संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय १८० रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय १८० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १८० Translation - भाषांतर श्रीमार्कण्डेय उवाच -ततो गच्छेन्महीपाल दशाश्वमेधिकं परम् ।तीर्थं सर्वगुणोपेतं महापातकनाशनम् ॥१॥यत्र गत्वा महाराज स्नात्वा सम्पूज्य चेश्वरम् ।दशानामश्वमेधानां फलं प्राप्नोति मानवः ॥२॥युधिष्ठिर उवाच -अश्वमेधो महायज्ञो बहुसम्भारदक्षिणः ।अशक्यः प्राकृतैः कर्तुं कथं तेषां फलं लभेत् ॥३॥अत्याश्चर्यमिदं तत्त्वं त्वयोक्तं वदता सता ।यथा मे जायते श्रद्धा दीर्घायुस्त्वं तथा वद ॥४॥मार्कण्डेय उवाच -इदमाश्चर्यभूतं हि गौर्या पृष्टस्त्रियम्बकः ।तत्तेऽहं सम्प्रवक्ष्यामि पृच्छते निपुणाय वै ॥५॥पुरा वृषस्थो देवेश ह्युमया सह शङ्करः ।कदाचित्पर्यटन्पृथिवीं नर्मदातटमाश्रितः ॥६॥दशाश्वमेधिकं तीर्थं दृष्ट्वा देवो महेश्वरः ।तीर्थं प्रत्यञ्जलिं बद्ध्वा नमश्चक्रे त्रिलोचनः ॥७॥कृताञ्जलिपुटं देवं दृष्ट्वा देवीदमब्रवीत् ॥८॥देव्युवाच -किमेतद्देवदेवेश चराचरनमस्कृत ।प्रह्वनम्राञ्जलिं बद्ध्वा भक्त्या परमया युतः ॥९॥एतदाश्चर्यमतुलं सर्वं कथय मे प्रभो ॥१०॥ईश्वर उवाच -प्रत्यक्षं पश्य तीर्थस्य फलं मा विस्मिता भव ।वियत्स्था मे भुविस्थस्य क्षणं देवि स्थिरा भव ॥११॥एवमुक्त्वा तु देवेशो गौरवर्णो द्विजोऽभवत् ।क्षुत्क्षामकण्ठो जटिलः शुष्को धमनिसंततः ॥१२॥उपविश्य भुवः पृष्ठे सुस्वरं मन्त्रमुच्चरन् ।क्रमप्रियो महादेवो माधुर्येण प्रमोदयन् ॥१३॥श्रुत्वा तां मधुरां वाणीं स्वयं देवेन निर्मिताम् ।संभ्रान्ता ब्राह्मणाः सर्वे स्नातुं ये तत्र चागताः ॥१४॥नित्यक्रिया च सर्वेषां विस्मृता श्रुतिविभ्रमात् ।तं दृष्ट्वा पठमानं तु क्षुत्पिपासाभिपीडितम् ॥१५॥द्विजोऽन्यमन्त्रयत्कश्चिद्भक्त्या तं भोजनाय वै ।प्रसादः क्रियतां ब्रह्मन्भोजनाय गृहे मम ॥१६॥अद्य मे सफलं जन्म ह्यद्य मे सफलाः क्रियाः ।सर्वान्कामान्प्रदास्यन्ति प्रीता मेऽद्य पितामहाः ॥१७॥त्वयि भुक्ते द्विजश्रेष्ठ प्रसीद त्वं ध्रुवं मम ।एवमुक्तो महादेवो द्विजरूपधरस्तदा ॥१८॥प्रहस्य प्रत्युवाचेदं ब्राह्मणं श्लक्ष्णया गिरा ।मया वर्षसहस्रं तु निराहारं तपः कृतम् ॥१९॥