संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय २१०

रेवा खण्डम् - अध्याय २१०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
तस्यैवानन्तरं तात पुङ्खिलं तीर्थमुत्तमम् ।
तत्र तीर्थे पुरा पुङ्खः पार्थ सिद्धिमुपागतः ॥१॥
जामदग्न्यो महातेजाः क्षत्रियान्तकरः प्रभुः ।
तपः कृत्वा सुविपुलं नर्मदोत्तरतीरभाक् ॥२॥
ततः प्रभृति विख्यातं पुङ्खतीर्थं नरेश्वर ।
तत्र तीर्थे तु यः स्नात्वा ह्याराध्य परमेश्वरम् ॥३॥
इहलोके बलैर्युक्तः परे मोक्षमवाप्नुयात् ।
देवान्पित्ःन् समभ्यर्च्य पित्ःणामनृणी भवेत् ॥४॥
तत्र तीर्थे नरो यस्तु प्राणत्यागं करोति वै ।
अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम् ॥५॥
तत्र तीर्थे नरः स्नात्वा हयमेधफलं लभेत् ॥६॥
तत्र तीर्थे नरो यस्तु ब्राह्मणान् भोजयेन्नृप ।
एकस्मिन् भोजिते विप्रे कोटिर्भवति भोजिता ॥७॥
तत्र तीर्थे तु यः कश्चित्पूजयेद्वृषभध्वजम् ।
वाजपेयस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् ॥८॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पुङ्खिलतीर्थमाहात्म्यवर्णनं नाम दशोत्तरद्विशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 17, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP