रेवा खण्डम् - अध्याय ४३
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र विमलेश्वरमुत्तमम् ।
तत्र देवशिला रम्या स्वयं देवैर्विनिर्मिता ॥१॥
तत्र स्नात्वा तु यो भक्त्या ब्राह्मणान्पूजयेन्नृप ।
स्वल्पेनापि हि दानेन तस्य चान्तो न विद्यते ॥२॥
युधिष्ठिर उवाच -
कानि दानानि विप्रेन्द्र शस्तानि धरणीतले ।
यानि दत्त्वा नरो भक्त्या मुच्यते सर्वपातकैः ॥३॥
श्रीमार्कण्डेय उवाच -
सुवर्णं रजतं ताम्रं मणिमौक्तिकमेव च ।
भूमिदानं च गोदानं मोचयत्पशुभान्नरम् ॥४॥
तत्र तीर्थे तु यः कश्चित्कुरुते प्राणसंक्षयम् ।
रुद्रलोके वसेत्तावद्यावदा भूतसम्प्लवम् ॥५॥
ततः पुष्करिणीं गच्छेत्सर्वपापक्षयंकरीम् ।
तत्र स्नात्वार्चयेद्देवं तेजोराशिं दिवाकरम् ॥६॥
ऋचमेकां जपेत्साम्नः सामवेदफलं लभेत् ।
यजुर्वेदस्य जपनादृग्वेदस्य तथैव च ॥७॥
अक्षरं वा जपेन्मन्त्रं ध्यायमानो दिवाकरम् ।
आदित्यहृदयं जप्त्वा मुच्यते सर्वकिल्बिषैः ॥८॥
तत्र तीर्थे तु यः स्नात्वा विधिना जपेद्द्विजान् ।
तस्य कोटिगुणं पुण्यं जायते नात्र संशयः ॥९॥
अनाशकेनाग्निगत्या जले वा देहपातनात् ।
तस्मिंस्तीर्थे मृतो यस्तु स याति परमां गतिम् ॥१०॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा नृपसत्तम ।
विहितं कर्म कुर्वाणः स गच्छेत्परमां गतिम् ॥११॥
युधिष्ठिर उवाच -
व्याधिं सत्त्वक्षयं मोहं ज्ञात्वा वर्णा द्विजोत्तम ।
पापेभ्यो विप्रमुच्यन्ते केन तत्साधनं वद ॥१२॥
श्रीमार्कण्डेय उवाच -
तिलोदकी तिलस्नायी कामक्रोधविवर्जितः ।
ब्राह्मणोऽनशनैः प्राणांस्त्यजल्लभति सद्गतिम् ॥१३॥
सङ्ग्रामे सद्गतिं तात क्षत्रियो निधने लभेत् ।
तदभावान्महाप्राज्ञ सेवमानो लभेदिति ॥१४॥
व्याधिग्रहगृहीतो वा वृद्धो वा विकलेन्द्रियः ।
आत्मानं दाहयित्वाग्नौ विधिना सद्गतिं लभेत् ॥१५॥
वैश्योऽपि हि त्यजन्प्राणानेवं वै शुभभाग्भवेत् ।
जले वा शुद्धभावेन त्यक्त्वा प्राणाञ्छिवो भवेत् ॥१६॥
शूद्रोऽपि द्विजशुश्रूषुस्तोषयित्वा महेश्वरम् ।
विमुच्य नान्यथा पापः पतते नरके ध्रुवम् ॥१७॥
अथवा प्रणवाशक्तो द्विजेभ्यो गुरवे तथा ।
पञ्चाग्नौ शोषयेद्देहमापृच्छ्य द्विजसत्तमान् ॥१८॥
शान्तदान्तजितक्रोधाञ्छास्त्रयुक्तान् विचक्षणान् ।
तेषां चैवोपदेशेन करीषाग्निं प्रसाधयेत् ॥१९॥
एवं वर्णा यथात्वेन मूढाहङ्कारमोहिताः ।
पतन्ति नरके घोरे यथान्धो गिरिगह्वरे ॥२०॥
ये शास्त्रविधिमुत्सृज्य वर्तन्ते कामचारतः ।
कृमियोनिं प्रपद्यन्ते तेषां पिण्डो न च क्रिया ॥२१॥
श्रुतिस्मृत्युदितं धर्मं त्यक्त्वा यथेच्छाचारसेविनः ।
अष्टाविंशतिर्वै कोट्यो नरकाणां युधिष्ठिर ॥२२॥
प्रत्येकं वा पतन्त्येते मग्ना नरकसागरे ।
दुर्लभं मानुषं जन्म बहुधर्मार्जितं नृप ॥२३॥
तल्लब्ध्वा मदमात्सर्यं यो वै त्यजति मानवः ।
संनियम्य सदात्मानं ज्ञानचक्षुर्नरो हि सः ॥२४॥
अज्ञानतिमिरान्धस्य ज्ञानांजनशलाकया ॥२५॥
यस्य नोन्मीलितं चक्षुर्ज्ञेयो जात्यन्ध एव सः ।
एतत्ते कथितं सर्वं यत्पृष्टं नृपसत्तम ॥२६॥
तथानिष्टतराणां हि रुद्रस्य वचनं यथा ।
नर्मदा सरितां श्रेष्ठा रुद्रदेहाद्विनिःसृता ॥२७॥
तारयेत्सर्वभूतानि स्थावराणि चराणि च ।
सर्वदेवाधिदेवेन ईश्वरेण महात्मना ॥२८॥
लोकानां च हितार्थाय महापुण्यावतारिता ।
मानसं वाचिकं पापं स्नानान्नश्यति कर्मजम् ॥२९॥
रुद्रदेहाद्विनिष्क्रान्ता तेन पुण्यतमा हि सा ।
प्रातरुत्थाय यो नित्यं भूमिमाक्रम्य भक्तितः ॥३०॥
एतन्मन्त्रं जपेत्तात स्नानस्य लभते फलम् ।
नमः पुण्यजले देवि नमः सागरगामिनि ॥३१॥
नमोऽस्तु पापनिर्मोचे नमो देवि वरानने ॥३२॥
नमोऽस्तु ते ऋषिवरसङ्घसेविते नमोऽस्तु ते त्रिनयनदेहनिःसृते ।
नमोऽस्तु ते सुकृतवतां सदा वरे नमोऽस्तु ते सततपवित्रपावनि ॥३३॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे विमलेश्वरतीर्थमाहात्म्यवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥
N/A
References : N/A
Last Updated : December 09, 2024
TOP