इदानीं तु गृहे तस्य करिष्ये द्विजसत्तम ।दशभिर्वाजिमेधैश्च येनेष्टं पारणं तथा ॥२०॥इत्युक्तो देवदेवेन ब्राह्मणो विस्मयान्वितः ।उत्तमाङ्गं विधुन्वन्वै जगाम स्वगृहं प्रति ॥२१॥एवं ते बहवो विप्राः प्रत्याख्याते निमन्त्रणे ।पुराणार्थमजानन्तो नास्तिका बहवो गताः ॥२२॥अथ कश्चिद्द्विजो विद्वान्पुराणार्थस्य तत्त्ववित् ।देवं निमन्त्रयामास द्विजरूपधरं शिवम् ॥२३॥तथैव सोऽपि देवेन प्रोक्तः स प्राह तं पुनः ।मनसा चिन्तयित्वा तु पुराणोक्तं द्विजोत्तमः ॥२४॥स्मृतिवेदपुराणेषु यदुक्तं तत्तथा भवेत् ।इति निश्चित्य तं विप्रमुवाच प्रहसन्निव ॥२५॥भोभो विप्र प्रतीक्षस्व यावदागमनं पुनः ।इत्युक्त्वा तु द्विजो गत्वा दशाश्वमेधिकं परम् ॥२६॥स्नानं महालम्भनादि कृतं तेन द्विजन्मना ।जपं श्राद्धं तथा दानं कृत्वा धर्मानुसारतः ॥२७॥संकल्प्य कपिलां तत्र पुराणोक्तविधानतः ।समायात्त्वरितं तत्र यत्रासौ तिष्ठते द्विजः ॥२८॥अथागत्य द्विजं प्राह वाजिमेधः कृतो मया ।उत्तिष्ठ मे गृहं रम्यं भोजनार्थं हि गम्यताम् ॥२९॥इत्युक्तः शङ्करस्तेन ब्राह्मणेनातिविस्मितः ।उवाच ब्राह्मणं देव इदानीं त्वमितो गतः ॥३०॥द्विजवर्य कथं चेष्टा दश यज्ञा महाधनाः ॥३१॥द्विज उवाच -न विचारस्त्वया कार्यः कृता यज्ञा न संशयः ।यदि वेदाः प्रमाणं तं भुवि देवा द्विजास्तथा ॥३२॥दशाश्वमेधिकं तीर्थं तथा सत्यं द्विजोत्तम ।यदि वेदपुराणोक्तं वाक्यं निःसंशयं भवेत् ॥३३॥तदा प्राप्तं मया सर्वं नात्र कार्या विचारणा ।एवमुक्तस्तु देवेश आस्तिक्यं तस्य चेतसः ॥३४॥विमृश्य बहुभिः किंचिदुत्तरं न प्रपद्यत ।जगाम तद्गृहं रम्यं पठन्ब्रह्म सनातनम् ॥३५॥सम्प्राप्तं तं द्विजं भक्त्या पाद्यार्घ्येण तमर्चयत् ।षड्रसं भोजनं तेन दत्तं पश्चाद्यथाविधि ॥३६॥ततो भुक्ते महादेवे सर्वदेवमये शिवे ।पुष्पवृष्टिः पपाताशु गगनात्तस्य मूर्धनि ।तस्यास्तिक्यं तु संलक्ष्य तुष्टः प्रोवाच शङ्करः ॥३७॥ईश्वर उवाच -किं तेऽद्य क्रियतां ब्रूहि वरदोऽहं द्विजोत्तम ।अदेयमपि दास्यामि एकचित्तस्य ते ध्रुवम् ॥३८॥ब्राह्मण उवाच -यदि प्रीतोऽसि मे देव यदि देयो वरो मम ।अस्मिंस्तीर्थे महादेव स्थातव्यं सर्वदैव हि ॥३९॥उपकाराय देवेश एष मे वर उत्तमः ।एवमुक्तस्तु देवेन आरुरोह द्विजोत्तमः ॥४०॥गन्धर्वाप्सरःसम्बाधं विमानं सार्वकामिकम् ।