व्यवहारचातुर्ययोगः- इतस्तत:
धिग्जीवितं ज्ञातिपराजितस्य
धिग्जीवितं व्यर्थमनोरथस्य || ६५ ॥
६९५ कथं भुनक्ति स दिवा कथं रात्रौ स्वपित्यहो ॥
रहः शर्म कथं तस्य यथाभिभवनं रिपोः ॥६६॥ Ibid, काशीसं., १
१६. इतस्तत:
६९६ अवैष्णवो ह्तो विप्रो हतं श्राद्धमदक्षिणम् ॥
अब्रह्मण्यं हतं क्षेत्रमनाचारं हतं कुलम् ॥ १९ ॥
६९७ सदम्भश्च हतो धर्मः क्रोधेनैव हृतं तपः ॥
अदृढं च हतं ज्ञानं प्रमादेन हतं श्रुतम् ॥ २० ॥
६९८ गुर्वभक्ता हता नारी ब्रह्मचारी तया हतः ॥
अदीप्ताग्निर्हतो होत्रो हता बुद्धिरसाक्षिका ॥ २१ ॥
६९९ उपजीव्या हता कन्या स्वार्थे पाकक्रिया हता ||
शूद्रभिक्षाहतो यागः कृपणस्य हृतं वनम् ॥ २२ ॥
७०० अनभ्यासा हता विद्या हतो राजविरोधकृत् ॥
जीवनार्थं हतं तीर्थं जीवनार्थं हृतं व्रतम् ॥ २३ ॥
७०१ असत्या च हता वाणी तथा पैशुन्यवादिनी ॥
सन्दिग्धश्च हतो मन्त्रो व्यग्रचित्तो हतो जपः ॥ २४ ॥
७०२ हतमश्रोत्रियं दानं हतो लोकश्च नास्तिकः ॥
अश्रद्धया हतं सर्वं कृतं यत्पारलौकिकम् ॥ २५ ॥
इह लोको हतो नॄणां दारिद्रयेण यथा नृप ।
मनुष्याणां तथा जन्म माघस्तानं विना हतम् ॥ २६ ॥
पद्म, उत्तरखं, २४२ (आ)
७०३
७०४
द्वौ संमताविह मृत्यू दुरापौ
यद् ब्रह्मसंधारणया जितासुः ॥
कलेवरं योगरतो विजह्यात्
यदप्रणीर्वोरशये निवृत्तः ॥ ३४ ॥
७०५ काम: कोधश्च लोभश्च मदो मानस्तथैव च ॥
९५
हर्षश्च शत्रवो होते नाशाय कुमहीभृताम् ॥ १४ ॥
७०६ कामप्रसक्तमात्मानं स्मृत्वा पाण्डुं निपातितम् ॥
निवर्त्तयेत्तथा क्रोधादनुन्हावं हतात्मजम् ॥ १५ ॥
भागवत, ६, १०