व्यवहारचातुर्ययोगः— क्रोधः
२५१ प्रायेणार्याः कदर्याणां न सुखाय कदाचन ॥
इह चात्मोपतापाय मृतस्य नरकाय च ॥ १५ ॥ Ibid, ११, २३.
आत्मदोष (३) - क्रोध :
२५२ यः परेषां नरो नित्यमतिवादांस्तितिक्षति ॥
देवयानि विजानीहि तेन सर्वमिदं जितम् ॥ १ ॥
२५३ यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा ॥
स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते ॥ २ ॥
२५४ यः समुत्पतितं क्रोधमकोधेन नियच्छति ॥
देवयानि विजानीहि तेन सर्वमिदं जितम् ॥ ३ ॥
२५५ यः समुत्पतितं क्रोधं क्षमयैव निरंस्यति ॥
यथोरगस्त्वचं जोर्णां स वै पुरुष उच्यते ॥ ४॥
२५६ यस्तु भावयते घर्मं योऽतिमात्रं तितिक्षति ॥
यश्च तप्तो न तपति भृशं सोऽयंस्य भाजनम् ॥ ५ ॥ मत्स्य, अ. २८.
अक्रोधनः क्रोधनेभ्यो विशिष्टः
२५७
२५८ आक्रोश्यमानी नाक्रोशेन्मन्युमेव तितिक्षति ॥
आकोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥ ७ ॥
नारुन्तुदस्यान्न नृशंसवादी
न हीनतः परमभ्याददीत ॥
ययास्य वाचा पर उद्विजेत
न तां वदेद्रुशत पापलौल्याम् ॥ ८ ॥
अरुन्तुदं पुरुषं तीव्रवाचं
वाक्कण्टकं विसुदन्तं मनुष्यम् ॥
विन्द्यादलक्ष्मीकतमं जनानां
मुखे निबद्धं निर्ऋति वहन्तम् ॥ ९ ॥
२५९
तथा तितिक्षु रतितिक्षोविशिष्टः ॥
अमानुषेभ्यो मानुषश्च प्रधानो
विद्वांस्तथैवाविदुषः प्रधानः ॥ ६ ॥
२६०
५७