व्यवहारचातुर्ययोगः – धन-दारिद्र्यम्
७७
४८२ इह् लोके च धनिनां परोऽपि स्वजनायते ॥
स्वजनोऽपि दरिद्राणां कार्यार्थे दुर्जनायते ॥ ४४ ॥
४८३ अर्थेभ्यो हि विवृद्धेभ्यः संभृतेभ्यस्ततस्ततः ॥
प्रवर्तन्ते क्रियाः सर्वाः पर्वतेभ्यो यथापगाः ॥ ४५ ॥
४८४ पूज्यते यदपूज्योऽपि यदगम्योऽपि गम्यते ॥
वन्द्यते यदवन्द्योऽपि ह्यनुबन्धो धनस्य सः ॥ ४६॥
४८५ अशनादिन्द्रियाणीव स्युः कार्यायखिलानि ह ॥
सर्वस्मात्कारणाद्वित्तं सर्वसाधनमुच्यते ॥ ४७ ॥
४८६ अर्थार्थी सर्वलोकोऽयं श्मशानमपि सेवते ॥
जनितारमपि त्यक्त्वा निःस्वः संयाति दूरतः ॥ ४८ ॥ Ibid, १५५.
४८७ अर्थसंपद्विमोहाय विमोहो नरकाय च ॥
तस्मादर्थमनर्थं तं मोक्षार्थी दूरतस्त्यजेत् ॥ १४ ॥
४८८ यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदंर्भुवि ॥
आकाशे पक्षिभिश्चैव तथा सर्वत्र वित्तवान् ॥ १५ ॥
४८९ दोषहीनोऽपि धनवान्भूपालैः परिताप्यते ॥
दरिद्रः कृतदोषोऽपि सर्वत्र निरुपद्रवः ॥ १६ ॥
४९० लक्ष्म्या होनस्य लोकस्य लोकेऽस्मिन्व्यर्थतां व्रजेत् ॥ २४ ॥
४९१ मृतो नरो गतश्रीको मृतं राष्ट्रमराजकम् ।।
मृतमश्रोत्रिये दानं मृतो यज्ञस्त्वदक्षिणः ॥ २५ ॥
४९२ लक्ष्म्या होनस्य मर्त्यस्य बान्धवोऽपि विजायते ॥
प्रार्थयिष्यन्ति मां नूनं दृष्ट्वा तं चान्यतो व्रजेत् ॥ २६ ॥
४९३ धनहीनं नरं त्यक्त्वा कुलीनमपि चोत्तमम् ॥
गच्छति स्वजनोऽन्यत्र शुष्कं वृक्षमिवाण्डजाः ॥ २८ ॥
४९४ तत्कार्यकरणार्थाय दरिद्रोऽभ्येति चेद्गृहम् ॥
घनिनो भर्त्सयन्त्येनं समागच्छन्ति नान्तिकम् ॥ २९ ॥
४९५ कृपणोऽपि धनाढचश्चेदागच्छन्ति हि याचितुम् ॥
एष दास्यति मे किञ्चिदिति चित्ते नृणां भवेत् ॥ ३० ॥
lbid, १८५.