— श्रीरघुनाथ वर्णनम्
स्तो त्र यो गः—
कथा विशुद्धा नरनाथ तथ्यास्ता एव पथ्या हरिभक्तकथ्याः ||
सड़की ते यासु पवित्र कीर्तिविशुद्धमूर्तिनिजदत्तभक्तिः ॥ २९॥
धन्योऽसि धीर धरणीधर धर्मधुर्य ध्यानैकतानहृदयः पुरुषोत्तमस्य ||
यन्नैष्ठिकी मतिरसौ तव सौभगश्रीः श्रीकृष्णचन्द्र सुकृतश्रवणे प्रवृत्ता ||३०||
नातः परं परमतोषविशेषपोषं पश्यामि पुण्यमुचितं च परस्परेण ||
सन्तः प्रसज्य यदनन्तगुणाननन्तश्रेयोनिधीनधिकभावजुषो भजन्ति ||३४||
Ibid, अ. ८५.
यत्कृष्ण प्रणिपातधूलिधवलं तद्वर्ष्म तद्वच्छुभं
नेत्रे चेत्तपसोजिते सुरुचिरे याभ्यां हरिदृश्यते ॥
सा बुद्धिविमलेन्दुशङ्खधवला या माधवव्यापिनी
सा जिह्वा मृदुभाषिणी नृप मुहुर्या स्तौति नारायणम् ॥
भजध्वं गोविन्दं नमत हरिमेकं सुरवरं
गमिष्यध्वं लोकानतिविमलभोगानतितराम् ||
शृणुध्वं हे लोका वदत हरिनामैकमतुलं
यदीच्छावीचीनां सुखतरण मिष्टानि लभत ॥ २६॥
२६९
Ibid, ९०.
Ibid, आदिखण्ड, अ. २८
एतावताउलमघ निर्हरणाय पुंसां संकीर्तनं भगवतो गुणकर्मनाम्नाम् ||
विक्रुरूप पुत्रमघवान्यदजामिलोऽपि नारायणेति म्रियमाण इयाय मुक्तिम् ||
Ibid, ३१.
घ्यायन्तो ध्याननिष्ठाः सुरनरमनवो योगिनो योगरूढाः
सन्तः स्वप्नेऽपि सन्तं कतिकतिजनिभियं न पश्यन्ति तप्त्वा ॥
ध्याये स्वेच्छामयं तं त्रिगुणपरमहो निर्विकारं निरीहं
भक्त्या ध्यानैकहेतोनिरुपम रुचिरश्यामरूपं दधानम् ॥३॥
श्रीरघुनाथवर्णनम्
पद्मकोश इव शोभनं मुखं पङकजाभनयने सुदीर्घके ॥
उन्नतापृथुमनोहरानसं वल्गुसंगतमनोहरे भ्रुवौ ||३६॥
ब्रह्मवैवर्त, ब्रह्मखण्ड, १.