संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय १६२

रेवा खण्डम् - अध्याय १६२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
गोपेश्वरं ततो गच्छेत्सर्पक्षेत्रादनन्तरम् ।
यत्र स्नानेन चैकेन मुच्यन्ते पातकैर्नराः ॥१॥
तत्र तीर्थे तु यः स्नात्वा कुरुते प्राणसंक्षयम् ।
स गच्छेद्यदि युक्तोऽपि पापेन शिवमन्दिरम् ॥२॥
तत्र तीर्थे तु यः स्नात्वा पूजयेद्देवमीश्वरम् ।
मुच्यते सर्वपापैश्च रुद्रलोकं स गच्छति ॥३॥
क्रीडित्वा च यथाकामं रुद्रलोके महातपाः ।
इह मानुष्यतां प्राप्य राजा भवति धार्मिकः ॥४॥
हस्त्यश्वरथसम्पन्नो दासीदाससमन्वितः ।
पूज्यमानो नरेन्द्रैश्च जीवेद्वर्षशतं सुखी ॥५॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गोपेश्वरतीर्थमाहात्म्यवर्णनं नाम द्विषष्ट्युत्तरशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 17, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP