रेवा खण्डम् - अध्याय ६०
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
श्रीमार्कण्डेय उवाच -
भूयोऽप्यहं प्रवक्ष्यामि आदित्येश्वरमुत्तमम् ।
सर्वदुःखहरं पार्थ सर्वविघ्नविनाशनम् ॥१॥
आयुःश्रीवर्द्धनं नित्यं पुत्रदं स्वर्गदं शिवम् ।
यस्य तीर्थस्य चान्यानि तीर्थानि कुरुनन्दन ॥२॥
नालभन्त श्रियं नाके मर्त्ये पातालगोचरे ।
कुरुक्षेत्रं गया गङ्गा नैमिषं पुष्करं तथा ॥३॥
वाराणसी च केदारं प्रयागं रुद्रनन्दनम् ।
महाकालं सहस्राक्षं शुक्लतीर्थं नृपोत्तम ॥४॥
रवितीर्थस्य सर्वाणि कलां नार्हन्ति षोडशीम् ।
रवितीर्थे हि यद्वृत्तं तच्छृणुष्व नृपोत्तम ॥५॥
स्नेहात्ते कथयिष्यामि वार्द्धकेनातिपीडितः ।
शृण्वन्तु ऋषयः सर्वे तपोनिष्ठा महौजसः ॥६॥
श्रुतं मे रुद्रसांनिध्ये नन्दिस्कन्दगणैः सह ।
पार्वत्या पृष्टः शम्भुश्च रवितीर्थस्य यत्फलम् ॥७॥
शम्भुना च यदाख्यातं गिरिजायाः ससम्भ्रमम् ।
तत्सर्वमेकचित्तेन रुद्रोद्गीतं श्रुतं मया ॥८॥
तत्तेऽहं सम्प्रवक्ष्यामि शृणु यत्नेन पाण्डव ।
दुर्भिक्षोपहता विप्रा नर्मदां तु समाश्रिताः ॥९॥
उद्दालको वशिष्ठश्च माण्डव्यो गौतमस्तथा ।
याज्ञवल्क्योऽथ गर्गश्च शाण्डिल्यो गालवस्तथा ॥१०॥
नाचिकेतो विभाण्डश्च वालखिल्यादयस्तथा ।
शातातपश्च शङ्खश्च जैमिनिर्गोभिलस्तथा ॥११॥
जैगीषव्यः शतानीकः सर्व एव समागताः ।
तीर्थयात्रा कृता तैस्तु नर्मदायाः समन्ततः ॥१२॥
आदित्येश्वरमायाताः प्रसङ्गादृषिपुंगवाः ।
वृक्षैः संछादितं शुभ्रं धवतिन्दुकपाटलैः ॥१३॥
जम्बीरैरर्जुनैः कुब्जैः शमीकेसरकिंशुकैः ।
तस्मिंस्तीर्थे महापुण्ये सुगन्धिकुसुमाकुले ॥१४॥
पुन्नागनालिकेरैश्च खदिरैः कल्पपादपैः ।
अनेकश्वापदाकीर्णं मृगमार्जारसंकुलम् ॥१५॥
ऋक्षहस्तिसमाकीर्णं चित्रकैश्चोपशोभितम् ।
प्रविष्टा ऋषयः सर्वे वने पुष्पसमाकुले ॥१६॥
वनान्ते च स्त्रियो दृष्ट्वा रक्ता रक्ताम्बरान्विताः ।
रक्तमाल्यानुशोभाढ्या रक्तचन्दनचर्चिताः ॥१७॥
रक्ताभरणसंयुक्ताः पाशहस्ता भयावहाः ।
तासां समीपगा दृष्टाः कृष्णजीमूतसन्निभाः ॥१८॥
महाकाया भीमवक्त्राः पाशहस्ता भयावहाः ।
अनावृष्ट्युपमा दृष्टा आतुराः पिङ्गलोचनाः ॥१९॥
दीर्घजिह्वा करालास्या तीक्ष्णदंष्ट्रा दुरासदा ।
वृद्धा नारी कुरुश्रेष्ठ दृष्टान्या ऋषिपुंगवैः ॥२०॥
ततः समीपगा वृद्धा तस्य वृन्दस्य भारत ।
स्वाध्यायनिरता विप्रा दृष्टास्तैः पापकर्मभिः ॥२१॥
ऊचुस्ते तु समूहेन ब्राह्मणांस्तपसि स्थितान् ।
अस्माकं स्वामिनः सर्वे तिष्ठन्ते तीर्थमध्यतः ।
ते प्रस्थाप्या महाभागाः सर्वथैव त्वरान्विताः ॥२२॥
तच्छ्रुत्वा वचनं तेषां सर्वे चैव त्वरान्विताः ।
जग्मुस्ते नर्मदाकक्षं दृष्ट्वा रेवां द्विजोत्तमाः ॥२३॥
ततः केचित्स्तुवन्त्यन्ये जय देवि नमोऽस्तु ते ॥२४॥
नमोऽस्तु ते सिद्धगणैर्निषेविते नमोऽस्तु ते सर्वपवित्रमङ्गले ।
नमोऽस्तु ते विप्रसहस्रसेविते नमोऽस्तु रुद्राङ्गसमुद्भवे वरे ॥२५॥
नमोऽस्तु ते सर्वपवित्रपावने नमोऽस्तु ते देवि वरप्रदे शिवे ।
नमामि ते शीतजले सुखप्रदे सरिद्वरे पापहरे विचित्रिते ॥२६॥
अनेकभूतौघसुसेविताङ्गे गन्धर्वयक्षोरगपाविताङ्गे ।
महागजौघैर्महिषैर्वराहैरापीयसे तोयमहोर्मिमाले ॥२७॥
नमामि ते सर्ववरे सुखप्रदे विमोचयास्मानघपाशबद्धान् ॥२८॥
भ्रमन्ति तावन्नरकेषु मर्त्या यावत्तवाम्भो नहि संश्रयन्ति ।
स्पृष्टं करैश्चन्द्रमसो रवेश्चेत्तद्देवि दद्यात्परमं पदं तु ॥२९॥
अनेकसंसारभयार्दितानां पापैरनेकैरभिवेष्टितानाम् ।
गतिस्त्वमम्भोजसमानवक्त्रे द्वन्द्वैरनेकैरभिसंवृतानाम् ॥३०॥
नद्यश्च पूता विमला भवन्ति त्वां देवि सम्प्राप्य न संशयोऽत्र ।
दुःखातुराणामभयं ददासि शिष्टैरनेकैरभिपूजितासि ॥३१॥
विण्मूत्रदेहाश्च निमग्नदेहा भ्रमन्ति तावन्नरकेषु मर्त्याः ।
महाबलध्वस्ततरङ्गभङ्गं जलं न यावत्तव संस्पृशन्ति ॥३२॥
म्लेच्छाः पुलिन्दास्त्वथ यातुधानाः पिबन्ति येऽंभस्तव देवि पुण्यम् ।
तेऽपि प्रमुच्यन्ति भयाच्च घोरात्किमत्र विप्रा भवपाशभीताः ॥३३॥
सरांसि नद्यः क्षयमभ्युपेता घोरे युगेऽस्मिन्कलिनावसृष्टे ।
त्वं भ्राजसे देवि जलौघपूर्णा दिवीव नक्षत्रपथे च गङ्गा ॥३४॥
तव प्रासादाद्वरदे विशिष्टे कालं यथेमं परिपालयित्वा ।
यास्याम मोक्षं तव सुप्रसादाद्वयं यथा त्वं कुरु नः प्रसादम् ॥३५॥
त्वामाश्रिता ये शरणं गताश्च गतिस्त्वमम्बेव पितेव पुत्रान् ।
त्वत्पालिता यावदिमं सुघोरं कालं त्वनावृष्टिहतं क्षिपामः ॥३६॥
एवं स्तुता तदा देवी नर्मदा सरितां वरा ।
प्रत्यक्षा सा परा मूर्तिर्ब्राह्मणानां युधिष्ठिर ॥३७॥
श्रीमार्कण्डेय उवाच -
पठन्ति ये स्तोत्रमिदं नरेन्द्र शृण्वन्ति भक्त्या परया प्रशान्ताः ।
ते यान्ति रुद्रं वृषसंयुतेन यानेन दिव्याम्बरभूषिताङ्गाः ॥३८॥
ये स्तोत्रमेतत्सततं जपन्ति स्नात्वा च तोयेन तु नर्मदायाः ।
तेभ्योऽन्तकाले सरिदुत्तमेयं गतिं विशुद्धामचिराद्ददाति ॥३९॥
प्रातः समुत्थाय तथा शयानो यः कीर्तयेतानुदिनं स्तवेन्द्रम् ।
देहक्षयं स्वे सलिले ददाति समाश्रयं तस्य महानुभाव ॥४०॥
पापैर्विमुक्ता दिवि मोदमानाः सम्भोगिनश्चैव तु नान्यथा च ॥४१॥
प्रसन्ना नर्मदा देवी स्तोत्रेणानेन भारत ।
जलेनाप्यायितान् विप्रान् दक्षिणापथवाहिनी ॥४२॥
अमृतत्वं तु वो दद्मि योगिभिर्यन्न गम्यते ।
दुर्लभं यत्सुरैः सर्वैर्मत्प्रसादाल्लभिष्यथ ॥४३॥
इति ते ब्राह्मणा राजंल्लब्धा वरमनुत्तमम् ।
गमिष्यन्तः प्रीतचित्ता ददृशुश्चित्रमद्भुतम् ॥४४॥
श्रीमार्कण्डेय उवाच -
दृष्टास्तैः पुरुषाः पार्थ नर्मदातटसंस्थिताः ।
स्नानदेवार्चनासक्ताः पञ्च एव महाबलाः ॥४५॥
ते दृष्टा ब्राह्मणैः सर्वैर्वेदवेदाङ्गपारगैः ।
संपृष्टास्तैर्महाराज यथा तदवधारय ॥४६॥
विप्रा ऊचुः ।
वनान्ते स्त्रीयुगं दृष्ट्वा महारौद्रं भयावहम् ।
वृद्धाश्च पुरुषास्तत्र पाशहस्ता भयावहाः ॥४७॥
दुर्धर्षा दुर्निरीक्ष्याश्च इतश्चेतश्च चञ्चलाः ।
व्याहरन्तः शुभां वाचं न तत्र गतिरस्ति वै ॥४८॥
अपरस्परयोः सर्वे निरीक्षन्तः पुनःपुनः ।
तैस्तु यद्वचनं प्रोक्तं तत्सर्वं कथ्यतामिति ॥४९॥
अस्माकं पुरुषाः पञ्च तिष्ठन्ति तत्र सत्तमाः ।
ते प्रस्थाप्या महाभागाः सर्वथैव त्वरान्विताः ॥५०॥
अथ ते पुरुषाः पञ्च श्रुत्वा वाक्यमिदं शुभम् ।
परस्परं निरीक्षन्तो वदन्ति च पुनःपुनः ॥५१॥
क्व ते कस्य कुतो याताः किमुक्तं तैर्भयावहैः ॥५२॥
पुरुषा ऊचुः ।
तीर्थावगाहनं सर्वैः पूर्वदक्षिणपश्चिमैः ।
उत्तरैश्च कृतं भक्त्या न पापं तैर्व्यपोहितम् ॥५३॥
निष्पापाश्चाथ संजातास्तीर्थस्यास्य प्रभावतः ।
शृण्वन्तु ऋषयः सर्वे वह्निकालोपमा द्विजाः ॥५४॥
पातकानि च घोराणि यान्यचिन्त्यानि देहिनाम् ।
पापिष्ठेन तु चैकेन गुरुदारा निषेविता ॥५५॥
हृतं चान्येन मित्रस्वं सुवर्णं च धनं तथा ।
ब्रह्महत्या महारौद्रा कृता चान्येन पातकम् ॥५६॥
सुरापानं तु चान्यस्य संजातं चाप्यकामतः ।
गोवध्या चाप्यकामेन कृता चैकेन पापिना ॥५७॥
अकामतोऽपि सर्वेषां पातकानि नराधिप ।
ब्राह्मणानां तु ते श्रुत्वा वाक्यं तद्विस्मयान्विताः ॥५८॥
सद्य एव तदा जाताः पापिष्ठा गतकल्मषाः ।
तीर्थस्यास्य प्रभावेन नर्मदायाः प्रभावतः ॥५९॥
न क्वचित्पातकानां तु प्रवेशश्चात्र जायते ।
एवं संचित्य ते सर्वे पापिष्ठाश्च परस्परम् ॥६०॥
चित्रभानुः स्मृतस्तैस्तु विचिन्त्य हृदये हरिम् ।
स्नात्वा रेवाजले पुण्ये तर्पिताः पितृदेवताः ॥६१॥
नत्वा तु भास्करं देवं हृदि ध्यात्वा जनार्दनम् ।
प्रदक्षिणं तु तं भक्त्या ज्वलन्तं जातवेदसम् ॥६२॥
पतिताः पाण्डवश्रेष्ठ पापोद्विग्ना महीपते ।
सात्त्विकीं वासनां कृत्वा त्यक्त्वा रजस्तमस्तथा ॥६३॥
हतं तैः पावके सर्वं रेवाया उत्तरे तटे ।
विमानस्थास्तदा दृष्टा ब्राह्मणैस्ते युधिष्ठिर ॥६४॥
आश्चर्यमतुलं दृष्टमृषिभिर्नर्मदातटे ।
तदाप्रभृति ते सर्वे रागद्वेषविवर्जिताः ॥६५॥
रवितीर्थं द्विजा हृष्टाः सेवन्ते मोक्षकाङ्क्षया ।
तीर्थस्यास्य च यत्पुण्यं तच्छृणुष्व नराधिप ॥६६॥
पीडितो वृद्धभावेन भक्त्या प्रीतो नरेश्वर ।
उद्देशं कथयिष्यामि द्विक्रोशाभ्यन्तरे स्थितः ॥६७॥
कुरुक्षेत्रं यथा पुण्यं रवितीर्थं श्रुतं मया ।
ईश्वरेण पुरा ख्यातं षण्मुखस्य नराधिप ॥६८॥
श्रुतं रुद्राच्च तैः सर्वैरहं तत्र समीपगः ।
ईश्वर उवाच -
मार्तण्डग्रहणे प्राप्ते ये व्रजन्ति षडानन ।
रवितीर्थे कुरुक्षेत्रे तुल्यमेतत्फलं लभेत् ॥६९॥
स्नाने दाने तथा जप्ये होमे चैव विशेषतः ।
कुरुक्षेत्रे समं पुण्यं नात्र कार्या विचारणा ॥७०॥
ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा ।
रवितीर्थे विशेषेण रेवा पुण्यफलप्रदा ॥७१॥
षष्ठ्यां सूर्यदिने भक्त्या व्यतीपाते च वै धृतौ ।
संक्रान्तौ ग्रहणेऽमायां ये व्रजन्ति जितेन्द्रियाः ॥७२॥
कामक्रोधैर्विमुक्ताश्च रागद्वेषैस्तथैव च ।
उपोष्य परया भक्त्या देवस्याग्रे नराधिप ॥७३॥
रात्रौ जागरणं कृत्वा दीपं देवस्य बोधयेत् ।
कथां वै वैष्णवीं पार्थ वेदाभ्यसनमेव च ॥७४॥
ऋग्वेदं वा यजुर्वेदं सामवेदमथर्वणम् ।
ऋचमेकां जपेद्यस्तु स वेदफलमाप्नुयात् ॥७५॥
गायत्र्या च चतुर्वेदफलमाप्नोति मानवः ।
प्रभाते पूजयेद्विप्रानन्नदानहिरण्यतः ॥७६॥
भूमिदानेन वस्त्रेण अन्नदानेन शक्तितः ।
छत्रोपानहशय्यादिगृहदानेन पाण्डव ॥७७॥
ग्रामधूर्वहदानेन गजकन्याहयेन च ।
विद्याशकटदानेन सर्वेषामभयं भवेत् ॥७८॥
शत्रुश्च मित्रतां याति विषं चैवामृतं भवेत् ।
ग्रहा भवन्ति सुप्रीताः प्रीतस्तस्य दिवाकरः ॥७९॥
एतत्ते सर्वमाख्यातं रवितीर्थफलं नृप ।
ये शृण्वन्ति नरा भक्त्या रवितीर्थफलं शुभम् ॥८०॥
तेऽपि पापविनिर्मुक्ता रविलोके वसन्ति हि ।
गोदानेन च यत्पुण्यं यत्पुण्यं भृगुदर्शने ॥८१॥
केदार उदकं पीत्वा तत्पुण्यं जायते नृणाम् ।
अब्दमश्वत्थसेवायां तिलपात्रप्रदो भवेत् ॥८२॥
तत्फलं समवाप्नोति आदित्येश्वरकीर्तनात् ।
श्रुते यस्य प्रभावे न जायते यन्नृपात्मज ॥८३॥
तत्सर्वं कथयिष्यामि भक्त्या तव महीपते ।
पापानि च प्रलीयन्ते भिन्नपात्रे यथा जलम् ॥८४॥
तीर्थस्याभिमुखो नित्यं जायते नात्र संशयः ।
गुह्याद्गुह्यतरं तीर्थं कथितं तव पाण्डव ॥८५॥
पापिष्ठानां कृतघ्नानां स्वामिमित्रावघातिनाम् ।
तीर्थाख्यानं शुभं तेषां गोपितव्यं सदा बुधैः ॥८६॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आदित्येश्वरतीर्थमाहात्म्यवर्णनं नाम षष्टितमोऽध्यायः ॥
N/A
References : N/A
Last Updated : December 09, 2024
TOP