- गोपीसान्त्वनम्
काव्य योगः-
काचित्कराम्बुजं शौरेजगृहेऽञ्जलिना मुदा ॥
काचिद्दवार तद्बाहुमंसे चन्दनरूषितम् ॥ ४ ॥
काचिदञ्जलिना गृह्णात्तन्वी ताम्बूलवतम् ॥
एका तदंत्रिकमलं संतप्ता स्तनयोरघात् ॥ ५ ॥
एका भ्रुकुटिमाबध्य प्रेमसंरम्भविह्वला ॥
घ्नतीवेक्षत्कटाक्षैपैः संदष्टदशनच्छदा ॥ ६॥
अपरानिमिषद्दृग्भ्यां जुषाणा तन्मुखाम्बुजम् ॥
आपीतमपि नातृप्यत्सन्तस्तच्चरणं यथा ॥ ७ ॥
तं का चिन्नेत्ररन्ध्रेण हृदिकृत्य निमील्य च ॥
पुलकाङग्युपगुह्यास्ते योगीवानन्दसंप्लुता ॥ ८ ॥
सर्वास्ता: केशवालोकपरमोत्सवनिर्वृताः ॥
जहुविरहजं तापं प्राज्ञं प्राप्य यथा जनाः ॥ ९ ॥
ताभिविधूतशोकाभिर्भगवानच्युतो वृतः ॥
व्यरोचिताधिकं तात पुरुषः शक्तिभिर्यथा ॥ १० ॥
ताः समादाय कालिन्या निविश्य पुलिनं विभुः ||
विकसत्कुन्दमन्दारसुरभ्यनिलषट्पदम् ॥ ११ ॥
शरच्चन्द्रांशुस दोहध्वस्तदोषातमः शिवम् ||
कृष्णाया हस्ततरलाचित कोमलवालुकम् ॥ १२ ॥
तद्दर्शनाह्लादविधूतहृदुजो मनोरथान्तं श्रुतयो यथा ययुः ॥
स्वंरुत्तरीयः कुचकुडकुमाङिकतै रची क्लृपन्ना सनमात्मबन्धवे ॥ १३ ॥
तत्रोपविष्टो भगवान्स ईश्वरो योगेश्वरान्तहृदि कल्पितासनः ॥
चकास गोपीपरिषद्गतोऽचितस्त्रैलोक्यलक्ष्म्येकपदं वपुर्दधत् ॥ १४ ॥
सभाजयित्वा तमनगदोपनं सहासलोलेक्षणविभ्रमभ्रुवा ॥
संस्पर्शने नाककृतांघ्रिहस्तयोः संस्तुत्य ईषत्कुपिता बभाषिरे ॥ १५ ॥
गोप्य ऊचु
भजतोऽनुभजन्त्येक एक एतद्विपर्ययम् ||
नोभयांश्च भजन्त्येक एतन्नो ब्रूहि साधु भोः ॥ १६ ॥
१०७