२७०
पुराणकाव्यस्तोत्रसुधा ।
जानुलम्बितमनोहरी भुजौ कम्बुशोभिगलकोडह्रस्वकः ॥
सत्कपाटतल विस्तृतत्रिकं वक्ष एतदमलं सलक्ष्मकम् ॥३७॥
शोभनोरुकटिशोभया युतं जानुयुग्मममलं स्वसेवितम् ॥
पादपद्ममखिलॅनिजैः सदा सेवितं रघुपतेः सुशोभनम् ॥३८॥
Ibid, पातालखण्ड, अ. ५७.
भक्तियोगः (२) – योगीन्द्रहारस्तवः
( पद्म, भूमिखण्ड, अ. २० ).
सुव्रत उवाच -
ध्यायन्ति देवाः सततं मुरार यस्याङ्गमध्ये सकलं निविष्टम् ||
योगेश्वरं पापविनाशनं च भजे शरण्यं मधुसूदनाख्यम् ॥१६॥
लोकेषु यो हि सकलेषु विबोधितोऽपि यो लोकगश्च गुणिनो निवसन्ति यत्र ||
दोषविहीनमखिलं: परमेश्वरं तं सञ्चिन्त्य पादयुगलं सततं नमामि ||१७||
नारायणं गुणनिधानमनन्तवीर्यं वेदान्तशुद्ध मतयः प्रपठन्ति नित्यम् ||
संसारसागरमपारमनन्तदुर्गमुत्तारणार्थमखिलं शरणं प्रपद्ये ॥१८॥
योगीन्द्रमानससरोवरराजहंसं शुद्धं प्रभावमखिलं सततं हि यस्य ||
तस्यैव पादयुगलं ह्यमलं नमामि दीनस्य मेऽशुभभयात्कुरु देव रक्षाम् ॥ १९ ॥
लोकस्य पालनकृते परिणीतधर्मं सत्यान्वितं सकललोकगुरुं सुरेशम् ॥
गायाम्यहं सुरसगीतकतालमानैः श्रीवत्समेकमखिलं भुवनस्य देवम् ॥२०॥
घ्यायेऽखिलस्य भुवनस्य पति च देवं दुःखान्धकारदलनार्थमिहैव चन्द्रम् ॥
अज्ञाननाशक (म) मलं च दिनेशतुल्यमानन्दकन्दमखिलं महिमासमेतम् ||
संपूर्णमेवममृतस्य कलानिधानं तं गोतकौशलमनन्यरसेः प्रगाये ॥२१॥
युक्तं सुयोगकरणैः परमार्थदृष्टि विश्वं स पश्यति चराचरमेकमित्यम् ||
पश्यन्ति नैव यमिहाथ सुपापलोकास्तं केशवं शरण मेकमुपैमि नित्यम् ||२२||
भक्तियोगः (३).
(भागवत, ११, १४)
कृष्ण उवाच-
मय्यपितात्मनः सभ्य निरपेक्षस्य सर्वतः ॥
मयाऽऽत्मना सुखं यत्तत्कुतः स्यात् विषयात्मनाम् ॥ १२॥