रेवा खण्डम् - अध्याय २१७
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
श्रीमार्कण्डेय उवाच -
एरण्डीसङ्गमं गच्छेत्सुरासुरनमस्कृतम् ।
तत्तु तीर्थं महापुण्यं महापातकनाशनम् ॥१॥
उपवासपरो भूत्वा नियतेन्द्रियमानसः ।
तत्र स्नात्वा विधानेन मुच्यते ब्रह्महत्यया ॥२॥
तत्र तीर्थे तु यो भक्त्या प्राणत्यागपरो भवेत् ।
अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम् ॥३॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे एरण्डीतीर्थमाहात्म्यवर्णनं नाम सप्तदशोत्तरद्विशततमोऽध्यायः ॥
N/A
References : N/A
Last Updated : December 17, 2024
TOP