संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय १९५

रेवा खण्डम् - अध्याय १९५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


युधिष्ठिर उवाच -
देवतीर्थे तु किं नाम माहात्म्यं समुदाहृतम् ।
फलं किं स्नानदानादिकारिणां जायते मुने ॥१॥

मार्कण्डेय उवाच -
पृथिव्यां यानि तीर्थानि देवैर्मुनिगणैरपि ।
सेवितानि महाबाहो तानि ध्यातानि विष्णुना ॥२॥
समागतान्येकतां वै तत्र तीर्थे युधिष्ठिर ।
तत्तीर्थं वैष्णवं पुण्यं देवतीर्थमिति श्रुतम् ॥३॥
कुरुक्षेत्रं भुवि परमन्तरिक्षे त्रिपुष्करम् ।
पुरुषोत्तमं दिवि परं देवतीर्थं परात्परम् ॥४॥
देवतीर्थसमं नास्ति तीर्थमत्र परत्र च ।
यत्प्राप्य मनुजस्तप्येन्न कदाचिद्युधिष्ठिर ॥५॥
देवैरुक्तानि तीर्थानि योऽत्र स्नानं समाचरेत् ।
देवतीर्थे स सर्वत्र स्नातो भवति मानवः ॥६॥
एवमस्त्विति तैरुक्ता देवा ऋषिगणा अपि ।
संतुष्टाः श्रीशमभ्यर्च्य स्वं स्वं स्थानं तु भेजिरे ॥७॥
सूर्यग्रहेऽत्र वै क्षेत्रे स्नात्वा यत्फलमश्नुते ।
स्नात्वा श्रीशं समभ्यर्च्य समुपोष्य यथाविधि ॥८॥
यद्ददाति हिरण्यानि दानानि विधिवन्नृप ।
तदनन्तफलं सर्वं सूर्यस्य ग्रहणे यथा ॥९॥
भूमिदानं धेनुदानं स्वर्णदानमनन्तकम् ।
वज्रदानमनन्तं च फलं प्राह शतक्रतुः ॥१०॥
सोमो वै वस्त्रदानेन मौक्तिकानां च भार्गवः ।
सुवर्णस्य रविर्दानं धर्मराजो ह्यनन्तकम् ॥११॥
देवतीर्थे तु यद्दानं श्रद्धायुक्तेन दीयते ।
तदनन्तफलं प्राह बृहस्पतिरुदारधीः ॥१२॥
देवतीर्थे भृगुक्षेत्रे सर्वतीर्थाधिक नृप ।
देवतीर्थे नरः स्नात्वा श्रीपतिं योऽनुपश्यति ॥१३॥
सोमग्रहे कुलशतं स समुद्धृत्य नाकभाक् ।
दानानि द्विजमुख्येभ्यो देवतीर्थे नराधिप ॥१४॥
यैर्दत्तानि नरैर्भोगभागिनः प्रेत्य चेह ते ।
देवतीर्थे विप्रभोज्यं हरिमुद्दिश्य यश्चरेत् ॥१५॥
स सर्वाह्लादमाप्नोति स्वर्गलोके युधिष्ठिर ।
देवतीर्थे नरो नारी स्नात्वा नियतमानसौ ॥१६॥
उपोष्यैकादशीं भक्त्या पूजयेद्यः श्रियः पतिम् ।
रात्रौ जागरणं कृत्वा घृतेनोद्बोध्य दीपकम् ॥१७॥
द्वादश्यां प्रातरुत्थाय तथा वै नर्मदाजले ।
विप्रदाम्पत्यमभ्यर्च्य विधिवत्कुरुनन्दन ॥१८॥
वस्त्राभरणताम्बूलपुष्पधूपविलेपनैः ।
अक्षये विष्णुलोकेऽसौ मोदते चरितव्रतः ॥१९॥
यः सदैकादशीतिथौ स्नात्वोपोष्यार्चयेद्धरिम् ।
रात्रौ जागरणं कुर्याद्वेदशास्त्रविधानतः ॥२०॥
धर्मराजकृतां पापां न स पश्यति यातनाम् ।
पञ्चरात्रविधानेन श्रीपतिं योऽर्चयिष्यति ॥२१॥
दीक्षामवाप्य विधिवद्वैष्णवीं पापनाशिनीम् ।
स्वर्गमोक्षप्रदां पुण्यां भोगदां वित्तदामथ ॥२२॥
राज्यदां वा महाभाग पुत्रदां भाग्यदामथ ।
सुकलत्रप्रदां वापि विष्णोर्भक्तिप्रदामिति ॥२३॥
तरिष्यति भवाम्भोधिं स नरः कुरुनन्दन ।
योऽर्चयिष्यति तत्रैव देवतीर्थे श्रियः पतिम् ॥२४॥
विश्वरूपमथो सम्यङ्मूलश्रीपतिमेव वा ।
नारायणगिरिं वापि गृहे वैकादशीतिथौ ॥२५॥
भक्तिमाञ्छ्रद्धया युक्तः क्षीरैस्तीर्थोदकैरपि ।
सुसूक्ष्मैरहतैर्वस्त्रैर्महाकौशेयकैर्नृप ॥२६॥
विचित्रैर्नेत्रजैर्वापि धूपैरगुरुचन्दनैः ।
गुग्गुलैर्घृतमिश्रैश्च नैवेद्यैर्विविधैरपि ॥२७॥
पायसाद्यैर्मनुष्येन्द्र पयसा वा युधिष्ठिर ।
पिष्टदीपैः सुविमलैर्वर्धमानैर्मनोहरैः ॥२८॥
पूजयित्वा नरो याति यथा तच्छृणु भारत ।
शङ्खी चक्री गदी पद्मी भूत्वासौ गरुडध्वजः ॥२९॥
देवलोकानतिक्रम्य विष्णुलोकं प्रपद्यते ।
यस्तु वै परया भक्त्या श्रीपतेः पादपङ्कजम् ॥३०॥
चतुर्धाधिष्ठितं पश्येच्छ्रियं त्रैलोक्यमातरम् ।
नृत्यगीतविनोदेन मुच्यते पातकर्ध्रुवम् ॥३१॥
नीराजने तु देवस्य प्रातर्मध्ये दिने तथा ।
सायं च नियतो नित्यं यः पश्येत्पूजयेद्धरिम् ॥३२॥
स तीर्त्वा ह्यापदं दुर्गां नैवार्तिं समवाप्नुयात् ।
आयुःश्रीवर्धनं पुंसां चक्षुषामपि पूरकम् ॥३३॥
उपपापहरं चैव सदा नीराजनं हरेः ।
तदा नीराजनाकाले यो हरेः पठति स्तवम् ॥३४॥
स धन्यो देवदेवस्य प्रसन्नेनान्तरात्मना ।
हरेर्नीराजनाशेषं पाणिभ्यां यः प्रयच्छति ॥३५॥
संगृह्य चक्षुषी तेन योजयेन्मार्जयन्मुखम् ।
तिमिरादीनक्षिरोगान्नाशयेद्दीप्तिमन्मुखम् ॥३६॥
भवत्यशेषदुष्टानां नाशायालं नरोत्तम ।
दीपप्रज्वलनं यस्य नित्यमग्रे श्रियः पतेः ॥३७॥
स्नात्वा रेवाजले पुण्ये प्रदद्यादधिकं व्रती ।
सप्तद्वीपवती तेन ससागरवनापगा ॥३८॥
प्रदक्षिणीकृता स्याद्वै धरणी शङ्करोऽब्रवीत् ।
इदं यः पठ्यमानं तु शृणुयात्पठतेऽपि वा ॥३९॥
स्मरणं सोऽतसमये विपाप्मा प्राप्नुयाद्धरेः ।
इदं यशस्यमायुष्यं स्वर्ग्यं पितृगुणप्रियम् ॥४०॥
माहात्म्यं श्रावयेद्विप्राञ्छ्रीपतेः श्राद्धकर्मणि ।
घृतेन मधुना तेन तर्पिताः स्युः पितामहाः ॥४१॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीपतिमाहात्म्यवर्णनं नाम पञ्चनवत्युत्तरशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 17, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP