व्यवहारचातुर्ययोगः–
बृहस्पतिनीतिसारः
लोकयात्रा भयं लज्जा दाक्षिण्यं दानशीलता ॥
पञ्च यत्र न विद्यन्ते न तत्र दिवसं वसेत् ॥ २७ ॥
कालविच्छ्रोत्रियो राजा नदी साधुञ्च पञ्चमः ॥
एते यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥ २८ ॥
नैकत्र परनिष्ठास्ति ज्ञानस्य किल शौनक |
सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कुत्रचित् ॥ २९ ॥
न सर्ववित्क विचदिहास्ति लोके
नात्यन्त मूर्खो भुवि चापि कश्चित् ॥
ज्ञानेन नीचोत्तममध्यमेन
योऽयं विजानाति स तेन विद्वान् ॥ ३० ॥
Ibid, अ. ११०.
अथ एकादशोत्तरशतत मोध्याय: (१११).
पार्थिवस्य तु वक्ष्यामि भृत्यानाञ्चैव लक्षणम् ॥
सर्वाणि हि महीपाल: सम्यजनित्यं परीक्षयेत् ॥ १॥
राज्यं पालयते नित्यं सत्यधर्मपरायणः ॥
निजित्य परसैन्यानि क्षिति धर्मेण पालयेत् ॥ २ ॥
पुष्पात्पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् ॥
मालाकार इवारण्ये न यथाङ्गारकारकः ॥ ३॥
दोग्धारः क्षीरभुञ्जाना विकृतं तन्न भुञ्जते ॥
परराष्ट्र महोपालैर्भोक्तव्यं न च दूषयेत् ॥ ४ ॥
नोऽध रिछन्द्यात्तु यो धेन्वाः क्षीरार्थी लभते पयः ॥
एवं राष्ट्रप्रयोगेण पीड्यमानं न वर्द्धते ॥ ५ ॥
तस्मात्सर्वप्रयत्नेन पृथिवीमनुपालयेत् ॥
पालकस्य भवेद् मिः कीत्तिरायुर्यशो बलम् ॥ ६॥
अभ्यर्च्य विष्णुं धर्मात्मा गोब्राह्मणहिते रतः ||
प्रजाः पालयितुं शक्तः पार्थिवो विजितेन्द्रियः ॥ ७ ॥
१. ' पुष्पं पुष्पं' इ. पा.