English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 239

Puran Kavya Stotra Sudha - Page 239

Puran Kavya Stotra Sudha - Page 239


२२४
पुराणकाव्यस्तोत्रसुधा ।
क्रीडा ते लोकरचना सखा ते चिन्मयः शिवः ॥
आहारस्ते सदानन्दो वासस्ते हृदये सताम् ॥११॥
दृश्यावृश्य स्वरूपाणि रूपाणि भुवनानि ते ॥
शिरोरुहा घनास्ते तु तारकाः कुसुमानि ते ॥१२॥
धर्माद्या बाहवस्ते स्रवर्मा द्यायुधानि ते ॥
यमाश्च नियमाश्चैव करपादरुहास्तथा ॥१३॥
स्तनौ स्वाहास्वधाकारौ लोकोज्जीवनकारकौ ॥
प्राणायामस्तु ते नासा रसना ते सरस्वती ॥१४॥
प्रत्याहारस्त्विन्द्रियाणि ध्यानं ते धोस्तु सत्तमा ॥
मनस्ते धारणाशक्तिहं दयं ते समाधिकः ॥ १५॥
महीरुहास्तेङगरुहाः प्रभातं वसनं तव ॥
भूतं भव्यं भविष्यच्च नित्यं च तव विग्रहः ॥१६॥
यज्ञरूपा जगद्धात्री विश्वरूपा च पावनी ॥
आदौ या तु दयाभूता ससर्ज निखिलाः प्रजाः ॥ १७॥
हृदयस्थापि लोकानामदृश्या मोहनात्मिका ||
नामरूपविभागं च या करोति स्वलीलया ॥१८॥
तान्यधिष्ठाय तिष्ठन्ति तेष्वसक्तार्थकामदा ॥
नमस्तस्यै महादेव्यं सर्वशक्त्यै नमोनमः ॥१९॥
यदाज्ञया प्रवर्तन्ते वह्निसूर्येन्दुमारुताः ॥
पृथिव्यादीनि भूतानि तस्यै देव्यै नमोनमः ||२०|
नमोनमस्ते रजसे भवाय नमोनमः सात्त्विकसंस्थितायै ||
नमोनमस्ते तमसे हरायै नमोनमो निर्गुणतः शिवायै ॥ ४॥
नमोनमस्ते जगदेकमात्रे नमो नमस्ते जगदेकपित्रे ॥
नमोनमस्तेऽखिलरूपतन्त्रे नमो नमस्तेऽखिलयन्त्ररूपे ॥२५॥
नमोनमो लोकगुरुप्रधाने नमोनमस्तेऽखिलवाग्विभूत्यं ॥
नमोऽस्तु लक्ष्म्यै जगवेकतुष्टचं नमोनमः शांभवि सर्वशक्त्यं ॥ २६ ॥
अनादिमध्यान्तमपाञ्चभौतिकं ह्यवाङ्मनोगम्यमतर्क्य वैभवम् ॥
अरूपमद्वन्द्वमदृष्टिगोचरं प्रभावमग्न्यं कथमम्ब वर्णये ॥२७॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP