संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय १८७

रेवा खण्डम् - अध्याय १८७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
जालेश्वरं ततो गच्छेल्लिङ्गमाद्यं स्वयम्भुवः ।
कालाग्निरुद्रं विख्यातं भृगुकच्छे व्यवस्थितम् ॥१॥
सर्वपापप्रशमनं सर्वोपद्रवनाशनम् ।
क्षेत्रपापविनाशाय कृपया च समुत्थितम् ॥२॥
पुरा कल्पेऽसुरगणैराक्रान्ते भुवनत्रये ।
वेदोक्तकर्मनाशे च धर्मे च विलयं गते ॥३॥
देवर्षिमुनिसिद्धेषु विश्वासपरमेषु च ।
कालाग्निरुद्रादुत्पन्नो धूमः कालोद्भवोद्भवः ॥४॥
धूमात्समुत्थितं लिङ्गं भित्त्वा पातालसप्तकम् ।
अवटं दक्षिणे कृत्वा लिङ्गं तत्रैव तिष्ठति ॥५॥
तत्र तीर्थे नृपश्रेष्ठ कुण्डं ज्वालासमुद्भवम् ।
यत्र सा पतिता ज्वाला शिवस्य दहतः पुरम् ॥६॥
तत्रावटं समुद्भूतं धूमावर्तस्ततोऽभवत् ।
तस्मिन्कुण्डे तु यः स्नानं कृत्वा वै नर्मदाजले ॥७॥
कुर्याच्छ्राद्धं पितृभ्यो वै पूजयेच्च त्रिलोचनम् ।
कालाग्निरुद्रनामानि स गच्छेत्परमां गतिम् ॥८॥
यत्किंचित्कामिकं कर्म ह्याभिचारिकमेव वा ।
रिपुसंक्षयकृद्वापि सांतानिकमथापि वा ।
अत्र तीर्थे कृतं सर्वमचिरात्सिध्यते नृप ॥९॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कालाग्निरुद्रतीर्थमाहात्म्यवर्णनं नाम सप्ताशीत्युत्तरशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 17, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP