११२
पुराणकाव्यस्तोत्रसुधा |
अनुग्रहाय भूतानां मानुषं देहह्मास्थितः ॥
भजते तादृशी: क्रीडा यः श्रुत्वा तत्परो भवेत् ॥ ३७ ॥
नासूयन्खलु कृष्णाय मोहितास्तस्य मायया ||
मन्यमानाः स्वपाश्र्वस्थान् स्वात् स्वान् दारान् व्रजौकसः ॥ ३८ ॥
ब्रह्मरात्र उपावृत्ते वासुदेवानुमोदिताः
अनिच्छन्त्यो ययुर्गोप्यः स्वगृहान्भगवत्प्रियाः ॥ ३९ ॥
विक्रीडितं व्रजवधूभिरिदं च विष्णोः
श्रद्धान्वितोऽनुशृणुयादथ वर्णयेद्यः ||
भक्ति परां भगवति प्रतिलभ्य कामं
हृद्रोगमाश्वपहिनोत्यचिरेण धीरः ॥ ४० ॥
३. राधाकृष्णलीला
( ब्रह्मवैवर्त, द्वि. भा., अ. १५ )
[ Rādha picks up the child Krisna from the shoulders of
Nanda. After a while, Krisna assumes an elderly form.
Here is a graphic description of their love scene. ]
राधावर्णनम् -
एकदा कृष्णसहितो नन्दो वृन्दावनं ययौ ॥
तत्रोपवनभाण्डोरे चारयामास गोधनम् ॥ १ ॥
सरःसु स्वादुतोयं च पाययामास तत्पपौ ॥
उवास वृक्षमूले च बालं कृत्वा स्ववक्षसि ॥ २ ॥
एतस्मिन्नंतरे कृष्णो मायामानुषविग्रहः ॥
चकार माययाऽकस्मान्मेघाच्छन्नं नभो मुने ॥ ३॥
मेघावृतं नभो दृष्ट्वा श्यामलं काननान्तरम् ||
झञ्झावातं मेघशब्दं वज्रशवं च दारुणम् ॥ ४ ॥
बृष्टिधारामतिस्थूलां कम्पमानश्च पादपान् ॥
दृष्ट्वैत्रं पतितस्कन्धानंदो भयमवाप ह ॥ ५ ॥