स्तो त्र यो गः - शिवस्तवः
त्वत्पादपद्मस्मरणादशेषसंसारबीजं निलयं प्रयाति ॥
मनो नियम्य प्रणिधाय कायं प्रसादयामो वयमेकमीशम् ॥ ३९ ॥
नमो भवायाथ भवोद्भवाय कालाय सर्वाय हराय तुभ्यम् ||
नमोऽस्तु रुद्राय कर्पादने ते नमोऽग्नये देव नमः शिवाय ॥ ४० ॥
३३. शिवस्तवः
( कूर्म, पूर्वार्ध, ३३ )
१९५
शंकुकर्ण उवाच -
नमामि नित्यं परतः परस्ताद्गोप्तारमेकं पुरुषं पुराणम् ॥
व्रजामि योगेश्वरमीशितारमादित्यमग्नि कलिलाधिरूढम् ॥ ३६॥
त्वां ब्रह्मपारं हृदि सन्निविष्टं हिरण्मयं योगिनमादिहोनम् ॥
व्रजामि रुद्रं शरणं दिविस्थं महामुनि ब्रह्मपरं पवित्रम् ।। ३७ ।।
सहस्रपादाक्षिशिरो भियुक्तं सहस्रबाहुं तमसः परस्तात् ॥
त्वां ब्रह्मपारं प्रणमामि शम्भुं हिरण्यगर्भाघिपति त्रिनेत्रम् ॥ ३८ ॥
यतः प्रसूतिर्जगतो विनाशो येनाहृतं सर्वमिदं शिवेन ॥
तं ब्रह्मपारं भगवन्तमीशं प्रणम्य नित्यं शरणं प्रपद्ये ॥ ३९ ॥
अलिङ्गमालोकविहीनरूपं स्वयं प्रभुं चित्प्रतिर्मकरुद्रम ||
तं ब्रह्मवार परमेश्वरं त्वां नमस्करिष्ये न यतोऽन्यदस्ति || ४० ।।
यं योगिनस्त्यक्तस बीजयोगाल्लब्ध्वा समाधि परमात्मभूताः ॥
पश्यन्ति देवं प्रणतोऽस्मि नित्यं तद्ब्रह्मपारं भवतः स्वरूपम् ॥४१॥
न यत्र नामानि विशेषतृप्तिनं संदृशे तिष्ठति यत्स्वरूपम् ||
तं ब्रह्मपारं प्रणतोऽस्मि नित्यं स्वयंभुवं त्वां शरणं प्रपद्ये ॥ ४२ ॥
यद्वेदवेदाभिरता विदेहं स ब्रह्मविज्ञानमभेदमेकम् ॥
पश्यन्त्यनेकं भवतः स्वरूपं तद्ब्रह्मपारं प्रणमामि नित्यम् ॥ ४३ ॥
यतः प्रधानं पुरुषः पुराणो विवर्त्तते यं प्रणमन्ति देवाः ॥
नमामि तं ज्योतिषि संनिविष्टं कालं बृहन्तं भवतः स्वरूपम् ॥ ४४ ॥
व्रजामि नित्यं शरणं महेशं स्थाणुं प्रपद्ये गिरिशं पुराणम् ॥
शिवं प्रपद्ये हरमिन्दुमौलि पिनाकिनं त्वां शरणं व्रजामि ॥ ४५ ॥