पूज्यमानो गतस्तत्र यत्र लोका निरामयाः ॥४१॥मार्कण्डेय उवाच -एतदाश्चर्यमतुलं दृष्ट्वा देवी सुविस्मिता ।विस्मयोत्फुल्लनयना पुनः पप्रच्छ शङ्करम् ॥४२॥पार्वत्युवाच -कथमेतद्भवेत्सत्यं यत्रेदमसमञ्जसम् ।स्नानं कुर्वन्ति बहवो लोका ह्यत्र महेश्वर ॥४३॥तेषां तु स्वर्गगमनं यथैष स्वर्गतिं गतः ।कथमेतत्समाचक्ष्व विस्मयः परमो मम ॥४४॥एतच्छ्रुत्वा तु देवेशः प्रहसन्प्रत्युवाच ताम् ।वेदवाक्ये पुराणार्थे स्मृत्यर्थे द्विजभाषिते ॥४५॥विस्मयो हि न कर्तव्यो ह्यनुमानं हि तत्तथा ।असंभाव्यं हि लोकानां पुराणे यत्प्रगीयते ॥४६॥यदि पक्षं पुरस्कृत्य लोकाः कुर्वन्ति पार्वति ।तस्मान्न सिद्धिरेतेषां भवत्येको न विस्मयः ॥४७॥नास्तिका भिन्नमर्यादा ये निश्चयबहिष्कृताः ।तेषां सिद्धिर्न विद्येत आस्तिक्याद्भवते ध्रुवम् ॥४८॥श्रुत्वाख्यानमिदं देवी ववन्दे तीर्थमुत्तमम् ।सर्वपापहरं पुण्यं नर्मदायां व्यवस्थितम् ॥४९॥मार्कण्डेय उवाच -दशाश्वमेधं राजेन्द्र सर्वतीर्थोत्तमोत्तमम् ।तीर्थं सर्वगुणोपेतं महापातकनाशनम् ॥५०॥तत्रागता महाभागा स्नातुकामा सरस्वती ।पुण्यानां परमा पुण्या नदीनामुत्तमा नदी ॥५१॥नाममात्रेण यस्यास्तु सर्वपापैः प्रमुच्यते ।स्नातास्तत्र दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥५२॥दशाश्वमेधे सा राजन्नियता ब्रह्मचारिणी ।आराधयित्वा देवेशं परं निर्वाणमागतीः ॥५३॥कालुष्यं ब्रह्मसम्भूता संवत्सरसमुद्भवम् ।प्रक्षालयितुमायाति दशम्यामाश्विनस्य च ॥५४॥उपोष्य रजनीं तां तु सम्पूज्य त्रिपुरान्तकम् ।राजन्निष्कल्मषा यान्ति श्वोभूते शाश्वतं पदम् ॥५५॥युधिष्ठिर उवाच -सरस्वती महापुण्या नदीनामुत्तमा नदी ।श्रीमार्कण्डेय उवाच -राजन्नाश्वयुजे मासि दशम्यां तद्विशिष्यते ।पार्थिवेषु च तीर्थे तु सर्वेष्वेव न संशयः ॥५६॥दशाश्वमेधिके राजन्नित्यं हि दशमी शुभा ।विशेषादाश्विने शुक्ला महापातकनाशिनी ॥५७॥तस्या स्नात्वार्चयेद्देवानुपवासपरायणः ।श्राद्धं कृत्वा विधानेन पश्चात्सम्पूजयेच्छिवम् ॥५८॥तत्रस्थां पूजयेद्देवीं स्नातुकामां सरस्वतीम् ।नमो नमस्ते देवेशि ब्रह्मदेहसमुद्भवे ॥५९॥कुरु पापक्षयं देवि संसारान्मां समुद्धर ।गन्धधूपैश्च सम्पूज्य ह्यर्चयित्वा पुनःपुनः ॥६०॥दश प्रदक्षिणा दत्त्वा सूत्रेण परिवेष्टयेत् ।