रेवा खण्डम् - अध्याय ९५
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र बदर्याश्रममुत्तमम् ।
सर्वतीर्थवरं पुण्यं कथितं शंभुना पुरा ॥१॥
यश्चैष भारतस्यार्थे तत्र सिद्धः किरीटभृत् ।
भ्राता ते फाल्गुनो नाम विद्ध्येनं नरदैवतम् ॥२॥
नरनारायणौ द्वौ तावागतौ नर्मदातटे ।
ज्ञानं तस्यैव यो राजन्भक्तिमान्वै जनार्दने ॥३॥
समं पश्यति सर्वेषु स्थावरेषु चरेषु च ।
ब्राह्मणं श्वपचं चैव तत्र प्रीतो जनार्दनः ॥४॥
ऐकात्म्यं पश्य कौन्तेय मयि चात्मनि नान्तरम् ।
नरनारायणाभ्यां हि कृतं बदरिकाश्रमम् ॥५॥
स्थापितः शङ्करस्तत्र लोकानुग्रहकारणात् ।
त्रिमूर्तिस्थापितं लिङ्गं स्वर्गमार्गानुमुक्तिदम् ॥६॥
तत्र गत्वा शुचिर्भूत्वा ह्येकरात्रोपवासकृत् ।
रजस्तमस्तथा त्यक्त्वा सात्त्विकं भावमाश्रयेत् ॥७॥
रात्रौ जागरणं कृत्वा मधुमासाष्टमीदिने ।
अथवा च चतुर्दश्यामुभौ पक्षौ च कारयेत् ॥८॥
आश्विनस्य विशेषेण कथितं तव पाण्डव ।
स्नापयेत्परया भक्त्या क्षीरेण मधुना सह ॥९॥
दध्ना शर्करया युक्तं घृतेन समलंकृतम् ।
पञ्चामृतमिदं पुण्यं स्नापयेद्वृषभध्वजम् ॥१०॥
स्नाप्यमानं शिवं भक्त्या वीक्षते यो विमत्सरः ।
तस्य वासः शिवोपान्ते शक्रलोके न संशयः ॥११॥
शाठ्येनापि नमस्कारः प्रयुक्तः शूलपाणिने ।
संसारमूलबद्धानामुद्वेष्टनकरो हि यः ॥१२॥
तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ।
येनौं नमः शिवायेति मन्त्राभ्यासः स्थिरीकृतः ॥१३॥
यः पुनः स्नापयेद्भक्त्या एकभक्तो जितेन्द्रियः ।
तस्यापि यत्फलं पार्थ वक्ष्ये तल्लेशतस्तव ॥१४॥
पीडितो वृद्धभावेन तव भक्त्या वदाम्यहम् ।
ते यान्ति परमं स्थानं भित्त्वा भास्करमण्डलम् ॥१५॥
संसारे सर्वसौख्यानां निलयास्ते भवन्ति च ।
आश्चर्यं ज्ञातिवर्गाणां धर्माणां निलयास्तु ते ॥१६॥
सम्पन्नाः सर्वकामैस्ते पृथिव्यां पृथिवीपते ।
श्राद्धं तत्रैव यः कुर्यान्नर्मदोदकमिश्रितम् ॥१७॥
योग्यैश्च ब्राह्मणैर्राजन्कुलीनैर्वेदपारगैः ।
सुरूपैश्च सुशीलैश्च स्वदारनिरतैः शुभैः ॥१८॥
आर्यदेशप्रसूतैश्च श्लक्ष्णैश्चैव सुरूपिभिः ।
कारयेत्पिण्डदानं वै भास्करे कुतपस्थिते ॥१९॥
पित्ःणां परमं लोकं यदीच्छेद्धर्मनन्दन ।
वर्जयेत्तान्प्रयत्नेन काणान्दुष्टांश्च दाम्भिकान् ॥२०॥
तस्मात्सर्वप्रयत्नेन योग्यं विप्रं समाश्रयेत् ।
नरकान्मोचयेत्प्रेतान्कुम्भीपाकपुरोगमान् ॥२१॥
मोक्षो भवति सर्वेषां पित्ःणां नृपनन्दन ।
विप्रेभ्यः काञ्चनं दद्यात्प्रीयतां मे पितामहः ॥२२॥
अन्नं च दापयेत्तत्र भक्त्या वस्त्रं च भारत ।
गां वृषं मेदिनीं दद्याच्छत्रं शस्तं नृपोत्तम ॥२३॥
स पुमान्स्वर्गमाप्नोति इत्येवं शङ्करोऽब्रवीत् ।
प्राणत्यागं तु यः कुर्याच्छिखिना सलिलेन वा ॥२४॥
अनाशकेन वा भूयः स गच्छेच्छिवमन्दिरम् ।
नरनारायणीतीरे देवद्रोण्यां च यो नृप ॥२५॥
स वसेदीश्वरस्याग्रे यावदिन्द्राश्चतुर्दश ।
पुनः स्वर्गाच्च्युतः सोऽपि राजा भवति वीर्यवान् ॥२६॥
सर्वैश्वर्यगुणैर्युक्तः प्रजापालनतत्परः ।
ततः स्मरति तत्तीर्थं पुनरेवागमिष्यति ॥२७॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नारायणीतीर्थमाहात्म्यवर्णनं नाम पञ्चनवतितमोऽध्यायः ॥
N/A
N/A
References : N/A
Last Updated : December 12, 2024
TOP