संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय १४१

रेवा खण्डम् - अध्याय १४१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल तापेश्वरमनुत्तमम् ।
यत्र सा हरिणी सिद्धा व्याधभीता नरेश्वर ॥१॥
जले प्रक्षिप्य गात्राणि ह्यन्तरिक्षं गता तु सा ।
व्याधो विस्मितचित्तस्तु तां मृगीमवलोक्य च ॥२॥
विमुच्य सशरं चापं प्रारेभे तप उत्तमम् ।
दिव्यं वर्षसहस्रं तु व्याधेनाचरितं तपः ॥३॥
अतीते तु ततः काले परितुष्टो महेश्वरः ।
वरं ब्रूहि महाव्याध यत्ते मनसि रोचते ॥४॥

व्याध उवाच -
यदि तुष्टोऽसि देवेश यदि देयो वरो मम ।
तव पार्श्वे महादेव वासो मे प्रतिदीयताम् ॥५॥

ईश्वर उवाच -
एवं भवतु ते व्याध यस्त्वया काङ्क्षितो वरः ।
दैवदेवो महादेव इत्युक्त्वान्तरधीयत ।
गते चादर्शनं देवे स्थापयित्वा महेश्वरम् ॥६॥
पूजयित्वा विधानेन गतो व्याधस्ततो दिवम् ।
तदाप्रभृति तत्तीर्थं त्रिषु लोकेषु विश्रुतम् ॥७॥
व्याधानुतापसंजातं तापेश्वरमिति श्रुतम् ।
तत्र तीर्थे तु यः स्नात्वा सम्पूजयति शङ्करम् ॥८॥
शिवलोकमवाप्नोति मामुवाच महेश्वरः ।
ये स्नाता नर्मदातोये तीर्थे तापेश्वरे नराः ॥९॥
तापत्रयविमुक्तास्ते नात्र कार्या विचारणा ।
अष्टम्यां च चतुर्दश्यां तृतीयायां विशेषतः ॥१०॥
स्नानं समाचरेन्नित्यं सर्वपातकशान्तये ॥११॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे तापेश्वरतीर्थमाहात्म्यवर्णनं नामैकचत्वारिंशदधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 15, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP