संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय १७१

रेवा खण्डम् - अध्याय १७१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
कथितं ब्राह्मणं द्रष्टुं शूले क्षिप्तं तपोधनैः ।
नारायणसमीपे तु गताः सर्वे महर्षयः ॥१॥
नारदो देवलो रैभ्यो यमः शातातपोऽङ्गिराः ।
वसिष्ठो जमदग्निश्च याज्ञवल्क्यो बृहस्पतिः ॥२॥
कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽरुणिर्मुनिः ।
वालखिल्यादयोऽन्ये च सर्वेऽप्यृषिगणान्वयाः ॥३॥
ददृशुः शूलमारूढं माण्डव्यमृषिपुंगवाः ।
प्रोचुर्नारायणं विप्रं किं कुर्मस्तव चेप्सितम् ॥४॥
सर्वे ते तत्र सांनिध्यान्माण्डव्यस्य महात्मनः ।
संभ्रान्ता आगता ऊचुः किं मृतः किं नु जीवति ॥५॥
अवस्थां तस्य ते दृष्ट्वा विषादमगमन्परम् ।
असहित्वा तु तद्दुःखं सर्वे ते मनसा द्विजाः ॥६॥
पृच्छयतां यदि मन्येत राजानं भस्मसात्कुरु ।
तेषां तद्वचनं श्रुत्वा वाक्यं नारायणोऽब्रवीत् ॥७॥
मयि जीवति मद्भ्राता ह्यवस्थामीदृशीं गतः ।
धिग्जीवितं च मे किंतु तपसो विद्यते फलम् ॥८॥
दृष्ट्वा शूलस्थितं ज्येष्ठं मन्मनो नु विदीर्यते ।
परं किं तु करिष्यामि येन राष्ट्रं सराजकम् ॥९॥
भस्मसाच्च करोम्यद्य भवद्भिः क्षम्यतामिह ।
एवमुक्त्वा गृहीत्वासौ करस्थमभिमन्त्रयेत् ॥१०॥
क्रोधेन पश्यते यावत्तावद्धुंकारकोऽभवत् ।
तेन हुङ्कारशब्देन ऋषयो विस्मितास्तदा ॥११॥
माण्डव्यस्य समीपे तु ह्यपृच्छंस्ते द्विजोत्तमाः ।
निवारयसि किं विप्र शापं नृपजिघांसनम् ॥१२॥
अपापस्य तु येनेह कृतमस्य जिघांसनम् ।
ऋषीणां वचनं श्रुत्वा कृच्छ्रान्माण्डव्यकोऽब्रवीत् ॥१३॥
अभिवन्दामि वो मूर्ध्ना स्वागतं ऋषयः सदा ।
अर्घ्यसन्मानपूजार्हाः सर्वेऽत्रोपविशन्तु ते ॥१४॥
निविष्टैकाग्रमनसा सर्वान्माण्डव्यकोऽब्रवीत् ॥१५॥
प्राप्तं दुःखं मया घोरं पूर्वजन्मार्जितं फलम् ।
मा विषादं कुरुध्वं भोः कृतं पापं तु भुज्यते ॥१६॥
ऋषय ऊचुः ।
केन कर्मविपाकेन इह जात्यन्तरं व्रजेत् ।
दानधर्मफलेनैव केन स्वर्गं च गच्छति ॥१७॥

माण्डव्य उवाच -
अदत्तदाना जायन्ते परभाग्योपजीविनः ।
न स्नानं न जपो होमो नातिथ्यं न सुरार्चनम् ॥१८॥
न पर्वणि पितृश्राद्धं न दानं द्विजसत्तमाः ।
व्रजन्ति नरके घोरे यान्ति ते त्वन्त्यजां गतिम् ॥१९॥
पुनर्दरिद्राः पुनरेव पापाः पापप्रभावान्नरके वसन्ति ।
तेनैव संसरिणि मर्त्यलोके जीवादिभूते कृमयः पतङ्गाः ॥२०॥
ये स्नानशीला द्विजदेवभक्ता जितेन्द्रिया जीवदयानुशीलाः ।
ते देवलोकेषु वसन्ति हृष्टा ये धर्मशीला जितमानरोषाः ॥२१॥
विद्याविनीता न परोपतापिनः स्वदारतुष्टाः परदारवर्जिताः ।
तेषां न लोके भयमस्ति किंचित्स्वभावशुद्धा गतकल्मषा हि ते ॥२२॥
ऋषय ऊचुः ।
पूर्वजन्मनि विप्रेन्द्र किं त्वया दुष्कृतं कृतम् ।
येन कष्टमिदं प्राप्तं सन्धानं शूलगर्हितम् ॥२३॥
शूलस्थं त्वां समालक्ष्य ह्यागताः सर्व एव हि ।
जीवन्तं त्वां प्रपश्याम त्वन्तरन्नवतारयन् ।
रुजासंतापजं दुःखं सोढ्वापि त्वमवेदनः ॥२४॥

माण्डव्य उवाच -
स्वयमेव कृतं कर्म स्वयमेवोपभुज्यते ।
सुकृतं दुष्कृतं पूर्वे नान्ये भुञ्जन्ति कर्हिचित् ॥२५॥
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।
तथा पूर्वकृतं कर्म कर्तारमुपगच्छति ॥२६॥
न माता न पिता भ्राता न भार्या न सुताः सुहृत् ।
न कस्य कर्मणां लेपः स्वयमेवोपभुज्यते ॥२७॥
श्रूयतां मम वाक्यं च भवद्भिः पृच्छितो ह्यहम् ।
पूर्वे वयसि भो विप्रा मलस्नानकृतक्षणः ॥२८॥
अज्ञानाद्बालभावेन यूका कण्टेऽधिरोपिता ।
तैलाभ्यक्तशिरोगात्रे मया यूका घृता न हि ॥२९॥
कङ्कतीं रोप्य केशेषु सासा कण्टेऽधिरोपिता ।
तेषु पापं कृतं सद्यः फलमेतन्ममाभवत् ॥३०॥
किंचित्कालं क्षपित्वाहं प्राप्स्ये मोक्षं निरामयम् ।
भवन्तस्त्विह सन्तापं मां कुरुध्वं महर्षयः ॥३१॥
इमामवस्थां भुक्त्वाहं कंचिच्छपे न चोच्चरे ।
अहनि कतिचिच्छूले क्षपयिष्यामि किल्बिषम् ॥३२॥
प्राक्तनं कर्म भुञ्जामि यन्मया संचितं द्विजाः ।
क्षन्तव्यमस्य राज्ञोऽथ कोपश्चैव विसर्ज्यताम् ॥३३॥
श्रुत्वा तु तस्य तद्वाक्यं माण्डव्यस्य महर्षयः ।
प्रहर्षमतुलं लब्ध्वा साधु साध्वित्यपूजयन् ॥३४॥

नारायण उवाच -
इदं जलं मन्त्रपूतं कस्मिन्स्थाने क्षिपाम्यहम् ।
येन राजा भवेद्भस्म सराष्ट्रः सपुरोहितः ॥३५॥

माण्डव्य उवाच -
इदं जलं च रक्षस्व कालकूटविषोपमम् ।
समुद्रे क्षिपयिष्यामि देवकार्यं समुत्थितम् ॥३६॥
अथ ते मुनयः सर्वे माण्डव्यं प्रणिपत्य च ।
आमन्त्रयित्वा हर्षाच्च कश्यपाद्या गृहान्ययुः ॥३७॥
गच्छमानास्तु ते चोक्ताः पञ्चमेऽहनि तापसाः ।
आगन्तव्यं भवद्भिश्च मत्सकाशं प्रतिज्ञया ॥३८॥
तथेति ते प्रतिज्ञाय नारदाद्या अदर्शनम् ।
गतेषु विप्रमुख्येषु शाण्डिली च तपोधना ॥३९॥
द्वितीयेऽह्नि समायाता न तु बुद्ध्वाथ तं ऋषिम् ।
भर्तारं शिरसा धार्य रात्रौ पर्यटते स्म सा ॥४०॥
न दृष्टः शूलके विप्रो भराक्रान्त्या युधिष्ठिर ।
स्खलिता तस्य जानुभ्यां शूलस्थस्य पतिव्रता ॥४१॥
सर्वाङ्गेषु व्यथा जाता तस्याः प्रस्खलनान्मुनेः ।
ईदृशीं वर्तमानां च ह्यवस्थां पूर्वदैविकीम् ॥४२॥
पुनः पापफलं किंचिद्धा कष्टं मम वर्तते ।
व्यथितोऽहं त्वया पापे किमर्थं सूनकर्मणि ॥४३॥
स्वैरिणीं त्वां प्रपश्यामि राक्षसी तस्करी नु किम् ।
एवमुक्त्वा क्षणं मोहात्क्रन्दमानो मुहुर्मुहुः ॥४४॥
तपस्विनोऽथ ऋषयः सर्वे संत्रस्तमानसाः ।
पश्यमाना मुनेः कष्टं पृच्छन्ते ते युधिष्ठिर ॥४५॥
पर्यटसे किमर्थं त्वं निशीये वहनं नु किम् ।
क्षिप्तं तु झोलिकाभारं किंवागमनकारणम् ।
व्यथामुत्पाद्य ऋषये दुःखाद्दुःखविलासिनि ॥४६॥