कपिलां तु ततो विप्रे दद्याद्विगतमत्सरः ॥६१॥सर्वलक्षणसम्पन्नां सर्वोपस्करसंयुताम् ।दत्त्वा विप्राय कपिलां न शोचति कृताकृते ॥६२॥पश्चाज्जागरणं कुर्याद्घृतेनाज्वाल्य दीपकम् ।पुराणपठनेनैव नृत्यगीतविवादनैः ॥६३॥वेदोक्तैश्चैव पूजयेच्छशिशेखरम् ।प्रभाते विमले पश्चात्स्नात्वा वै नर्मदाजले ॥६४॥ब्राह्मणान् भोजयेद्भक्त्या शिवभक्तांश्च योगिनः ।एवं कृते ततो राजन् सम्यक्तीर्थफलं लभेत् ॥६५॥तत्र तीर्थे तु यः स्नात्वा पूजयेच्छङ्करं नरः ।दशाश्वमेधावभृथं लभते पुण्यमुत्तमम् ॥६६॥पूतात्मा तेन पुण्येन रुद्रलोकं स गच्छति ।आरूढः परमं यानं कामगं च सुशोभनम् ॥६७॥तत्र दिव्याप्सरोभिस्तु वीज्यमानोऽथ चामरैः ।क्रीडते सुचिरं कालं जयशब्दादिमङ्गलैः ॥६८॥ततोऽवतीर्णः कालेन इह राजा भवेद्ध्रुवम् ।हस्त्यश्वरथसम्पन्नो महाभोगी परंतपः ॥६९॥दशाश्वमेधे यद्दानं दीयते शिवयोगिनाम् ।दशाश्वमेधसदृशं भवेत्तन्नात्र संशयः ॥७०॥सर्वेषामेव यज्ञानामश्वमेधो विशिष्यते ।दुर्लभः स्वल्पवित्तानां भूरिशः पापकर्मणाम् ॥७१॥तत्र तीर्थे तु राजेन्द्र दुर्लभोऽपि सुरासुरैः ।प्राप्यते स्नानदानेन इत्येवं शङ्करोऽब्रवीत् ॥७२॥अकामो वा सकामो वा मृतस्तत्र नरेश्वर ।देवत्वं प्राप्नुयात्सोऽपि नात्र कार्या विचारणा ॥७३॥अग्निप्रवेशं यः कुर्यात्तत्र तीर्थे नरोत्तम ।अग्निलोके वसेत्तावद्यावदाभूतसम्प्लवम् ॥७४॥जलप्रवेशं यः कुर्यात्तत्र तीर्थे नराधिप ।ध्यायमानो महादेवं वारुणं लोकमाप्नुयात् ॥७५॥दशाश्वमेधे यः कश्चिच्छूरवृत्त्या तनुं त्यजेत् ।अक्षया नु गतिस्तस्य इत्येवं श्रुतिनोदना ॥७६॥न तां गतिं यान्ति भृगुप्रपातिनो न दण्डिनो नैव च सांख्ययोगिनः ।ध्वजाकुले दुन्दुभिशङ्खनादिते क्षणेन यां यान्ति महाहवे मृताः ॥७७॥यत्र तत्र हतः शूरः शत्रुभिः परिवेष्टितः ।अक्षयांल्लभते लोकान्यदि क्लीबं न भाषते ॥७८॥दशाश्वमेधे संन्यासं यः करोति विधानतः ।अनिवर्तिका गतिस्तस्य रुद्रलोकात्कदाचन ॥७९॥दशाश्वमेधे यत्पुण्यं संक्षेपेण युधिष्ठिर ।कथितं परया भक्त्या सर्वपापप्रणाशनम् ॥८०॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दशाश्वमेधतीर्थमाहात्म्यवर्णनं नामाशीत्युत्तरशततमोऽध्यायः ॥ N/A References : N/A Last Updated : December 17, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP