रेवा खण्डम् - अध्याय ३५
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
युधिष्ठिर उवाच -
जलमध्ये महादेवः केन तिष्ठति हेतुना ।
उत्तरं दक्षिणं कूलं वर्जयित्वा द्विजोत्तम ॥१॥
श्रीमार्कण्डेय उवाच -
एतदाख्यानमतुलं पुण्यं श्रुतिमुखावहम् ।
पुराणे यच्छ्रुतं तात तत्ते वक्ष्याम्यशेषतः ॥२॥
त्रेतायुगे महाभाग रावणो देवकण्टकः ।
त्रैलोक्यविजयी रौद्रः सुरासुरभयंकरः ॥३॥
देवदानवगन्धर्वैरृषिभिश्च तपोधनैः ।
अवध्योऽथ विमानेन यावत्पर्यटते महीम् ॥४॥
तावद्धिन्ध्यगिरेर्मध्ये दानवो बलदर्पितः ।
मयो नामेति विख्यातो गुहावासी तपश्चरन् ॥५॥
तस्य पार्श्वगतो रक्षो विनयादवनिं गतः ।
पूजितो दानसन्मानैरिदं वचनमब्रवीत् ॥६॥
कस्येयं पद्मपत्राक्षी पूर्णचन्द्रनिभानना ।
किंनामधेया तपति तप उग्रं कथं विभो ॥७॥
मय उवाच -
दानवानां पतिः श्रेष्ठो मयोऽहं नाम नामतः ।
भार्या तेजोवती नाम तस्यास्तु तनया शुभा ॥८॥
मन्दोदरीति विख्याता तपते भर्तृकारणात् ।
आराधयन्ती भर्तारमुमाया दयितं शुभम् ॥९॥
तच्छ्रुत्वा वचनं तस्य रावणो मदमोहितः ।
प्रसृतः प्रणतो भूत्वा मयं वचनमब्रवीत् ॥१०॥
पौलस्त्यान्वयसंजातो देवदानवदर्पहा ।
प्रार्थयामि महाभाग सुतां त्वं दातुमर्हसि ॥११॥
ज्ञात्वा पैतामहं वृत्तं मयेनापि महात्मना ।
रावणाय सुता दत्ता पूजयित्वा विधानतः ॥१२॥
गृहीत्वा तां तदा रक्षोऽभ्यर्च्यमानो निशाचरैः ।
देवोद्याने विमानैश्च क्रीडते स तया सह ॥१३॥
केनचित्त्वथ कालेन रावणो लोकरावणः ।
पुत्रं पुत्रवतां श्रेष्ठो जनयामास भारत ॥१४॥
तेनैव जातमात्रेण रावो मुक्तो महात्मना ।
संवर्तकस्य मेघस्य तेन लोका जडीकृताः ॥१५॥
श्रुत्वा तन्नर्दितं घोरं ब्रह्मा लोकपितामहः ।
नाम चक्रे तदा तस्य मेघनादो भविष्यति ॥१६॥
एवंनामा कृतः सोऽपि परमं व्रतमास्थितः ।
तोषयामास देवेशमुमया सह शङ्करम् ॥१७॥
व्रतैर्नियमदानैश्च होमजाप्यविधानतः ।
कृच्छ्रचान्द्रायणैर्नित्यं कृशं कुर्वन्कलेवरम् ॥१८॥
एवमन्यद्दिने तात कैलासं धरणीधरम् ।
गत्वा लिङ्गद्वयं गृह्य प्रस्थितो दक्षिणामुखः ॥१९॥
नर्मदातटमाश्रित्य स्नातुकामो महाबलः ।
निक्षिप्य पूजयन् देवं कृतजाप्यो नरेश्वर ॥२०॥
तत्रायतनावासेन स्नातो हुतहुताशनः ।
कृतकृत्यमिवात्मानं मानयित्वा निशाचरः ॥२१॥
गन्तुकामः परं मार्गं लङ्कायां नृपसत्तम ।
एकमुद्धरतो लिङ्गं प्रणतः सव्यपाणिना ॥२२॥
द्वितीयं तु द्वितीयेन भक्त्या पौलस्त्यनन्दनः ।
तावदेव महालिङ्गं पतितं नर्मदांभसि ॥२३॥
याहि याहीति चेत्युक्त्वा जलमध्ये प्रतिष्ठितः ।
नमित्वा रावणिस्तस्य देवस्य परमेष्ठिनः ॥२४॥
जगामाकाशमाविश्य पूज्यमानो निशाचरैः ।
तदा प्रभृति तत्तीर्थं मेघनादेति विश्रुतम् ॥२५॥
पूर्वं तु गर्जनं नाम सर्वपापक्षयंकरम् ।
तस्मिंस्तीर्थे तु राजेन्द्र यस्तु स्नानं समाचरेत् ॥२६॥
अहोरात्रोषितो भूत्वा अश्वमेधफलं लभेत् ।
पिण्डदानं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप ॥२७॥
यत्फलं सत्त्रयज्ञेन तद्भवेन्नात्र संशयः ।
तेन द्वादशवर्षाणि पितरः संप्रतर्पिताः ॥२८॥
यस्तु भोजयते विप्रं षड्रसात्रेन भारत ।
अक्षयपुण्यमाप्नोति तत्र तीर्थे नरोत्तम ॥२९॥
प्राणत्यागं तु यः कुर्याद्भावितो भावितात्मना ।
स वसेच्छाङ्करे लोके यावदा भूतसम्प्लवम् ॥३०॥
एषा ते नरशार्दूल गर्जनोत्पत्तिरुत्तमा ।
कथिता स्नेहबन्धेन सर्वपापक्षयकरी ॥३१॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मेघनादतीर्थमाहात्म्यवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥
N/A
References : N/A
Last Updated : December 09, 2024
TOP