पुराणकाव्यस्तोत्रसुधा ।
॥
रत्नभूषणसंयुक्तं यावकद्रवसंयुतम् ॥
मणीन्द्रशोभासंमुष्टसालक्तकपुनर्भवम् || २० ||
सद्रत्नसाररचितक्वणन्मञ्जीररञ्जितम्
रत्नकङ्ककणकेयूरचारुशङख विभूषिता ॥ २१ ॥
रत्नाङ्गुलीयनिकरर्वान्हशुद्धांशुकोज्ज्वला ||
चारुचम्पकपुष्पाणां प्रभामुष्टकलेवरा ॥ २२ ॥
सहस्रदलसंयुक्त क्रीडाकमलमुज्ज्वलम् ॥
श्रीमुखश्रीदर्शनार्थं बिभ्रती रत्नदर्पणम् ॥ २४ ॥
Rādha picks up Kriṣṇa from Nanda-
कृत्वा वक्षसि तं कामाच्छ्लेषं श्लेषं चुचुम्ब च ॥
पुलकांकितसर्वाङगी सस्मार रासमण्डलम् ॥ ३९ ॥
एतस्मिन्नन्तरे राधा मायासद्रत्नमण्डपम् ॥
ददर्श रत्नकलशशतेन च समन्वितम् ॥ ४० ॥
नानाविचित्रचित्राढ्यं चित्रकाननशोभितम् ॥
सिन्दूराकारमणिभिः स्तम्भसंघविरचितम् ॥ ४१ ॥
चन्दनःगुरुकस्तूरीकुङ्कुमद्रवयुक्तया ||
संयुक्तं मालतीमालासमूहपुष्पशय्यया ॥ ४२ ॥
नानाभोगसमायुक्तं दिव्यदर्पणसंयुतम् ||
मणीन्द्रमुक्तामाणिक्यमालाजालैविभूषितम् ॥ ॥ ४३ ॥
मणीन्द्रसाररचितकपाटन समन्वितम् ॥
भूषितं भूषितंर्वस्त्रैः पताकानिकरैर्वरैः ॥ ४४ ॥
कुडकुमाकारमणिभिः सप्तसोपानसंयुतम् ||
युक्तं षट्पदसंयुक्तैः पुष्पोद्यानं च पुष्पः ॥ ४५ ॥
सा देवी मण्डपं दृष्ट्वा जगामाभ्यन्तरं मुदा ॥
ददर्श तत्र ताम्बूलं कर्पूरादिसमन्वितम् ॥ ४६ ॥
जलं च रत्नकुम्भस्थं स्वच्छं शीतं मनोहरम् ॥
सुधामधुभ्यां पूर्णानि रत्नकुम्भानि नारद ॥ ४७ ॥
पुरुषं कमनीयं च किशोरं श्यामसुन्दरं ||
कोटिकन्दर्पलीलाभं चन्दनेन विभूषितम् ॥ ४८ ॥
११४