रेवा खण्डम् - अध्याय १५
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
श्रीमार्कण्डेय उवाच -
ततो मातृसहस्रैश्च रौद्रैश्च परिवारिता ।
कालरात्रिर्जगत्सर्वं हरते दीप्तलोचना ॥१॥
ततस्ता मातरो घोरा ब्रह्मविष्णुशिवात्मिकाः ।
वाय्विन्द्रानलकौबेरा यमतोयेशशक्तयः ॥२॥
स्कन्दक्रोडनृसिंहानां विचरन्त्यो भयानकाः ।
चक्रशूलगदाखड्गवज्रशक्त्यृष्टिपट्टिशैः ॥३॥
खट्वाङ्गैरुल्मुकैर्दीप्तैर्व्यचरन्मातरः क्षये ।
उमासंनोदिता सर्वाः प्रधावन्त्यो दिशो दश ॥४॥
तासां चरणविक्षेपैर्हुङ्कारोद्गारनिस्वनैः ।
त्रैलोक्यमेतत्सकलं विप्रदग्धं समन्ततः ॥५॥
हाहारवाक्रन्दितनिस्वनैश्च प्रभिन्नरथ्यागृहगोपुरैश्च ।
बभूव घोरा धरणी समन्तात्कपालकोशाकुलकर्बुराङ्गी ॥६॥
यदेतच्छतसाहस्रं जम्बूद्वीपं निगद्यते ।
सर्वमेव तदुच्छन्नं समाधृष्य नृपोत्तम ॥७॥
जम्बुं शाकं कुशं क्रौञ्चं गोमेदं शाल्मलिस्तथा ।
पुष्करद्वीपसहिता ये च पर्वतवासिनः ॥८॥
ते ग्रस्ता मृत्युना सर्वे भूतैर्मातृगणैस्तथा ।
महासुरकपालैश्च मांसमेदोवसोत्कटैः ॥९॥
रुधिरोद्गारशोणाङ्गी महामाया सुभीषणा ।
पिबन्ती रुधिरं तत्र महामांसवसाप्रिया ॥१०॥
कपालहस्ता विकटा भक्षयन्ती सुरासुरान् ।
नृत्यन्ती च हसन्ती च विपरीता महारवा ॥११॥
त्रैलोक्यसंत्रासकरी विद्युत्संस्फोटहासिनी ।
सप्तद्वीपसमुद्रान्तां भक्षयित्वा च मेदिनीम् ॥१२॥
ततः स्वस्थानमगमद्यत्र देवो महेश्वरः ।
नर्मदातीरमाश्रित्यावसन्मातृगणैः सह ॥१३॥
अमराणां कटे तुङ्गे नृत्यन्ती हसितानना ।
अमरा देवताः प्रोक्ताः शरीरं कटमुच्यते ॥१४॥
तैः कटैरावृतो यस्मात्पर्वतोऽयं नृपोत्तम ।
छिन्नभिन्नास्थिनिकरैर्वसामेदोऽस्रविप्लुतैः ॥१५॥
अमरंकट इत्येवं तेन प्रोक्तो मनीषिभिः ।
महापवित्रो लोकेषु शम्भुना स विनिर्मितः ॥१६॥
नित्यं संनिहितस्तत्र शङ्करो ह्युमया सह ।
ततोऽहं नियतस्तत्र तस्य पादाग्रसंस्थितः ॥१७॥
प्रह्वः प्रणतभावेन स्तौमि तं नीललोहितम् ।
ततस्तालकसम्पातैर्गणैर्मातृगणैः सह ॥१८॥
संप्रनृत्यति संहृष्टो मृत्युना सह शङ्करः ।
खट्वाङ्गैरुल्मुकैश्चैव पट्टिशैः परिघैस्तथा ॥१९॥
मांसमेदोवसाहस्ता हृष्टा नृत्यन्ति संघशः ।
वामना जटिला मुण्डा लम्बग्रीवोष्ठमूर्द्धजाः ॥२०॥
महाशिश्नोदरभुजा नृत्यन्ति च हसन्ति च ।
विकृतैराननैर्घोरैरर्भुजोल्बणमुखादिभिः ॥२१॥
अमरं कण्टकं चक्रुः प्राप्ते कालविपर्यये ।
तेषां मध्ये महाघोरं जगत्सन्त्रासकारणम् ॥२२॥
मृत्युं पश्यामि नृत्यन्तं तडित्पिङ्गलमूर्द्धजम् ।
तस्य पार्श्वे स्थितां देवीं विमलाम्बरभूषिताम् ॥२३॥
कुण्डलोद्घुष्टगण्डां तां नागयज्ञोपवीतिनीम् ।
विचित्रैरुपहारैश्च पूजयन्तीं महेश्वरम् ॥२४॥
अपश्यं नर्मदां तत्र मातरं विश्ववन्दिताम् ।
नानातरङ्गां सावर्तां सुवेलार्णवसंनिभाम् ॥२५॥
महासरःसरित्पातैरदृश्यां दृश्यरूपिणीम् ।
वन्द्यमानां सुरैः सिद्धैर्मुनिसङ्घैश्च भारत ॥२६॥
एतस्मिन्नन्तरे घोरां सप्तसप्तकसंज्ञिताम् ।
महावीच्यौघफेनाढ्यां कुर्वन्तीं सजलं जगत् ॥२७॥
दृष्टवान्नर्मदां देवीं मृगकृष्णाम्बरां पुनः ।
सधूमाशनिनिर्ह्रादैर्वहन्तीं सप्तधा तदा ॥२८॥
इति संहारमतुलं दृष्टवान्राजसत्तम ।
नष्टचन्द्रार्ककिरणमभूदेतच्चराचरम् ॥२९॥
महोत्पातसमुद्भूतं नष्टनक्षत्रमण्डलम् ।
अलातचक्रवत्तूर्णमशेषं भ्रामयंस्ततः ॥३०॥
विमानकोटिसंकीर्णः स किंनरमहोरगः ।
महावातः सनिर्घातो येनाकम्पच्चराचरम् ॥३१॥
रुद्रवक्त्रात्समुद्भूतः संवर्तो नाम विश्रुतः ।
वायुः संशोषयामास विततन् सप्तसागरान् ॥३२॥
उद्धूलिताङ्गः कपिलाक्षमूर्द्धजो जटाकलापैरवबद्धमूर्द्धजः ।
महारवो दीप्तविशालशूलधृक्स पातु युष्मांश्च दिने दिने हरः ॥३३॥
शूली धनुष्मान्कवची किरीटी श्मशानभस्मोक्षितसर्वगात्रः ।
कपालमालाकुलकण्ठनालो महाहिसूत्रैरवबद्धमौलिः ॥३४॥
स गोनसौघैः परिवेष्टिताङ्गो विषाग्निचन्द्रामरसिन्धुमौलिः ।
पिनाकखण्टूवाङ्गकरालपाणिः स कृत्तिवासा डमरुप्रणादः ॥३५॥
स सप्तलोकान्तरनिःसृतात्मा महभुजावेष्टितसर्वगात्रः ।
नेत्रेण सूर्योदयसन्निभेन प्रवालकाङ्कूरनिभोदरेण ॥३६॥
सन्ध्याभ्ररक्तोत्पलपद्मरागसिन्दूरविद्युत्प्रकरारुणेन ।
ततेन लिङ्गेन च लोचनेन चिक्रीडमानः स युगान्तकाले ॥३७॥
हिरण्मयेनैव समुत्सृजन् स दण्डेन यद्वद्भगवान् समेरुः ।
पादाग्रविक्षेपविशीर्णशैलः कुर्वञ्जगत्सोऽपि जगाम तत्र ॥३८॥
संहर्तुकामस्त्रिदिवं त्वशेषं प्रमुञ्चमानो विकृताट्टहासम् ।
जहार सर्वं त्रिदिवं महात्मा संक्षोभयन्वै जगदीश एकः ॥३९॥
तं देवमीशानमजं वरेण्यं दृष्ट्वा जगत्संहरणं महेशम् ।
सा कालरात्रिः सह मातृभिश्च गणाश्च सर्वे शिवमर्चयन्ति ॥४०॥
नन्दी च भृङ्गी च गणादयश्च तं सर्वभूतं प्रणमन्ति देवम् ।
जागद्वरं सर्वजनस्य कारणं हरं स्मरारातिमहर्निशं ते ॥४१॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये सृष्टिसंहरणसंरम्भवर्णनं नाम पञ्चदशोऽध्यायः ॥
N/A
References : N/A
Last Updated : December 08, 2024
TOP