१२८
पुराणकाव्यस्तोत्रमुधा |
यस्यास्तीररुहै: काशैः पूर्णचन्द्रांशुसंनिभैः ||
राजते विविधाकार रम्यं तोरं महाद्रुमैः ||
या सदा विविधैविप्रैर्देवैश्चापि निषेव्यते ॥ २२ ॥
या च सदा सकलौघविनाशं भक्तजनस्य करोत्यचिरेण ॥
याऽनुगता सरितां हि कदम्बर्याऽनुगता सततं हि मुनीन्द्रैः ॥ २३ ॥
या हि सुतानिव पाति मनुष्यान्या च युता सततं हिमसङघैः ||
या च युता सततं सुरवृन्दर्या च जनैः स्वहिताय श्रिता वै ॥ २४ ॥
युक्ता च केसरिगणैः करिवृन्दजुष्टा
संतानयुक्तसलिलापि सुवर्णयुक्ता ||
सूर्यांशुतापपरिवृद्धिविवृद्धशीता
शीतांशुतुल्ययशसा ददृशे नृपेण ॥ २५ ॥
८. शरद्वर्णनम्
(विष्णु, ५, १० )
[ Here is an example of exquisite poetry regarding the
description of the setting in of Winter. ]
पराशर उवाच
तयोविहरतोरेवं रामकेशवयोव्रजे ॥
प्रावृड् व्यतीता विकसत्सरोजा चाभवच्छरत् ॥ १ ॥
अवापुस्तापमत्यर्थं शफर्यः पल्वलोदके ||
पुत्रक्षेत्रादिसक्तेन ममत्वेन यथा गृही ॥ २ ॥
मयूरा मौनमातस्थुः परित्यक्तमदा वने ॥
असारतां परिज्ञाय संसारस्येव योगिनः ॥ ३ ॥
उत्सृज्य जलसर्वस्वं विमलास्सितमूर्त्तयः ॥
तत्यजुश्चाम्बरं मेघा गृहं विज्ञानिनो यथा ॥ ४ ॥
शरत्सूर्यांशुतप्तानि ययुश्शोषं सरांसि च ॥
बह्वालम्बममत्वेन हृदयानीव देहिनाम् ॥ ५ ॥