रेवा खण्डम् - अध्याय २०५
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
श्रीमार्कण्डेय उवाच -
गच्छेत्ततः क्षोणिनाथ तीर्थं परमशोभनम् ।
कुर्कुरीनाम विख्यातं सर्वपापप्रणाशनम् ॥१॥
यं यं प्रार्थयते कामं पशुपुत्रधनादिकम् ।
तं तं ददाति देवेशी कुर्कुरी तीर्थदेवता ॥२॥
क्षेत्रपालो वसेत्तत्र ढौण्ढेशो नाम नामतः ।
तस्य चाराधनं कृत्वा नारी वा पुरुषोऽपि वा ॥३॥
वन्दनादपि राजेन्द्र दौर्भाग्यं नाशमाप्नुयात् ।
अपुत्रो लभते पुत्रमधनो धनमुत्तमम् ॥४॥
नारी नरस्तथाप्येवं लभते काममुत्तमम् ।
स्पर्शनाद्दर्शनात्तस्य तीर्थस्य विधिपूर्वकम् ॥५॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कुर्कुरीतीर्थमाहात्म्यवर्णनं नाम पञ्चाधिकद्विशततमोऽध्यायः॥
N/A
References : N/A
Last Updated : December 17, 2024
TOP