पुराणकाव्यस्तोत्रसुधा ।
३४. शङ्करस्तोत्रम्
( पद्म, सृष्टिखण्ड, २८ )
श्रीरामोवाच -
कृत्स्नस्य योऽस्य जगतः सचराचरस्य कर्ता कृतस्य च तथा सुखदुःखहेतुः ॥
संहारहेतुरपि यः पुनरन्तकाले तं शकरं शरणदं शरणं व्रजामि ।। १५७ ।।
यं योगिनो विगतमोहतमोरजस्का भक्त्यैकतानमनसो विनिवृत्तकामाः ||
घ्यायन्ति निश्चलधियोऽमितदिव्यभावं तं शंकरं शरणदं शरणं व्रजामि ॥
यश्चेन्दुखण्डममलं विलसन्मयूखं बद्ध्वा सदा प्रियतमां शिरसा बिभति ॥
यश्चार्धदेहमददागिरिराजपुत्र्यं तं शंकरं शरणदं शरणं व्रजामि ॥ १५९ ॥
योऽयं सकृद्विमलचारुविलोलतोयां गऊगां महोभिविषमां गगनात्पतन्तीम् ॥
मूर्ध्नाssददे स्रजमिव प्रतिलोलपुष्पां तं शंकरं शरणदं शरणं व्रजामि ||१६०||
कैलासशैलशिखरं प्रति कम्प्यमानं कैलासशृङ्गसदृशेन दशाननेन ||
यः पादपद्मपरिवादनमादधानस्तं शंकरं शरणदं शरणं व्रजामि ॥१६१॥
येनासकृद्दितिसुताः समरे निरस्ता विद्याधरोरगगणाश्च वरैः समप्राः ॥
संयोजिता मुनिवरा: फलमूलभक्षास्तं शंकरं शरणदं शरणं व्रजामि ||१६२||
दग्ध्वाऽध्वरं च नयने च तथा भगस्य पूष्णस्तथा दशनपंक्तिमपातयच्च ॥
तस्तम्भ यः कुलिशयुक्तमहेन्द्रहस्तं तं शंकरं शरणदं शरणं व्रजामि ||१६३||
एनस्कृतोऽपि विषयेष्वपि सक्तभावा ज्ञानान्वयश्रुतगुणैरपि नैव युक्ताः ||
यं संश्रिताः सुखभुजः पुरुषा भवन्ति तं शंकरं शरणद शरणं व्रजामि ॥१६४॥
अत्रिप्रसूतिरविकोटिसमानतेजाः संत्रासनं विबुधदानवसत्तमानाम् ॥
यः कालकूटमपिबत्समुदीर्णवेगं तं शंकरं शरणदं शरणं व्रजामि ॥ १६५ ॥
ब्रह्मेन्द्र रुद्रमरुतां च सषण्मुखानां योऽदाद्वरांश्च बहुशो भगवान्महेशः ॥
नन्द च मृत्युवदनात्पुनरुज्जहार तं शंकरं शरणदं शरणं व्रजामि ॥ १६६ ॥
आराधितः सुतपसा हिमवनिकुञ्ज घूमव्रतेन मनसाऽपि परैरगम्यः ||
संजीविनों समददाडू, गवे महात्मा तं शंकरं शरणदं शरणं व्रजामि ॥ १६७ ॥
नानाविधैर्गजबिडालसमानवक्त्रं दक्षाध्वरप्रमथने बेलिभिर्गणोघैः ॥
योऽभ्यचंतेऽमरगणैश्च सलोकपालस्तं शंकरं शरणदं शरणं व्रजामि ॥१६८॥