पुराणकाव्यस्तोत्रसुवा ।
क्वचिद्रजतपर्णाभेः क्वचिद्विद्रुमसंनिभैः ॥
क्वचित्काञ्चनसङकाशेः पुष्परा चितभूतलम् ॥ ४२ ॥
पुन्नागेषु द्विजगणविरुतं रक्ताशोकस्तबकभरनमितम् ॥
रम्योपान्तश्रमहरपवनं फुल्लाब्जेषु भ्रमरविलसितम् ॥ ४३ ॥
सकलभुवनभर्त्ता लोकनायस्तदानीं तुहिनशिखरिपुत्र्याः सार्धमिष्टैर्गणेशैः ॥
विविधतरुविशालं मत्तहृष्टान्यपुष्टमुपवनतरुरम्यं दर्शयामास देव्याः || ४४
देव्युवाच –
उद्यानं दर्शितं देव शोभया परया युतम् ॥ ४५ ॥
१३४
११. देवासुरसङ्ग्रामे रणवर्णनम्
( मत्स्य, १५३ )
[ The after-effects of a battle.]
तैरस्त्रैर्दानवैर्मुक्तैर्देवानोकेषु भीषणैः ॥
बाहुभिर्धरणिः पूर्णा शिरोभिश्च सकुण्डलः || १३४ ॥
उरुभिर्गजहस्ताभैः करीन्द्रैर्वाञ्चलोपमैः ॥
भग्नेषादण्डचक्राक्षं रथेः सारथिभिः सह ॥ १३५ ।।
दुःसंचाराऽभवत्पृथ्वी मांसशोणितकर्दमा ॥
रुघिरौघहदावर्ता शवराशिशिलोच्चयैः ।। १३६ ॥
कबन्धनृत्यसङ्कुले स्रवद्वसास्त्रकर्दमे
जगत्त्रयोपसंहृतौ समे समस्तदेहिनाम् ||
शृगालगृध्रुवायसाः परं प्रमोदमादधुः
क्वचिद्विकृष्टलोचनः शवस्य रौति वायसः ॥ १३७ ।।
विकृष्टपोवरान्त्रकाः प्रयान्ति जम्बुकाः क्वचित्
क्वचित्स्थितोऽतिभोषण: इवचञ्चर्चावितो बकः ॥
मृतस्य मांसमाहरच्छ्वजातयश्च संस्थिताः
क्वचिद्वको गजासृजं पपौ निलोयतान्त्रतः ॥ १३८ ।
क्वचित्तुरङगमण्डली विकृष्यते श्वजातिभिः
क्वचित्पिशाचजातकैः प्रपोतशोणितासवैः ॥
स्वकामिनीयुतैद्भुतं प्रमोदमत्तसंभ्रम -
र्ममंतदानयाऽऽननं खुरोऽयमस्तु मे प्रियः ॥ १३९ ॥