English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 200

Puran Kavya Stotra Sudha - Page 200

Puran Kavya Stotra Sudha - Page 200


स्तो त्र यो गः – विष्णुसहस्रनामस्तोत्रम्
श्रीकण्ठं वासुदेवं च नीलकण्ठं सदाशिवम् ||
नमस्ये शर्वमनघं गौरीशं लकुडेश्वरम् ॥ १८ ॥
मनोहरं च कृष्णेशं नमस्ये चक्रपाणिनम् ॥
यशोधनं महाबाहुं नमस्ये च कुश प्रियम् ॥ १९ ।।
भूघरं छादितगदं सुनेत्रं सुरशंसिनम् ॥
भद्राक्षं वीरभद्रं च नमस्ये शङ्कुर्काणिनम् ॥ २० ॥
वृषध्वजं महेशं च विश्वमित्रं शशिप्रभम् ॥
उपेन्द्रं च सगोविन्दं नमस्ये पडकजप्रियम् ॥ २१ ॥
सहस्रशिरसं देवं नमस्ये कुन्दमालिनम् ||
कालाग्नि रुद्रदेवेशं नमस्ये कृत्तिवाससम् ॥ २२ ॥
नमस्ये छागलेशं च नमस्ये पझकजासनम् ॥
सहस्राक्षं कोकनदं नमस्ये हरिशकरम् ॥ २३ ॥
अगस्त्यं गरुडं विष्णुं कपिलं ब्रह्मवाङ्मयम् ||
सनातनं च ब्रह्माणं नमस्ये ब्रह्मतत्परम् ॥ २४ ॥
अप्रतक्यं चतुर्बाहु सहस्रांशुं तपोमयम् ||
नमस्ये धर्मराजानं देव गरुडवाहनम् ॥ २५ ॥
सर्वभूतगतं शान्तं निर्मलं सर्वलक्षणम् ॥
महायोगिनमव्यक्तं नमस्ये पापनाशनम् ॥ २६ ॥
निरञ्जनं निराकारं निर्गुणं निलयं पदम् ||
नमस्ये पापहर्तारं शरण्यं शरणं व्रजे || २७ ॥
एतत्पवित्रं परमं पुराणं प्रोक्तं त्वगस्त्येन महर्षिणा च ||
धन्यं यशस्यं बहुपापनाशनं संकीर्तनात्स्मरणात्स्पर्शनाच्च ॥ २८ ॥
१८५
३१. विष्णुसहस्रनामस्तोत्रम्
( गरुड, पूर्वखण्ड, आचारकाण्ड, १५ )
[ ॐ अस्य श्रीविष्णुस्तोत्रनामस्तोत्रमन्त्रस्य मार्कण्डेय ऋषिः विष्णु-
देवता अनुष्टुप्च्छन्दः सर्वकामाप्त्यर्थे जपे विनियोगः ॥ अथ ध्यानम् ॥
सजलजलदनीलं दर्शितोदारशीलं करतलवृतशैलं वेणुवाद्ये रसालम् ||
व्रजजनकुलपालं कामिनीकेलिलोलं तरुणतुलसिमालं नौमि गोपालबालम् ॥]
२४

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP