व्यवहारचातुर्ययोगः- शौनकीयनीतिसारः
सु ( स्व) पूरा चै कापुरुषाः सु ( स्व ) पुरो मूषिकाञ्जलिः ||
असन्तुष्ट: कापुरुष: स्वल्पकेनापि तुष्यति ॥ ३८॥
अभ्रच्छाया तृणादग्निर्नीचसेवा पथो जलम् ॥
वेश्यारागः खले प्रीतिः षडेते बुद्बुदोपमाः ॥३९॥
वाचा विहितसार्थेन लोको न च सुखायते ॥
जीवितं मानमूलं हि माने म्लाने कुतः सुखम् ॥४०॥
अबलस्य बलं राजा बालस्य रुदितं बलम् ॥
बलं मूर्खस्य मौनत्वं तस्करस्यानृतं बलम् ॥४१॥
यथा यथा हि पुरुषः शास्त्रं समधिगच्छति ॥
तथा तथास्य मेधा स्याद्विज्ञानं चास्य रोचते ॥४२॥
यथा यथा हि पुरुष: कल्याणे कुरुते मतिम् ॥
तथा तथा हि सर्वत्र श्लिष्यते लोकसुप्रियः ॥४३॥
लोभप्रमाद विश्वासैः पुरुषो नश्यति त्रिभिः ॥
तस्माल्लोभो न कर्त्तव्यः प्रमादो नो न विश्वसेत् ॥४४॥
तावद्भयस्य भेत्तव्यं यावद्भयमनागतम् ॥
उत्पन्ने तु भये तीव्रे स्थातव्यं वै ह्यभीतवत् ॥४५॥
ऋणशेषं चाग्निशेषं व्याधिशेष तथैव च ॥
पुनः पुनः प्रवर्द्धन्ते तस्माच्छेष न कारयेत् ॥४६॥
कृते प्रतिकृतं कुर्याद्धसिते प्रतिहिसितम् ॥
न तत्र दोषं पश्य
दुष्टे दोषं समाचरेत् ॥४७॥
परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् ॥
वर्जयेत्तादृशं मित्रं मायामयमर तथा ॥४८॥
दुर्जनस्य हि सङ्गेन सुजनोऽपि विनश्यति ॥
प्रसन्नमपि पानीय कर्दमै: कलुषीकृतम् ॥४९॥
स भुङ्क्ते सद्विजो भुङ्क्ते समशेषनिरूपणम् ॥
तस्मात्सर्वप्रयत्नेन द्विजः पूज्य: प्रयत्नतः ॥५०॥
तद्भुज्यते यदद्विजभुक्तशेषं
स बुद्धिमान्यो न करोति पापम् ॥