२७८
पुराणकाव्यस्तोत्रसुधा ।
स वाग्विसर्गो जनताघसम्प्लवो यस्मिन्प्रतिश्लोकमबद्धवत्यपि ॥
नामान्यनन्तस्य यशोङिकतानि यच्छृण्वन्ति गायन्ति गृणन्ति साधवः ॥५१॥
नैष्कर्म्य मप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्जनम् ॥
कुतः पुनः शश्वदभद्रमीश्वरे न ह्यपितं कर्म यदप्यनुत्तमम् ॥५२॥
यशः श्रियामेव परिश्रमः परो वर्णाश्रमाचारतपः श्रुतादिषु ||
अविस्मृतिः श्रीधरपादपद्मयोर्गुणानुवादश्रवणादिभिर्हरेः ॥ ५३॥
अविस्मृतिः कृष्णपदारविन्दयोः क्षिणोत्यभद्राणि शमं तनोति च ॥
सत्त्वस्य शुद्धि परमात्मभक्त ज्ञानं च विज्ञानविरागयुक्तम् ॥५४॥
यूयं द्विजाग्या बत भूरिभागा यच्छश्वदात्मन्यखिलात्मभूतम् ॥
नारामणं देवमदेवमीशमजत्रभावा भजताविवेश्य ॥५५॥
अहं च संस्मारित आमत्तत्त्वं श्रुतं पुरा मे परमषिवक्त्रात् ॥
प्रायोपवेशे नृपतेः परीक्षितः सदस्यृषीणां महतां च शृण्वताम् ॥५६॥
एतद्वः कथितं विप्राः कथनीयोरुकर्मणः ||
माहात्म्यं वासुदेवस्य सर्वाशुभ विनाशनम् ॥५७||
य एवं श्रावयेन्नित्यं यामक्षणमनन्यधीः ॥
श्रद्धावान् योऽनुश्रुणुयात् पुनात्यात्मानमेव सः ॥ ५८॥
८. विष्णुभक्तवर्णनम्
( विष्णु, ३, ७ )
"
यम उवाच -
न चलति निजवर्णधर्मतो यः सममतिरात्मसुहृद्विपक्षपक्षे ||
न हरति न च हन्ति किञ्चिदुच्चैः सितमनसं तमवेहि विष्णुभक्तम् ||२०|
कलिकलुषमलेन यस्य नात्मा विमलमतेर्मलिनीकृतस्तमेनम् ॥
मनसि कृतजनार्दनं मनुष्यं सततमवेहि हरेरतीवभक्तम् ॥ २१ ॥
कनकमपि रहस्यवेक्ष्य बुद्ध्या तृणमिव यस्समवैति वै परस्वम् ||
भवति च भगवत्यनन्यचेताः पुरुषवरं तमवेहि विष्णुभक्तम् ||२२||
स्फटिकगिरिशिलामलः क्व विष्णुर्मनसि नृणां क्व च मत्सरादिदोषः ||
न हि तुहिनमयूखरश्मिपुञ्जे भवति हुताशनदीप्तिज: प्रतापः ॥२३॥
विमलमतिरमत्सरः प्रशान्तश्शुचिचरितोऽखिलसत्त्वमित्रभूतः ॥
प्रियहितवचनोऽस्तमानमायो वसति सदा हृदि तस्य वासुदेवः ||२४||