१०२
पुराणकाव्यस्तोत्रसुधा ।
कच्चित्कुरुबकाशोकनागपुन्नागचम्पकाः ॥
रामानुजो मानिनीनामितो दर्पहरस्मितः ॥ ६॥
कच्चित्तुलसि कल्याणि गोविन्दचरणप्रिये ॥
सह त्वालिकुलैबिभ्रद् दृष्टस्तेऽतिप्रियोऽच्युतः ॥ ७ ॥
मालत्यदशि वः कच्चिन्मल्लिके जाति यूथिके ॥
प्रीति वो जनयन्यातः करस्पर्शेन माधवः ॥ ८ ॥
चूतप्रियालपनसासनकोविदार--
जम्ब्वर्कबिल्वबकुलाम्र कदम्बनीपाः ॥
येऽन्ये परार्थभवका यमुनोपकूला:
शंसन्तु कृष्णपदवीं रहितात्मनां नः ॥ ९॥
कि ते कृतं क्षिति तपो बत केशवांघ्रि-
स्पर्शोत्सवोत्पुलकिताङ्गरु विभासि ||
अप्यंघ्रिसंभव उरुक्रमविक्रमाद्वा
आहो वराहवपुषः परिरम्भणेन ॥ १०॥
अप्येणपत्न्युपगतः प्रिययेह गात्रै-
स्तन्वन् दृशां सखि सुनिर्वृतिमच्युतो वः ॥
कान्ताङ्गसङ्गकुचकुङ्कुमरञ्जितायाः
कुन्दस्रजः कुलपतेरिह वाति गन्धः ॥ ११ ॥
बाहुं प्रियांस उपधाय गृहीतपद्मो
रामानुजस्तुलसिकालिकुलैर्मदान्धैः ॥
अन्वीहमान इह वस्तरवः प्रणामं
कि वाभिनन्दति चरन्प्रणयावलोकै: ॥ १२ ॥
पृच्छतेमा लता बाहूनप्याश्लिष्टा वनस्पतेः ॥
नूनं तत्करजस्पृष्टा बिभ्रत्युत्पुलकान्यहो ॥ १३ ॥
इत्युन्मत्तवचो गोप्यः कृष्णान्वेषणकातराः ॥
लोला भगवतस्तास्ता ह्यनुचक्रुस्तदात्मिकाः ॥ १३ ॥
कस्याश्चित्पूतनावन्त्याः कृष्णायन्त्यपिबत्स्तनम् ॥
तोकायित्वा रुदत्यन्या पदाऽहञ्शकटायतीम् ॥ १५ ॥