संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय ५१

रेवा खण्डम् - अध्याय ५१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


उत्तानपाद उवाच -
काले तत्क्रियते कस्मिञ्छ्राद्धं दानं तथेश्वर ।
यात्रा तत्र प्रकर्तव्या तिथौ यस्यां वदाशु तत् ॥१॥

ईश्वर उवाच -
पितृतीर्थं यथा पुण्यं सर्वकामिकमुत्तमम् ।
इदं तीर्थं तथा पुण्यं स्नानदानादितर्पणैः ॥२॥
विशेषेण तु कुर्वीत श्राद्धं सर्वयुगादिषु ।
मन्वन्तरादयो वत्स श्रूयन्तां च चतुर्दश ॥३॥
अश्वयुक्छुक्लनवमी द्वादशी कार्त्तिकस्य च ।
तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥४॥
आषाढस्यैव दशमी माघस्यैव तु सप्तमी ।
श्रावणस्याष्टमी कृष्णा तथाषाढस्य पूर्णिमा ॥५॥
फाल्गुनस्य त्वमावास्या पौषस्यैकादशी सिता ।
कार्त्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी तथा ॥६॥
मन्वन्तरादयश्चैते अनन्तफलदाः स्मृताः ।
अयने चोत्तरे राजन्दक्षिणे श्राद्धमाचरेत् ॥७॥
कार्त्तिकी च तथा माघी वैशाखस्य तृतीयिका ।
पौर्णमासी च चैत्रस्य ज्येष्ठस्य च विशेषतः ॥८॥
अष्टकासु च संक्रान्तौ व्यतीपाते तथैव च ।
श्राद्धकाला इमे सर्वे दत्तमेष्वक्षयं स्मृतम् ॥९॥
मधुमासे सिते पक्ष एकादश्यामुपोषितः ।
निशि जागरणं कुर्याद्विष्णुपादसमीपतः ॥१०॥
धूपदीपादिनैवेद्यैः स्रङ्मालागुरुचन्दनैः ।
अर्चां कुर्वन्ति ये विष्णोः पठेयुः प्राक्तनीं कथाम् ॥११॥
ऋग्यजुःसाममन्त्रोक्तं सूक्तं जपति यो द्विजः ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥१२॥
प्रातः श्राद्धं प्रकुर्वीत द्विजान् सम्पूज्य यत्नतः ।
दानं दद्याद्यथाशक्ति गोहिरण्याम्बरादिकम् ॥१३॥
पितरस्तस्य तृप्यन्ति यावदाभूतसम्प्लवम् ।
श्राद्धदस्तु व्रजेत्तत्र यत्र देवो जनार्दनः ॥१४॥
त्रयोदश्यां ततो गच्छेद्गुहावासिनि लिङ्गके ।
दृष्ट्वा मार्कण्डमीशानं मुच्यते सर्वपातकैः ॥१५॥

उत्तानपाद उवाच -
गुहामध्ये महादेव लिङ्गं परमशोभितम् ।
येन प्रतिष्ठितं देव तन्ममाख्यातुमर्हसि ॥१६॥

ईश्वर उवाच -
त्रिषु लोकेषु विख्यातो मार्कण्डेयो मुनीश्वरः ।
दिव्यं वर्षसहस्रं स तपस्तेपे सुदारुणम् ॥१७॥
गुहामध्यं प्रविष्टोऽसौ योगाभ्यासमुपाश्रितः ।
लिङ्गं तु स्थापितं तेन मार्कण्डेश्वरसंज्ञितम् ॥१८॥
तत्र स्नात्वा च यो भक्त्या सोपवासो जितेन्द्रियः ।
तत्र जागरणं कुर्वन् दद्याद्दीपं प्रयत्नतः ॥१९॥
देवस्य स्नपनं कुर्यान्मृतैः पञ्चभिस्तथा ।
यथा शक्त्या समालभ्य पूजां कुर्याद्यथाविधि ॥२०॥
स्वशाखोत्पन्नमन्त्रैश्च जपं कुर्युर्द्विजातयः ।
सावित्र्यष्टसहस्रं तु शताष्टकमथापि वा ॥२१॥
एतत्कृत्वा नृपश्रेष्ठ जन्मनः फलमाप्नुयात् ।
चतुर्दश्यां तु वै स्नात्वा पूजां कृत्वा यथाविधि ॥२२॥
पात्रं परीक्ष्य दातव्यमात्मनः श्रेय इच्छता ।
पितरस्तस्य तृप्यन्ति द्वादशाब्दान्यसंशयम् ॥२३॥
दाता स गच्छते तत्र यत्र भोगाः सनातनाः ।
गुहामध्ये प्रविष्टस्तु लोटयेच्चैव शक्तितः ॥२४॥
नीले गिरौ हि यत्पुण्यं तत्समस्तं लभन्ति ते ।
शूलभेदे तु यः कुर्याच्छ्राद्धं पर्वणि पर्वणि ॥२५॥
विशेषाच्चैत्रमासान्ते तस्य पुण्यफलं शृणु ।
केदारे चैव यत्पुण्यं गङ्गासागरसङ्गमे ॥२६॥
सितासिते तु यत्पुण्यमन्यतीर्थे विशेषतः ।
अर्बुदे विद्यते पुण्यं पुण्यं चामरपर्वते ॥२७॥
गयादिसर्वतीर्थानां फलमाप्नोति मानवः ।
विधिमन्त्रसमायुक्तस्तर्पयेत्पितृदेवताः ॥२८॥
कुलानां तारयेद्विंशं दश पूर्वान् दशापरान् ।
दक्षिणस्यां ततो मूर्तौ शुचिर्भूत्वा समाहितः ॥२९॥
न्यासं कृत्वा तु पूर्वोक्तं प्रदद्यादष्टपुष्पिकाम् ।
शास्त्रोक्तैरष्टभिः पुष्पैर्मानसैः शृणु तद्यथा ॥३०॥
वारिजं सौम्यमाग्नेयं वायव्यं पार्थिवं पुनः ।
वानस्पत्यं भवेत्षष्ठं प्राजापत्यं तु सप्तमम् ॥३१॥
अष्टमं शिवपुष्पं स्यादेषां शृणु विनिर्णयम् ।
वारिजं सलिलं ज्ञेयं सौम्यं मधुघृतं पयः ॥३२॥
आग्नेयं धूपदीपाद्यं वायव्यं चन्दनादिकम् ।
पार्थिवं कन्दमूलाद्यं वानस्पत्यं फलात्मकम् ॥३३॥
प्राजापत्यं तु पाठाद्यं शिवपुष्पं तु वासना ।
अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः ॥३४॥
तृतीयं तु दया पुष्पं क्षमा पुष्पं चतुर्थकम् ।
ध्यानपुष्पं तपः पुष्पं ज्ञानपुष्पं तु सप्तमम् ॥३५॥
सत्यं चैवाष्टमं पुष्पमेभिस्तुष्यन्ति देवताः ।
भक्त्या तपस्विनः पूज्या ज्ञानिनश्च नराधिप ॥३६॥
छत्रमावरणं दद्यादुपानद्युगलं तथा ।
तेन पूजितमात्रेण पूजिताः पुरुषास्त्रयः ॥३७॥
स्वर्गलोके वसेत्तावद्यावदाभूतसम्प्लवम् ।
शूलपाणेस्तु भक्त्या वै जाप्यं कुर्वन्ति ये नराः ॥३८॥
पञ्चामृतैः पञ्चगव्यैर्यक्षकर्दमकुङ्कुमैः ।
समालभेत देवेशं श्रीखण्डागुरुचन्दनैः ॥३९॥
नानाविधैश्च ये पुष्पैरर्चां कुर्वन्ति शूलिनः ।
निशि जागरणं कुर्युर्दीपदानं प्रयत्नतः ॥४०॥
धूपनैवेद्यकं दद्यात्पठेत्पौराणिकीं कथाम् ।
तत्र स्थाने स्थिता भक्त्या जपं कुर्वन्ति ये नराः ॥४१॥
श्रीसूक्तं पौरुषं सूक्तं पावमानं वृषाकपिम् ।
वेदोक्तैश्चैव मन्त्रैश्च रौद्रीं वा बहुरूपिणीम् ॥४२॥
ब्राह्मणान् पूजयेद्भक्त्या पूजयित्वा प्रणम्य च ।
नानाविधैर्महाभोगैः शिवलोके महीयते ॥४३॥
अग्निमित्यादि जाप्यानि ऋग्वेदी जपते तु यः ।
रुद्रान् पुरुषसूक्तं च श्लोकाध्यायं च शुक्रियम् ॥४४॥
इषेत्वा दिकमन्त्रौघं ज्योतिर्ब्राह्मणमेव च ।
गायत्र्यं वै मधु चैव मण्डलब्राह्मणानि च ॥४५॥
एताञ्जप्यांस्तु यो भक्त्या यजुर्वेदी जपेद्यदि ।
देवव्रतं वामदेव्यं पुरुषर्षभमेव च ॥४६॥
बृहद्रथान्तरं चैव यो जपेद्भक्तितत्परः ।
स प्रयाति नरः स्थानं यत्र देवो महेश्वरः ॥४७॥
पादशौचं तथाभ्यङ्गं कुरुते योऽत्र भक्तितः ।
गोदाने चैव यत्पुण्यं लभते नात्र संशयः ॥४८॥
ब्राह्मणान् भोजयेत्तत्र मधुना पायसेन च ।
एकस्मिन् भोजिते विप्रे कोटिर्भवति भोजिता ॥४९॥
सुवर्णं रजतं वस्त्रं दद्याद्भक्त्या द्विजोत्तमे ।
तर्पितास्तेन देवाः स्युर्मनुष्याः पितरस्तथा ॥५०॥
चन्द्रसूर्यग्रहे भक्त्या स्नानं कुर्वन्ति ये नराः ।
देवार्चनं ये च कुर्युर्जपं होमं विशेषतः ।
दद्याद्दानं यथाशक्ति ब्राह्मणे वेदपारगे ॥५१॥
अश्वं रथं गजं यानं तुलापुरुषमेव च ।
शकटं यः प्रदद्याद्वा सप्तधान्यप्रपूरितम् ॥५२॥
सयोक्त्रं लाङ्गलं दद्याद्युवानौ तु धुरंधरौ ।
गोभूतिलहिरण्यादि पात्रे दातव्यमर्चितम् ॥५३॥
अपात्रे विदुषा किंचिन्न देयं भूतिमिच्छता ।
यतोऽसौ सर्वभूतानि दधाति धरणी किल ॥५४॥
ततो विप्राय सा देया सर्वसस्यौघमालिनी ।
अथान्यच्छृणु राजेन्द्र गोदानस्य तु यत्फलम् ॥५५॥
यावद्वत्सस्य पादौ द्वौ मुखं योन्यां प्रदृश्यते ।
तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति ॥५६॥
येन केनाप्युपायेन ब्राह्मणे तां समर्पयेत् ।
पृथ्वी दत्ता भवेत्तेन सशैलवनकानना ॥५७॥
तारयेन्नियतं दत्ता कुलानामेकविंशतिम् ।
रौप्यखुरीं कांस्यदोहां सवस्त्रां च पयस्विनीम् ॥५८॥
ये प्रयच्छन्ति कृतिनो ग्रस्ते सूर्ये निशाकरे ।
तेषां संख्यां न जानामि पुण्यस्याब्दशतैरपि ॥५९॥
सर्वस्यापि हि दानस्य संख्यास्तीह नराधिप ।
चन्द्रसूर्योपरागे च दानसंख्या न विद्यते ॥६०॥
यत्र गौर्दृश्यते राजन् सर्वतीर्थानि तत्र हि ।
तत्र पर्व विजानीयान्नात्र कार्या विचारणा ॥६१॥
पुनः स्मृत्वा तु तत्तीर्थं यः कुर्याद्गमनं नरः ।
अथवा म्रियते योऽत्र रुद्रस्यानुचरो भवेत् ॥६२॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदे दानधर्मप्रशंसावर्णनं नामैकपञ्चाशत्तमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 09, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP