पुराणकाव्यस्तोत्रसुघा |
१००
गोप्य ऊचु:-
मैवं विभोऽर्हति भवान्गदितुं नृशंसं संत्यज्य सर्वविषयांस्तव पादमूलम् ||
भक्ता भजस्व दुरवग्रह मा त्यजास्मान देवो यथाऽऽदिपुरुषो भजतो मुमुक्षून् ||
यत्पत्यपत्यसुहृदामनुवृत्तिरङ्ग स्त्रीणां स्वधर्म इति धर्मविदा त्वयोक्तम् ॥
अस्त्वेवमेतदुपदेशपदे त्वयीशे प्रेष्ठो भवांस्तनुभृतां किल बन्धुरात्मा ॥ ३२ ॥
कुर्वन्ति हि त्वयि रति कुशलाः स्व आत्मन् नित्यप्रिये पतिसुतादिभिरातिदैः किम्
तन्नः प्रसीद परमेश्वर मा स्म छिन्द्या आशां भृतां त्वयि चिरादरविन्दनेत्र ||
चित्तं सुखेन भवतापहृतं गृहेषु यन्निविशत्युत करावपि गृह्यकृत्ये ॥
पादौ पदं न चलतस्तव पादमूलाद यामः कथं व्रजमयो करवाम कि वा ॥ ३४॥
सिचाङ्ग नस्त्वदधरामृतपुरकेण हासावलोककलगीतजहृच्छयाग्निम् ॥
नो चेद्वयं विरहजाग्न्युपयुक्तदेहा ध्यानेन याम पदयोः पदव सखे ते ॥ ३५ ॥
यर्ह्यम्बुजाक्ष तव पादतलं रमाया दत्तक्षणं क्वचिदरण्यजन प्रियस्य ||
अस्प्राक्ष्म तत्प्रभृति नान्यसमक्षमङ्ग स्थात् त्वयाभिरमिता बत पारयामः ॥३६॥
श्रीर्यत्पदाम्बुजरजश्चकमे तुलस्या लब्ध्वापि वक्षति पदं किलभृत्यजुष्टम् ॥
यस्याः स्ववीक्षणकृतेऽन्यसुरप्रयासस्तद्वद् वयं च तव पादरजः प्रपन्नाः || ३७ ॥
तन्नः प्रसीद वृजिनार्दन तेंघ्रिमूलं प्राप्ता विसृज्य वसतीस्त्वदुपासनाशाः ॥
त्वत्सुन्दरस्मितनिरीक्षणतीव्रकामतप्तात्मनां पुरुषभूषण देहि दास्यम् ॥ ३८ ॥
वीक्ष्यालकावृतमुखं तव कुण्डलश्रीगण्डस्थलाधरसुखं हसितावलोकम् ||
दत्ताभयं च भुजदण्डयुगं विलोक्य वक्षः श्रियंकरमणं च भवाम दास्यः || ३९||
का स्त्र्यङ्ग ते कलपदायतमूच्छितेन सम्मोहिताऽऽयंचरितान्न चले त्रिलोक्याम् ॥
त्रैलोक्यसौभगमिदं च निरीक्ष्य रूपं यद् गोद्विजद्रुममृगाः पुलकान्यबिभ्रन् ॥४०॥
व्यक्तं भवान् व्रजभयातिहरोऽभिजातो देवो यथाऽऽदिपुरुषः सुरलोकगोप्ता ||
तन्नो निधेहि करपङ्कजमार्तबन्धो तप्तस्तनेषु च शिरस्सु च किङ्करीणाम् ॥
श्रीशुक उवाच -
इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वरः ||
प्रहस्य सदयं गोपीरात्मारामोऽप्यरीरमत् ॥ ४२ ॥
ताभिः समेताभिरुदारचेष्टितः प्रियेक्षणोत्फुल्लमुखीभिरच्युतः ॥
उदारहास द्विजकुन्द दोषि तिर्व्य रोचतेणाङ्क इवोडुभिर्वृतः ॥ ४३ ॥