काव्य यो गः – पूर्वंचित्तिवर्णनम्
१७. पूर्वचित्तिवर्णनम्
( भागवत, ५, २. )
१४३
[ Agnidhra, waking up from his penance, addresses the
Apsarās Pürvacītti.]
का त्वं चिकीर्षसि च कि मुनिवर्य शैले मायासि कापि भगवत्परदेवतायाः ॥
विज्ये विभषि धनुषी सुहृदात्मनोऽर्थे कि वा मृगान् मृगयसे विपिने प्रमत्तान् ॥
बाणाविमौ भगवतः शतपत्रपत्रौ शांतावपुङ्ख रुचिराव तितिग्मदन्तौ ||
कस्मं युयुंक्षसि वने विचरन विद्मः क्षेमाय नो जडधियां तव विक्रमोऽस्तु ॥८॥
शिष्या इमे भगवतः परितः पठन्ति गायन्ति साम सरहस्यमजस्त्रमोशम् ॥
युष्मच्छिखाविलुलिताः सुमनोऽभिवृष्टीः सर्वे भजन्त्यृषिगणा इव वेदशाखाः ॥
वाचं परं चरणपञ्जरतित्तिरीणां ब्रह्मन्नरूपमुखरां शृणवाम तुभ्यम् ॥
लब्बा कदम्बरुचि रजकविटङकबिम्बे यस्यामलातपरिधिः क्व च वल्कलं ते ॥
कि संभृतं रुचिरयोद्विज शृङ्गयोस्ते मध्ये कृशो वहसि यत्र दृशिः श्रिता ॥
पडकोऽरुणः सुरभिरात्मविषाण ईदृग् येनाश्रमं सुभग मे सुरभीकरोषि ॥११॥
लोकं प्रदर्शय सुहृत्तम तावकं मे यत्रत्य इत्यमुरसावयवावपूर्वी ॥
अस्मद्विधस्य मनउन्नयनौ बिर्भात बह्वद्भ तं तरसराससुधादि वक्त्रे |॥ १२ ॥
का वाऽऽत्मवृत्तिरदनाद्धविरङग वाति विष्णोः कलास्यनिमिषोन्मकरौ च कर्णौ ॥
उद्विग्नमीनयुगलं द्विजपंक्तिशोचिरासन्नभृङगनिकरं सर इन्मुखं ते ॥ १३ ॥
योऽसौ त्वया करसरोजहतः पतङगो दिक्षु भ्रमन् भ्रमत एजयतेऽक्षिणो मे ॥
मुक्तं न ते स्मरसि वॠजटावरूयं कष्टोऽनिलो हरति लम्पट एष नीवीम् ॥
रूपं तपोधन तपश्चरतां तपोघ्नं ह्येतत्तु केन तपसा भवतोपलब्धम् ||
चतुं तपोऽहंसि मया सह मित्र मह्यं कि वा प्रसीदति स वै भवभावनो मे ॥
न त्वां त्यजामि दयितं द्विजदेवदत्तं यस्मिन्मनो दृगपि नो न वियाति लग्नम् ॥
मां चारुहंसि नेतुमनुव्रतं ते चित्तं यतः प्रतिसरन्तु शिवाः सचिष्यः ॥१६॥