाशनी ।
स्वर्गद्वारे स्थिता त्वं हि दयां कुरु मयीश्वरि ॥७॥
गङ्गोवाच -
कुरुष्व विपुलं विन्ध्यं तपस्त्वं शङ्करं प्रति ।
ततः प्राप्स्यसि स्वं स्थानं पन्नगत्वं ममाज्ञया ॥८॥
श्रीमार्कण्डेय उवाच -
ततोऽसौ त्वरितो विन्ध्यं नागो गत्वा नगं शुभम् ।
तपस्तप्तुं समारेभे शङ्कराराधनोद्यतः ॥९॥
नित्यं दध्यौ महादेवं त्र्यक्षं डमरुकोद्यतम् ।
ततो वर्षशते पूर्ण उपरुद्धो जगद्गुरुः ।
आगतस्तत्समीपं तु श्लक्ष्णां वाणीमुदाहरत् ॥१०॥
वरं वरय मे वत्स पन्नग त्वं कृतादर ॥११॥
वासुकिरुवाच -
यदि तुष्टोऽसि मे देव वरं दास्यसि शङ्कर ।
प्रसादात्तव देवेश भूयान्निष्पापता मम ।
तीर्थं किंचित्समाख्याहि सर्वपापप्रणाशनम् ॥१२॥
ईश्वर उवाच -
पन्नग त्वं महाबाहो रेवां गच्छ शुभंकरीम् ।
याम्ये तस्यास्तटे पुण्ये स्नानं कुरु यथाविधि ॥१३॥
इत्युक्त्वान्तर्दधे देवो वासुकिस्त्वरयान्वितः ।
रूपेणाजगरेणैव प्रविष्टो नर्मदाजलम् ॥१४॥
मार्गेण तस्य संजातं जाह्नव्याः स्रोत उत्तमम् ।
निर्धूतकल्मषः सर्पः संजातो नर्मदाजले ॥१५॥
स्थापितः शङ्करस्तत्र नर्मदायां युधिष्ठिर ।
ततो नागेश्वरं लिङ्गं प्रसिद्धं पापनाशनम् ॥१६॥
अष्टम्यां वा चतुर्दश्यां स्नापयेन्मधुना शिवम् ।
विमुक्तकल्मषः सद्यो जायते नात्र संशयः ॥१७॥
अपुत्रा ये नराः पार्थ स्नानं कुर्वन्ति सङ्गमे ।
ते लभन्ते सुताञ्छ्रेष्ठान् कार्त्तवीर्योपमाञ्छुभान् ॥१८॥
श्राद्धं तत्रैव यः कुर्यादुपवासपरायणः ।
कुर्वन्प्रमोचयेत्प्रेतान्नरकान्नृपनन्दन ॥१९॥
सर्पाणां च भयं वंशे ज्ञातिवर्गे न जायते ।
निर्दोषं नन्दते तस्य कुलं नागप्रसादतः ॥२०॥
एतत्ते सर्वमाख्यातं तव स्नेहान्नृपोत्तम ॥२१॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नागेश्वरतीर्थमाहात्म्यवर्णनं नामैकोनशततमोऽध्यायः ॥
N/A
References : N/A
Last Updated : December 12, 2024
TOP