का व्य यो गः – सावित्र्युपाख्याने वनदर्शनम्
पुनस्तां च समाकृष्य शय्यायां च निवेश्य ह ||
चकार रहितां राधां कबरीबन्धवाससा ॥ १५५ ॥
निर्जने कौतुकात्कृष्णः कामशास्त्र विशारदः ||
चूडावेषांशुकैर्हीनं चकार तं च राधिका ॥ १५६ ॥
न कस्य कस्माद्धानिश्च तौ द्वौ कार्यविशारदौ ॥
जग्राह राधाहस्तात्तु माघवो रत्नदर्पणम् ॥ १५७ ॥
मुरली माधवकराज्जग्राह राधिका बलात् ||
चित्तापहारं राधायाश्चकार माधवो बलात् ॥ १५८ ।।
जहार राधिका रासान्माधवस्यापि मानसम् ||
निवृत्ते कामयुद्धे च सस्मिता वक्रलोचना ॥ १५९ ॥
प्रददौ मुरलीं प्रोत्या श्रीकृष्णाय महात्मने ॥
प्रददौ दर्पणं कृष्ण: क्रीडाकमलमुज्ज्वलम् ॥ १६० ॥
चकार कबरों रम्यां सिन्दूरतिलकं ददौ ||
विचित्रपत्रक वेषं चकारैवंविधं हरिः ॥ १६१ ॥
विश्वकर्मा न जानाति सखीनामपि का कथा ॥
वेषं विवातुं कृष्णस्य यदा राधा समुद्यता ॥ १६२ ॥
११७
४. सावित्र्युपाख्याने वनदर्शनम्
[There is not even a single soul in India who does not
know the episode of Savitri, the daughter of King Aśvapati.
Savitrī married Satyavān, the son of King Dyumatsena,
who had lost his kingdom. Satyavān went to a forest for
fetching fuel. Savitri followed him. The former gives an
interesting description how all the animal couples in nature
are enjoying life.]
[ चतुर्थेऽहनि मर्तव्यं तथा सत्यवता द्विजाः ॥
श्वशुरेणाभ्यनुज्ञाता तदा राजसुताऽपि सा ॥ १७ ॥
चक्रे त्रिरात्रं धर्मज्ञा प्राप्ते तस्मिस्तदा दिने ।
दारुपुष्पफलाहारी सत्यवांस्तु ययौ वनम् ॥ १८ ॥