संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय १४

रेवा खण्डम् - अध्याय १४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


युधिष्ठिर उवाच -
ततस्त ऋषयः सर्वे महाभागास्तपोधनाः ।
गतास्तु परमं लोकं ततः किं जातमद्भुतम् ॥१॥

श्रीमार्कण्डेय उवाच -
ततस्तेषु प्रयातेषु नर्मदातीरवासिषु ।
बभूव रौद्रसंहारः सर्वभूतक्षयंकरः ॥२॥
कैलासशिखरस्थं तु महादेवं सनातनम् ।
ब्रह्माद्याः प्रास्तुवन् देवमृग्यजुःसामभिः शिवम् ॥३॥
संहर त्वं जगद्देव सदेवासुरमानुषम् ।
प्राप्तो युगसहस्रान्तः कालः संहरणक्षमः ॥४॥
मद्रूपं तु समास्थाय त्वया चैतद्विनिर्मितम् ।
वैष्णवीं मूर्तिमास्थाय त्वयैतत्परिपालितम् ॥५॥
एका मूर्तिस्त्रिधा जाता ब्राह्मी शैवी च वैष्णवी ।
सृष्टिसंहाररक्षार्थं भवेदेवं महेश्वर ॥६॥
एतच्छ्रुत्वा वचस्तथ्यं विष्णोश्च परमेष्ठिनः ।
सगणः सपरीवारः सह ताभ्यां सहोमया ॥७॥
समलोकान्विभिद्येमान्भगवान्नीललोहितः ।
भूराद्यब्रह्मलोकान्तं भित्त्वाण्डं परतः परम् ॥८॥
शैवं पदमजं दिव्यमाविशत्सह तैर्विभुः ।
न तत्र वायुर्नाकाशं नाग्निस्तत्र न भूतलम् ॥९॥
यत्र संतिष्ठे देव उमया सह शङ्करः ।
न सूर्यो न ग्रहास्तत्र न ऋक्षाणि दिशस्तथा ॥१०॥
न लोकपाला न सुखं न च दुःखं नृपोत्तम ॥११॥
ब्राह्मं पदं यत्कवयो वदन्ति शैवं पदं यत्कवयो वदन्ति ।
क्षेत्रज्ञमीशं प्रवदन्ति चान्ये सांख्याश्च गायन्ति किलादिमोक्षम् ॥१२॥
यद्ब्रह्म आद्यं प्रवदन्ति केचिद्यं सर्वमीशानमजं पुराणम् ।
तमेकरूपं तमनेकरूपमरूपमाद्यं परमव्ययाख्यम् ॥१३॥
अवर्णमप्यर्थमनामगोत्रं तुर्यं पदं यत्कवयो वदन्ति ।
ध्यानार्थविज्ञानमयं सुसूक्ष्ममात्मस्थमीशानवरं वरेण्यम् ॥१४॥
ततस्त्रयस्ते भगवन्तमीशं सम्प्राप्य संक्षिप्य भवन्त्यर्थकम् ।
पृथक्स्वरूपैस्तु पुनस्त एव जगत्समस्तं परिपालयन्ति ॥१५॥
संहारं सर्वभूतानां रुद्रत्वे कुरुते प्रभुः ।
विष्णुत्वे पालयेल्लोकान्ब्रह्मत्वे सृष्टिकारकः ॥१६॥
प्रकृत्या सह संयुक्तः कालो भूत्वा महेश्वरः ।
विश्वरूपा महाभागा तस्य पार्श्वे व्यवस्थिता ॥१७॥
यामाहुः प्रकृतिं तज्ज्ञाः पदार्थानां विचक्षणाः ।
पुरुषत्वे प्रकृतित्वे च कारणं परमेश्वरः ॥१८॥
तस्मादेतज्जगत्सर्वं चराचरम् ।
तस्मिन्नेव लयं याति युगान्ते समुपस्थिते ॥१९॥
भगलिङ्गाङ्कितं सर्वं व्याप्तं वै परमेष्ठिना ।
भगरूपो भवेद्विष्णुर्लिङ्गरूपो महेश्वरः ॥२०॥
भाति सर्वेषु लोकेषु गीयते भूर्भुवादिषु ।
प्रविष्टः सर्वभूतेषु तेन विष्णुर्भगः स्मृतः ॥२१॥
विशनाद्विष्णुरित्युक्तः सर्वदेवमयो महान् ।
भासनाद्गमनाच्चैव भगसंज्ञा प्रकीर्तिता ॥२२॥
ब्रह्मादिस्तम्बपर्यन्तं यस्मिन्नेति लयं जगत् ।
एकभावं समापन्नं लिङ्गं तस्माद्विदुर्बुधाः ॥२३॥
महादेवस्ततो देवीमाह पार्श्वे स्थितां तदा ।
संहरस्व जगत्सर्वं मा विलम्बस्व शोभने ॥२४॥
त्यज सौम्यमिदं रूपं सितचन्द्रांशुनिर्मलम् ।
रुद्रं रूपं समास्थाय संहरस्व चराचरम् ॥२५॥
रौद्रैर्भूतगणैर्घोरैर्देवि त्वं परिवारिता ।
जीवलोकमिमं सर्वं भक्षयस्वाम्बुजेक्षणे ॥२६॥
ततोऽहं मर्दयिष्यामि प्लावयिष्ये तथा जगत् ।
कृत्वा चैकार्णवं भूयः सुखं स्वप्स्ये त्वया सह ॥२७॥

श्रीदेव्युवाच -
नाहं देव जगच्चैतत्संहरामि महाद्युते ।
अम्बा भूत्वा विचेष्टं न भक्षयामि भृशातुरम् ॥२८॥
स्त्रीस्वभावेन कारुण्यं करोति हृदयं मम ।
कथं वै निर्दहिष्यामि जगदेतज्जगत्पते ॥२९॥
तस्मात्त्वं स्वयमेवेदं जगत्संहर शङ्कर ।
अथैवमुक्तस्तां देवीं धूर्जटिर्नीललोहितः ॥३०॥
क्रुद्धो निर्भर्त्सयामास हुङ्कारेण महेश्वरीम् ।
ओं हुंफट्त्वं स इत्याह कोपाविष्टैरथेक्षणैः ॥३१॥
हुंकारिता विशालाक्षी पीनोरुजघनस्थला ।
तत्क्षणाच्चाभवद्रौद्रा कालरात्रीव भारत ॥३२॥
हुंकुर्वती महानादैर्नादयन्ती दिशो दश ।
व्यवर्धत महारौद्रा विद्युत्सौदामिनी यथा ॥३३॥
विद्युत्सम्पातदुष्प्रेक्ष्या विद्युत्संघातचञ्चला ।
विद्युज्ज्वालाकुला रौद्रा विद्युदग्निनिभेक्षणा ॥३४॥
मुक्तकेशी विशालाक्षी कृशग्रीवा कृशोदरी ।
व्याघ्रचर्माम्बरधरा व्यालयज्ञोपवीतिनी ॥३५॥
वृश्चिकैरग्निपुञ्जाभैर्गोनसैश्च विभूषिता ।
त्रैलोक्यं पूरयामास विस्तारेणोच्छ्रयेण च ॥३६॥
भासुराङ्गा तु संवृत्ता कृष्णसर्पैककुण्डला ।
चित्रदण्डोद्यतकरा व्याघ्रचर्मोपसेविता ॥३७॥
व्यवर्धत महारौद्रा जगत्संहारकारिणी ।
सृक्किणी लेलिहाना च क्रूरफूत्कारकारिणी ॥३८॥
व्यात्तास्या घुर्घुरारावा जगत्संक्षोभकारिणी ।
खेलद्भूतानुगा क्रूरा निःश्वासोच्छ्वासकारिणी ॥३९॥
जाताट्टअहासा दुर्नासा वह्निकुण्डसमेक्षणा ।
प्रोद्यत्किलकिलारावा ददाह सकलं जगत् ॥४०॥
दह्यमानाः सुरास्तत्र पतन्ति धरणीतले ।
पतन्ति यक्षगन्धर्वाः सकिन्नरमहोरगाः ॥४१॥
पतन्ति भूतसङ्घाश्च हाहाहैहैविराविणः ।
बुम्बापातैः सनिर्घातैरुदितार्तस्वरैरपि ॥४२॥
व्याप्तमासीत्तदा विश्वं त्रैलोक्यं सचराचरम् ।
संपतद्भिः पतद्भिश्च ज्वलद्भूतगणैर्मही ॥४३॥
जातैश्चटचटाशब्दैः पतद्भिर्गिरिसानुभिः ।
तत्र रौद्रोत्सवे जाता रुद्रानन्दविवर्धिनी ॥४४॥
विहिंसमाना भूतानि चर्वमाणाचरानपि ।
तत्तद्गन्धमुपादाय शिवारावविराविणी ॥४५॥
गलच्छोणितधाराभिमुखा दिग्धकलेवरा ।
चण्डशीलाभवच्चण्डी जगत्संहारकर्मणि ॥४६॥
येऽपि प्राप्ता महर्लोकं भृग्वाद्याश्च महर्षयः ।
तेऽपि नश्यन्ति शतशो ब्रह्मक्षत्त्रविशादयः ॥४७॥
देवासुरा भयत्रस्ताः सयक्षोरगराक्षसाः ।
विशन्ति केऽपि पातालं लीयन्ते च गुहादिषु ॥४८॥
सा च देवी दिशः सर्वा व्याप्य मृत्युरिव स्थिता ।
युगक्षयकरे काले देवेन विनियोजिता ॥४९॥
एकापि नवधा जाता दशधा दशधा तथा ।
चतुःषष्टिस्वरूपा च शतरूपाट्टहासिनी ॥५०॥
जज्ञे सहस्ररूपा च लक्षकोटितनुः शिवा ।
नानारूपायुधाकारा नानावादनचारिणी ॥५१॥
एवंरूपाऽभवद्देवी शिवस्यानुज्ञया नृप ।
दिक्षु सर्वासु गगने विकटायुधशीलिनः ॥५२॥
रुन्धन्तो नश्यमानांस्तान्गणा माहेश्वराः स्थिताः ।
विचरन्ति तया सार्द्धं शूलपट्टिशपाणयः ॥५३॥
ततो मातृगणाः केचिद्विनायकगणैः सह ।
व्यवर्धन्त महारौद्रा जगत्संहारकारिणः ॥५४॥
ततस्तस्या व्यवर्धन्त दंष्ट्राः कुन्देन्दुसन्निभाः ।
योजनानां सहस्राणि अयुतान्यर्बुदानि च ॥५५॥
दंष्ट्रावलिः कररुहाः क्रूरास्तीक्ष्णाश्च कर्कशाः ।
वियद्दिशो लिखन्त्येव सप्तद्वीपां वसुंधराम् ॥५६॥
तस्या दंष्ट्राभिसम्पातैश्चूर्णिता वनपर्वताः ।
शिलासंचयसंघाता विशीर्यते सहस्रशः ॥५७॥
हिमवान्हेमकूटश्च निषधो गन्धमादनः ।
माल्यवांश्चैव नीलश्च श्वेतश्चैव महागिरिः ॥५८॥
मेरुमध्यमिलापीठं सप्तद्वीपं च सार्णवम् ।
लोकालोकेन सहितं प्राकम्पत नृपोत्तम ॥५९॥
दंष्ट्राशनिविस्पृष्टाश्च विशीर्यन्ते महाद्रुमाः ।
उत्पातैश्च दिशो व्याप्ता घोररूपैः समन्ततः ॥६०॥
तारा ग्रहगणाः सर्वे ये च वैमानिका गणाः ।
शिवासहस्रैराकीर्णा महामातृगणैस्तथा ॥६१॥
सा चचार जगत्कृत्स्नं युगान्ते समुपस्थिते ।
भ्रमद्भिश्च ब्रुवद्भिश्च क्रोशद्भिश्च समन्ततः ॥६२॥
प्रमथद्भिर्ज्वलद्भिश्च रौद्रैर्व्याप्ता दिशो दश ।
विस्तीर्णं शैलसङ्घातं विघूर्णितगिरिद्रुमम् ॥६३॥
प्रभिन्नगोपुरद्वारं केशशुष्कास्थिसंकुलम् ।
प्रदग्धग्रामनगरं भस्मपुंजाभिसंवृतम् ॥६४॥
चिताधूमाकुलं सर्वं त्रैलोक्यं सचराचरम् ।
हाहाकाराकुलं सर्वमहहस्वननिस्वनम् ॥६५॥
जगदेतदभूत्सर्वमशरण्यं निराश्रयम् ॥६६॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये कल्पानुकथने कालरात्रिकृतजगत्संहरणवर्णनं नाम चतुर्दशोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 08, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP