पुराणकाव्यस्तोत्रसुधा ।
२४१ [ शद्वजातमशेषं तु धत्ते शर्वस्य वल्लभा ॥
अर्थरूपं यदखिलं धत्ते मुग्धेन्दुशेखरः ॥ ]
[ इति वायुपुराणवचनमिति मल्लिनाथः
स्वटीकायां कथयति ( रघुवंश, १, १.) ]
७. आत्मदोषाः
२४२ आत्मदोर्षनियच्छन्ति सर्वे दुःखसुखे जनाः ॥
मन्ये दुश्चरितं तस्मिस्तस्येयं निष्कृतिः कृता ॥ ३० ॥ मत्स्य, २७.
आत्मदोष - (१) कामः
२४३ उप्यमानं बहुक्षेत्रं स्वयं निर्वीर्यतामियात् ||
न कल्पते पुनः सूत्या उप्तं बीजं च नश्यति ॥ ३३ ॥
२४४ एवं कामाशयं चित्तं कामानामतिसेवया ॥
विरज्येत यथा राजन्नाग्निवत्कामबिन्दुभिः ॥ ३४ ॥ भागवत, ७, ११.
२४५ काम एष महाशत्रुस्तमेकं निर्जयेदृढम् ||
जितकामा महात्मानस्तैर्जितं निखिलं जगत् ॥ २१ ॥
२४६ एतच्च तपसो मूलं तपसो मूलमेव च ॥
सर्वदा कामविजयः सङकल्पविजयस्तथा ॥ २२ ॥
स्कांद, नागरखं., २३९.
आत्मदोष–(२) कृपणः
२४७ न वेद कृपणः श्रेय आत्मनो गुणवस्तुदृक् ॥
तस्य तानिच्छतो यच्छेद्यदि सोऽपि तथाविधः ॥ ४९ ॥
२४८ स्वयं निःश्रेयसं विद्वान्न वक्त्यज्ञाय कर्म हि ॥
न राति (दाति ?) रोगिणोऽपथ्यं वाञ्छतो हि भिषक्तमः ॥ ५० ॥
भागवत, ६, ९.
२४९ कि दुःसहं न साधूनां विदुषां किमपेक्षितम् ॥
किमकार्य कदर्याणां दुस्त्यजं कि घृतात्मनाम् ॥ ५८ ॥
२५० हित्वाऽन्यान्भजते यं श्रीः पादस्पर्शाशिया सकृत् ॥
आत्मदोषापवर्गेण तद्याञ्चा जनमोहिनी ॥ ४६॥
Tbid, १०, १.
Ibid, १०, २३.