शाण्डिल्युवाच -
नासुरीं न च गन्धर्वीं न पिशाचीं न राक्षसीम् ।
पतिव्रतां तु मां सर्वे जानन्तु तपसि स्थिताम् ॥४७॥
न मे कामो न मे क्रोधो न वैरं न च मत्सरः ।
अज्ञानाद्दृष्टिमान्द्याच्च स्खलनं क्षन्तुमर्हथ ॥४८॥
वहनं भर्तृसौख्याय दिवा सम्पीड्यते रुजा ।
अयं भर्ता विजानीथ झोलिकासंस्थितः सदा ॥४९॥
भरणं पानं वस्त्रं च ददाम्येतस्य रोगिणः ।
ऋषिः शौनकमुख्योऽसौ शाण्डिलीं मां विजानत ॥५०॥
स्वभर्तृधर्मिणीं कोपं मा कुरुष्वातिथिं कुरु ।
सतां समीपं सम्प्राप्तां सर्वं मे क्षन्तुमर्हथ ॥५१॥
ऋषय ऊचुः ।
परव्यथां न जानीषे व्यचरन्ती यदृच्छया ।
प्रभातेऽभ्युदिते सूर्ये तव भर्ता मरिष्यति ॥५२॥
आत्मदुःखात्परं दुःखं न जानासि कुलाधमे ।
तेन वाक्येन घोरेण शाण्डिली विमनाभवत् ॥५३॥
परं विषादमापन्ना क्षणं ध्यात्वाब्रवीद्वचः ।
कोपात्संरक्तनयना निरीक्षन्ती मुनींस्तदा ॥५४॥
सतां गेहे किल प्राप्ता भवतां चापकारिणी ।
सामेनातिथिपूजायां शिष्टे च गृहमागते ॥५५॥
भवद्भिरीदृगातिथ्यं कृतं चैव ममैव तु ।
स्वर्गापवर्गधर्मश्च भवद्भिर्न निरीक्षितम् ॥५६॥
प्राजापत्यामिमां दृष्ट्वा मां यथा प्राकृताः स्त्रियः ।
भवन्तः स्त्रीबलं मेऽद्य पश्यन्तु दिवि देवताः ॥५७॥
मरिष्यति न मे भर्ता ह्यादित्यो नोदयिष्यति ।
अन्धकारं जगत्सर्वं क्षीयते नाद्य शर्वरी ॥५८॥
एवमुक्ते तया वाक्ये स्तम्भितेऽर्के तमोमयम् ।
न च प्रजायते सर्वं निर्वषट्कारसत्क्रियम् ॥५९॥
स्वाहाकारः स्वधाकारः पञ्चयज्ञविधिर्नहि ।
स्नानं दानं जपो नास्ति सन्ध्यालोपव्यतिक्रमः ।
षण्मासं च तदा पार्थ लुप्तपिण्डोदकक्रियम् ॥६०॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शाण्डिलीऋषिसंवादवर्णनं नामैकसप्तत्युत्तरशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 17, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP