संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय २३०

रेवा खण्डम् - अध्याय २३०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


सूत उवाच -
इत्युक्त्वोपररामथ पाण्डोः पुत्राय वै मुनिः ।
मृकण्डतनयो धीमान्सप्तकल्पस्मरः पुरः ॥१॥
मार्कण्डमुनिना प्रोक्तं यथा पार्थाय सत्तमाः ।
तथा वः कथितं सर्वं रेवामाहात्म्यमुत्तमम् ॥२॥
इयं पुण्या सरिच्छ्रेष्ठा रेवा विश्वैकपावनी ।
रुद्रदेहसमुद्भूता सर्वभूताभयप्रदा ॥३॥
ओङ्कारजलधिं यावदुवाच भृगुनन्दनः ।
तीर्थसङ्गमभेदान्वै धर्मपुत्राय पृच्छते ॥४॥
समासेनैव मुनयस्तथाहं कथयामि वः ।
सप्तषष्टिसहस्राणि षष्टिकोट्यस्तथैव च ॥५॥
कथं केनात्र शक्यन्ते वक्तुं वर्षशतैरपि ।
तथाप्यत्र मुनिश्रेष्ठाः प्रोक्तं पार्थाय वै यथा ॥६॥
तीर्थमोंकारमारभ्य वक्ष्ये तीर्थावलिं शुभाम् ।
प्रोच्यमानां समासेन तां शृणुध्वं महर्षयः ॥७॥
नत्वा सोमं महेशानं नत्वा ब्रह्माच्युतावुभौ ।
सरस्वतीं गणेशानं देव्यासाङ्घ्रिपञ्कजम् ॥८॥
पूर्वाचार्यांस्तथा सर्वान्दृष्ट्वादृष्टार्थवेदिनः ।
प्रणम्य नर्मदां देवीं वक्ष्ये तीर्थावलिं त्विमाम् ॥९॥
ओं नमो विश्वरूपाय ओङ्कारायाखिलात्मने ।
यमारभ्ये प्रवक्ष्यामि रेवातीर्थावलिं द्विजाः ॥१०॥
अस्मिन्मार्कण्डगदिते रेवातीर्थक्रमे शुभे ।
पुराणसंहिताध्याया मार्कण्डाश्रमवर्णनम् ॥११॥
ततः प्रश्नाधिकारश्च प्रशंसा नर्मदोद्भवा ।
तथा पञ्चदशानां च प्रवाहानां प्रकीर्तनम् ॥१२॥
नामनिर्वचनं तद्वत्तथा कल्पसमुद्भवाः ।
एकविंशतिकल्पानां तद्वन्नामानुकीर्तनम् ॥१३॥
मार्कण्डेयानुभूतानां सप्तानां लक्षणानि च ।
माहात्म्यं चैव रेवायाः शिवविष्ण्वोस्तथैव च ॥१४॥
संहारलक्षणं तद्वदोङ्कारस्य च सम्भवः ।
तथैवौंकारमाहात्म्यममरकण्टकीर्तनम् ॥१५॥
अमरेश्वरतीर्थं च तथा दारुवनं महत् ।
दारुकेश्वरतीर्थं च तीर्थं वै चरुकेश्वरम् ॥१६॥
चरुकासङ्गमस्तद्व्यद्वतीपातेश्वरं तथा ।
पातालेश्वरतीर्थं च कोटियज्ञाह्वयं तथा ॥१७॥
वरुणेश्वरतीर्थं च लिङ्गान्यष्टोत्तरं शतम् ।
सिद्धेश्वरं यमेशं च ब्रह्मेश्वरमतः परम् ॥१८॥
सारस्वतं चाष्टरुद्रं सावित्रं सोमसंज्ञितम् ।
शिवखातं महातीर्थं रुद्रावर्तं द्विजोत्तमाः ॥१९॥
ब्रह्मावर्तं परं तीर्थं सूर्यावर्तमतः परम् ।
पिप्पलावर्ततीर्थं च पिप्पल्याश्चैव सङ्गमः ॥२०॥
अमरकण्टमाहात्म्यं कपिलासङ्गमस्तथा ।
विशल्यासम्भवश्चापि भृगुतुङ्गाद्रिकीर्तनम् ॥२१॥
विशल्यासङ्गमः पुण्यः करमर्दासमागमः ।
करमर्देश्वरं तीर्थं चक्रतीर्थमनुत्तमम् ॥२२॥
सङ्गमो नीलगङ्गायाः विध्वंसस्त्रिपुरस्य च ।
कीर्तनं तीर्थदानानां मधुकतृतीयाव्रतम् ॥२३॥
अप्सरेश्वरतीर्थं च देहक्षेपे विधिस्ततः ।
तीर्थं ज्वालेश्वरं नाम ज्वालायाः सङ्गमस्तथा ॥२४॥
शक्रतीर्थं कुशावर्तं हंसतीर्थं तथैव च ।
अम्बरीषस्य तीर्थं च महाकालेश्वरं तथा ॥२५॥
मातृकेश्वरतीर्थं च भृगुतुङ्गानुवर्णनम् ।
तत्र भैरवमाहात्म्यं चपलेश्वरकीर्तनम् ॥२६॥
चण्डपाणेश्च माहात्म्यं कावेरीसङ्गमस्तथा ।
कुबेरेश्वरतीर्थं च वाराहीसङ्गमस्तथा ॥२७॥
सङ्गमश्चण्डवेगायास्तीर्थं चण्डेश्वरं तथा ।
एरण्डीसङ्गमः पुण्य एरण्डेश्वरमुत्तमम् ॥२८॥
पितृतीर्थं च तत्रैव ओङ्कारस्य च सम्भवम् ।
माहात्म्यं पञ्चलिङ्गानामोङ्कारस्य मुनीश्वराः ॥२९॥
कोटितीर्थस्य माहात्म्यं तीर्थं काकह्रदं तथा ।
जम्बुकेश्वरतीर्थं च सारस्वतमतः परम् ॥३०॥
कपिलासङ्गमस्तद्वत्तीर्थं च कपिलेश्वरम् ।
दैत्यसूदनतीर्थं च चक्रतीर्थं च वामनम् ॥३१॥
तीर्थलक्षं विदुः पूर्वे कपिलायास्तु सङ्गमे ।
स्वर्गस्य नरकस्यापि लक्षणं मुनिभाषितम् ॥३२॥
व्यवस्थानं शरीरस्य गोप्रदानानुवर्णनम् ।
अशोकवनिकातीर्थं मतङ्गाश्रमवर्णनम् ॥३३॥
अशोकेश्वरतीर्थं च मतङ्गेश्वरमुत्तमम् ।
तथा मृगवनं पुण्यं तत्र तीर्थं मनोरथम् ॥३४॥
सङ्गमोऽङ्गारगर्ताया अङ्गारेश्वरमुत्तमम् ।
तथा मेघवनं तीर्थं देव्या नामानुकीर्तनम् ॥३५॥
सङ्गमश्चापि कुब्जायास्तीर्थं कुब्जेश्वरं तथा ।
बिल्वाम्रकं तथा तीर्थं पूर्णद्वीपमतः परम् ॥३६॥
तथा हिरण्यगर्भायाः सङ्गमः पुण्यकीर्तनः ।
द्वीपेश्वरं नाम तीर्थं पुण्यं यज्ञेश्वरं तथा ॥३७॥
माण्डव्याश्रमतीर्थं च विशोकासङ्गमस्तथा ।
वागीश्वरं नाम तीर्थं पुण्यो वै वागुसङ्गमः ॥३८॥
सहस्रावर्तकं तत्र तीर्थं सौगन्धिकं तथा ।
सङ्गमश्च सरस्वत्या ईशानं तीर्थमुत्तमम् ॥३९॥
देवतात्रयतीर्थं च शूलखातं ततः परम् ।
ब्रह्मोदं शाङ्करं सौम्यं सारस्वतमतः परम् ॥४०॥
सहस्रयज्ञतीर्थं च कपालमोचनं तथा ।
आग्नेयमदितीशं च वाराहं तीर्थमुत्तमम् ॥४१॥
तथा देवपथं तीर्थं तीर्थं यज्ञसहस्रकम् ।
शुक्लतीर्थं दीप्तिकेशं विष्णुतीर्थं च योधनम् ॥४२॥
नर्मदेश्वरतीर्थं च वरुणेशं च मारुतम् ।
योगेशं रोहिणीतीर्थं दारुतीर्थं च सत्तमाः ॥४३॥
ब्रह्मावर्तं च पत्त्रेशं वाह्नं सौरं च कीर्त्यते ।
मेघनादं दारुतीर्थं देवतीर्थं गुहाश्रयम् ॥४४॥
नर्मदेश्वरसंज्ञं तत्कपिलातीर्थमुत्तमम् ।
करञ्जेशं कुण्डलेशं पिप्पलादमतः परम् ॥४५॥
विमलेश्वरतीर्थं च पुष्करिण्याश्च सङ्गमः ।
प्रशंसा शूलभेदस्य तत्रैवान्धकविक्रमः ॥४६॥
देवाश्वासनदानं च तथैवान्धकनिग्रहः ।
शूलभेदस्य चोत्पत्तिस्तथा पात्रपरीक्षणम् ॥४७॥
प्रशंसा दानधर्मस्य ऋषिशृङ्गानुभावनम् ।
स्वर्गतिं दीर्घतपसो भानुमत्यास्तथेङ्गितम् ॥४८॥
शबरस्वर्गगमनं माहात्म्यं शूलभेदजम् ।
कपिलेश्वरतीर्थं च मोक्षतीर्थमतः परम् ॥४९॥
सङ्गमो मोक्षनद्याश्च तीर्थं च विमलेश्वरम् ।
तथैवोलूकतीर्थं च पुष्करिण्याश्च सङ्गमः ॥५०॥
आदित्येश्वरतीर्थं च तीर्थं वै सङ्गमेश्वरम् ।
सङ्गमो भीमकुल्यायास्तीर्थं भीमेश्वरं शुभम् ॥५१॥
मार्कण्डेश्वरतीर्थं च तथा वै पिप्पलेश्वरम् ।
करोटीश्वरतीर्थं च तीर्थमिन्द्रेश्वरं शुभम् ॥५२॥
अगस्त्येशं कुमारेशं व्यासेश्वरमनुत्तमम् ।
वैद्यनाथं च केदारमानन्देश्वरसंज्ञितम् ॥५३॥
मातृतीर्थं च मुण्डेशं चौरं कामेश्वरं तथा ।
सङ्गमश्चानुदुह्या वै तीर्थे भीमार्जुनाह्वये ।
तीर्थं धर्मेश्वरं नाम लुङ्केश्वरमतः परम् ॥५४॥
ततो धनदतीर्थं च जटेशं मङ्गलेश्वरम् ।
कपिलेश्वरतीर्थं च गोपारेश्वरमुत्तमम् ॥५५॥
मणिनागेश्वरं नाम मणिनद्याश्च सङ्गमः ।
तिलकेश्वरतीर्थं च गौतमेशमतः परम् ॥५६॥
तत्रैव मातृतीर्थं च मुनिनोक्तं मुनीश्वराः ।
शङ्खचूडं च केदारं पाराशरमतः परम् ॥५७॥
भीमेश्वरं च चन्द्रेशमश्ववत्याश्च सङ्गमः ।
बह्वीश्वरं नारदेशं वैद्यनाथं कपीश्वरम् ॥५८॥
कुम्भेश्वरं च मार्कण्डं रामेशं लक्ष्मणेश्वरम् ।
मेघेश्वरं मत्स्यकेशमप्सराह्रदसंज्ञकम् ॥५९॥
दधिस्कन्दं मधुस्कन्दं नन्दिकेशं च वारुणम् ।
पावकेश्वरतीर्थं च तथैव कपिलेश्वरम् ॥६०॥
नारायणाह्वयं तीर्थं चक्रतीर्थमनुत्तमम् ।
चण्डादित्यं परं तीर्थं चण्डिकातीर्थमुत्तमम् ॥६१॥
यमहासाह्वयं तीर्थं तथा गङ्गेश्वरं शुभम् ।
नन्दिकेश्वरसंज्ञं च नरनारायणाह्वयम् ॥६२॥
नलेश्वरं च मार्कण्डं शुक्लतीर्थमतः परम् ।
व्यासेश्वरं परं तीर्थं तत्र सिद्धेश्वरं तथा ॥६३॥
कोटितीर्थं प्रभातीर्थं वासुकीश्वरमुत्तमम् ।
सङ्गमश्च करञ्जाया मार्कण्डेश्वरमुत्तमम् ॥६४॥
तीर्थं कोटीश्वरं नाम तथा संकर्षणाह्वयम् ।
कनकेशं मन्मथेशं तीर्थं चैवानसूयकम् ॥६५॥
एरण्डीसङ्गमः पुण्यो मातृतीर्थं च शोभनम् ।
तीर्थं स्वर्णशलाकाख्यं तथा चैवाम्बिकेश्वरम् ॥६६॥
करञ्जेशं भारतेशं नागेशं मुकुटेश्वरम् ।
सौभाग्यसुन्दरी तीर्थं धनदेश्वरमुत्तमम् ॥६७॥
रोहिण्यं चक्रतीर्थं च उत्तरेश्वरसंज्ञितम् ।
भोगेश्वरं च केदारं निष्कलङ्कमतः परम् ॥६८॥
मार्कण्डं धौतपापं च तीर्थमाङ्गिरसेश्वरम् ।
कोटवीसङ्गमः पुण्यं कोटितीर्थं च तत्र वै ॥६९॥
अयोनिजं परं तीर्थमङ्गारेश्वरमुत्तमम् ।
स्कान्दं च नार्मदं ब्राह्मं वाल्मीकेश्वरसंज्ञितम् ॥७०॥
कोटितीर्थं कपालेशं पाण्डुतीर्थं त्रिलोचनम् ।
कपिलेशं कम्बुकेशं प्रभासं कोहनेश्वरम् ॥७१॥
इन्द्रेशं वालुकेशं च देवेशं शक्रमेव च ।
नागेश्वरं गौतमेशमहल्यातीर्थमुत्तमम् ॥७२॥
रामेश्वरं मोक्षतीर्थं तथा कुशलवेश्वरौ ।
नर्मदेशं कपर्दीशं सागरेशमतः परम् ॥७३॥
धौरादित्यं परं तीर्थं तीर्थं चापरयोनिजम् ।
पिङ्गलेश्वरतीर्थ च भृग्वीश्वरमनुत्तमम् ॥७४॥
दशाश्वमेधिकं तीर्थं कोटितीर्थं च सत्तमाः ।
मार्कण्डं ब्रह्मतीर्थं च आदिवाराहमुत्तमम् ॥७५॥
आशापूराभिधं तीर्थं कौबेरं मारुतं तथा ।
वरुणेशं यमेशं च रामेशं कर्कटेश्वरम् ॥७६॥
शक्रेशं सोमतीर्थं च नन्दाह्रदमनुत्तमम् ।
वैष्णवं चक्रतीर्थं च रामकेशवसंज्ञितम् ॥७७॥
तथैव रुक्मिणीतीर्थं शिवतीर्थमनुत्तमम् ।
जयवाराहर्तीर्थं च तीर्थमस्माहकाह्वयम् ॥७८॥
अङ्गारेशं च सिद्धेशं तपेश्वरमतः परम् ।
पुनः सिद्धेश्वरं नामतीर्थं च वरुणेश्वरम् ॥७९॥
पराशरेश्वरं पुण्यं कुसुमेशमनुत्तमम् ।
कुण्डलेश्वरतीर्थं च तथा कलकलेश्वरम् ॥८०॥
न्यङ्कुवाराहसंज्ञं च अङ्कोलं तीर्थमुत्तमम् ।
श्वेतवाराहतीर्थं च भार्गलं सौरमुत्तमम् ॥८१॥
हुङ्कारस्वामितीर्थं च शुक्लतीर्थं च शोभनम् ।
सङ्गमो मधुमत्याश्च तीर्थं वै सङ्गमेश्वरम् ॥८२॥
नर्मदेश्वरसंज्ञं च नदीत्रितयसङ्गमः ।
अनेकेश्वरतीर्थं च शर्भेशं मोक्षसंज्ञितम् ॥८३॥
कावेरीसङ्गमः पुण्यस्तीर्थं गोपेश्वराह्वयम् ।
मार्कण्डेशं च नागेशमुदम्बर्याश्च सङ्गमः ॥८४॥
साम्बादित्याह्वयं तीर्थमुदम्बर्याश्च सङ्गमः ।
सिद्धेश्वरं च मार्कण्डं तथा सिद्धेश्वरीकृतम् ॥८५॥
गोपेशं कपिलेशं च वैद्यनाथमनुत्तमम् ।
पिङ्गलेश्वरतीर्थं च सैन्धवायतनं महत् ॥८६॥
भूतीश्वराह्वयं तीर्थं गङ्गावाहमतः परम् ।
गौतमेश्वरतीर्थं च दशाश्वमेधिकं तथा ॥८७॥
भृगुतीर्थं तथा पुण्यं ख्याता सौभाग्यसुन्दरी ।
वृषखातं च तत्रैव केदारं धूतपातकम् ॥८८॥
तीर्थं धूतेश्वरीसङ्गमेरण्डीसंज्ञकं तथा ।
तीर्थं च कनकेश्वर्या ज्वालेश्वरं ततः परम् ॥८९॥
शालग्रामाह्वयं तीर्थं सोमनाथमनुत्तमम् ।
तथैवोदीर्णवाराहं तीर्थं चन्द्रप्रभासकम् ॥९०॥
द्वादशादित्यतीर्थं च तथा सिद्धेश्वराभिधम् ।
कपिलेश्वरतीर्थं च तथा त्रैविक्रमं शुभम् ॥९१॥
विश्वरूपाह्वयं तीर्थं नारायणकृतं तथा ।
मूलश्रीपतितीर्थं च चौलश्रीपतिसंज्ञकम् ॥९२॥
देवतीर्थं हंसतीर्थ प्रभासं तीर्थमुत्तमम् ।
मूलस्थानं च कण्ठेशमट्टहासमतः परम् ॥९३॥
भूर्भुवेश्वरतीर्थं च ख्याता शूलेश्वरी तथा ।
सारस्वतं दारुकेशमश्विनोस्तीर्थमुत्तमम् ॥९४॥
सावित्रीतीर्थमतुलं वालखिल्येश्वरं तथा ।
नर्मदेशं मातृतीर्थं देवतीर्थमनुत्तमम् ॥९५॥
मच्छकेश्वरतीर्थं च शिखितीर्थं च शोभनम् ।
कोटितीर्थं मुनिश्रेष्ठास्तत्र कोटीश्वरी मृडा ॥९६॥
तीर्थं पैतामहं नाम माण्डव्ये श्वरसंज्ञितम् ।
तत्र नारायणेशं च अक्रूरेशमतः परम् ॥९७॥
देवखातं सिद्धरुद्रं वैद्यनाथमनुत्तमम् ।
तथैव मातृतीर्थं च उत्तरेशमतः परम् ॥९८॥
तथैव नर्मदेशां च मातृतीर्थं तथा पुनः ।
तथा च कुररीतीर्थं ढौण्ढेशं दशकन्यकम् ॥९९॥
सुवर्णबिन्दुतीर्थं च ऋणपापप्रमोचनम् ।
भारभूतेश्वरं तीर्थं तथा मुण्डीश्वरं विदुः ॥१००॥
एकशालं डिण्डिपाणिं तीर्थं चाप्सरसं परम् ।
मुन्यालयं च मार्कण्डं गणितादेवताह्वयम् ॥१०१॥
आमलेश्वरतीर्थं च तीर्थं कन्थेश्वरं तथा ।
आषाढीतीर्थमित्याहुः शृङ्गीतीर्थं तथैव च ॥१०२॥
बकेश्वरतीर्थं च कपालेशं तथैव च ।
मार्कण्डं कपिलेशं च एरण्डीसङ्गमस्तथा ॥१०३॥
एरण्डीदेवतातीर्थं रामतीर्थमतःपरम् ।
जमदग्नेः परं तीर्थं रेवासागरसङ्गमः ॥१०४॥
लोटनेश्वरतीर्थ तल्लुङ्केशनामकं तथा ।
वृषरखातं तत्र कुण्डं तथैव ऋषिसत्तमाः ॥१०५॥
तथा हंसेश्वरंनाम तिलादं वासवेश्वरम् ।
तथा कोटीश्वरं तीर्थमलिकातीर्थमुत्तमम् ।
विमलेश्वरतीर्थं च रेवासागरसङ्गमे ॥१०६॥
एवं तीर्थावलिः पुण्या मया प्रोक्ता महर्षयः ।
तीर्थसुक्तावलिः पुण्या ग्रथिता तटरज्जुना ॥१०७॥
नर्मदानीरनिर्णिक्ता मार्कण्डेयविनिर्मिता ।
मण्डनायेह साधूनां सर्वलोकहिताय च ॥१०८॥
दरितध्वान्तशमनीधार्या धर्मार्थिभिः सदा ।
अहोरात्रकृतं पापं सकृज्जप्त्वाशु नाशयेत् ॥१०९॥
त्रिकालं जप्त्वा मासोत्थं शिवाग्रे च त्रिमासिकम् ।
मासं जप्त्वाथ वर्षोत्थं वर्षं जप्त्वा शताब्दिकम् ॥११०॥
श्राद्धकाले च विप्राणां भुञ्जतां पुरतः स्थितः ।
पठंस्तीर्थावलिं पुण्यां गयाश्राद्धप्रदो भवेत् ॥१११॥
पूजाकाले च देवानां श्रद्धया पुरतः पठन् ।
प्रीणयेत्सर्वदेवांश्च पुनाति सकलं कुलम् ॥११२॥
एवं तीर्थावलिः पुण्या रेवातीरद्वयाश्रिता ।
मया प्रोक्ता मुनिश्रेष्ठास्तथैवशृणुतानघाः ॥११३॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे तीर्थावलिकथनं त्रिंशदधिकद्विशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 17, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP